Pages

Saturday, September 6, 2025

कुलार्णवतन्त्रम् குலார்ணவ தந்திரம் Kularnava Tantram

கிரந்த லிபிக்கு மாற்ற, வலதுபுறம் மேல் உள்ள பெட்டியில் aksharamukha script converterஇல் Grantha என்று தேர்ந்தெடுக்கவும்


கிரந்த லிபியில் pdf பதிவிறக்க: https://drive.google.com/file/d/1ViO_3HTSQu4D7xFpZgwYaLSTg6QgHzMT/view?usp=drivesdk

அருப்புக்கோட்டை transcript: https://drive.google.com/file/d/181cssr_Y03hnHamiowCS7yxvF6zsBmsk/view?usp=drivesdk
|| श्रीः ||
कुलार्णवतन्त्रम्



अथ प्रथमोल्लासः
 कैलासशिखरासीनं देवदेवं जगद्गुरुम् |
 पप्रच्छेशं  परानन्दं  पार्वती  परमेश्वरम् || १ ||
श्रीदेव्युवाच
भगवन्   देवदेवेश    पञ्चक्रतुविधायक |
सर्वज्ञ    भक्तिसुलभ   शरणागतवत्सल || २ ||
कुलेश    परमेशान    करुणामृतवारिधे | 
असारे   घोरसंसारे   सर्वदुःखमलीमसाः || ३ ||
नानाविधशरीरस्था  अनन्ता  जीवराशयः |
जायन्ते च मिरयन्ते च तेषां मोक्षो न विद्यते || ४ ||
सदा दुःखातुरा देव न सुखी विद्यते क्वचित् | 
केनोपायेन  देवेश  मुच्यते  वद  मे   प्रभो || ५ ||
श्रीईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि |
तस्य  श्रवणमात्रेण  संसाराद्  मुच्यते नरः || ६ ||
अस्ति देविं परब्रह्मस्वरूपो निष्कलः शिवः  | 
सर्वज्ञः सर्वकर्त्ता  च  सर्वेशो निर्मलोऽद्वयः  || ७ ||
स्वयं ज्योतिरनाद्यन्तो निवीकारः परात् परः  |
निर्गुणः  सच्चिदानन्दस्तदंशा  जीवसंज्ञकाः  || ८ ||
अनाद्यविद्योपहिता  यथाग्नौ विस्फुलिङ्गकाः  |
गर्भाद्युपाधिसंभिन्नाः कर्मभिः करणादिभिः  || ९ ||
सर्वदुःखप्रदैः      स्वीयपुण्यपापैनीयन्त्रिताः  |
तत्तज्जातियुतं  देहम्  आयुर्भोगञ्च  कर्मजम्  || १० ||
प्रतिजन्म   प्रपद्यन्ते    मानुषा    मूढचेतसः  |
सूक्ष्मलिङ्गशरीरन्तदामोक्षादक्षयं        प्रिये  || ११ ||
स्थावराः क्रिमयश्चाब्जाः पक्षिणः पशवो नराः|
धामीकास्त्रिदशास्तद्वन्मोक्षिणश्च    यथाक्रमम्  || १२ ||
चतुवीधशरीराणि   धृत्वा   धृत्वा  सहस्रशः  |
सुकृतान्मानवो भूत्वा ज्ञानी  चेन्मोक्षमाप्नुयात्  || १३ ||
चतुरशीतिलक्षेषु     शरीरेषु     शरीरिणाम्  |
न  मानुष्यं   विना  यत्र  तत्त्वज्ञानं  तु लभ्यते  || १४ ||
अत्र    जन्मसहस्रेषु   सहस्रैरपि    पार्वति  |
कदाचिल्लभते  जन्तुर्मानुष्यं  पुण्यसञ्चयात्  || १५ ||
सोपानभूतं  मोक्षस्य मानुष्यं  प्राप्य दुर्लभम्  |
यस्तारयति नात्मानं तस्मात् पापतरोऽत्र कः  || १६ ||
ततश्चाप्युत्तमं जन्म लब्ध्वा चेन्द्रियसौष्ठवम्  |
न वेत्त्यात्महितं यस्तु स भवेत् आत्मघातकः  || १७ ||
विना  देहेन कस्यापि  पुरुषार्थो  न विद्यते  |
तस्माद्देहधनं प्राप्य पुण्यकर्माणि साधयेत्  || १८ ||
रक्षेत् सर्वात्मनात्मानम् आत्मा सर्वस्य भाजनम् | 
रक्षणे  यत्नमातिष्ठेत्  यावत्तत्त्वं   न  पश्यति  || १९ ||
पुनर्ग्रामाः  पुनः  क्षेत्रं  पुनवीत्तं पुनर्गृहम्  |
पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः  || २० ||
शरीररक्षणायासः  क्रियते   सर्वदा   जनैः  |
नहीच्छन्ति    तनुत्यागमपि  कुष्ठादिरोगतः  || २१ ||
तद्गोपितं स्याद् यत्नेन  धर्मो ज्ञानार्थमेव च  | 
ज्ञानञ्च  ध्यानयोगार्थं सोऽचिरात् परिमुच्यते  || २२ ||
आत्मैव  यदि नात्मानमहितेभ्यो  निवारयेत्  |
कोऽन्यो हितकरस्तस्मादात्मानं तारयिष्यति  || २३ ||
इहैव   नरकव्याधेश्चिकित्सां   न   करोति  यः  |
गत्वा निरौषधं स्थानं व्याधिस्थः किं करिष्यति  || २४ ||
सुदीप्त भवने को  वा कूपं खनति दुर्मतिः  | 
यावत्तिष्ठति देहोऽयं  तावत्तत्त्वं समभ्यसेत्  || २५ ||
व्याघ्रीवास्ते जरा चायुर्याति  भिन्नघटाम्बुवत्  |
निघ्नन्ति  रिपुवद्रोगास्तस्माच्छ्रेयः  समाचरेत्  || २६ ||
यावन्नाश्रयते दुःखं यावन्नायान्ति  चापदः  |
यावन्नेन्द्रियवैकल्यं  तावच्छ्रेयः समाचरेत्  || २७ ||
कालो न ज्ञायते नानाकार्यैः संसारसम्भवैः  | 
सुखदुःखरतो   जन्तुर्न  वेत्ति   हितमात्मनः  || २८ ||
जडानार्त्तान्मृतानापद्गतान्  दृष्ट्वाऽतिदुःखितान्  |
लोको  मोहसुरां  पीत्वा  न  विभेति  कदाचन  || २९ ||
सम्पदः  स्वप्नसङ्काशा  यौवनं  कुसुमोपमम्  |
तडिच्चञ्चलमायुश्च  कस्य स्याज्जगतो  धृतिः  || ३० ||
शतं जीवितमत्यल्पं  निद्रा स्यादर्द्धहारिणी  |
बाल्यरोगजरादुःखैरर्द्धं  तदपि  निष्फलम्  || ३१ ||
प्रारब्धव्ये  निरुद्योगो  जागर्त्तव्ये   सुषुप्तकः  |
विश्वस्तव्यो भयस्थाने घातकैः किं न हन्यते  || ३२ ||
तोयफेनसमे  देहे जीवे  शकुनिवत्  स्थिते  | 
अनित्येऽप्रियसंसारे कथं तिष्ठन्ति निर्भयाः  || ३३ ||
अहिते  हितबुद्धिः  स्यादध्रुवे  ध्रुवचिन्तकः  | 
अनर्थं चार्थविज्ञानी स्वमृत्युं यो न वेत्ति च  || ३४ ||
पश्यन्नपि न पश्येत् स शृण्वन्नपि न बुध्यति  |
पठन्नपि  न  जानाति  तव   मायाविमोहितः  || ३५ ||
सन्निमज्जज्जगदिदं  गम्भीरे  कालसागरे  |
मृत्युरोगजराग्राहे  न  किञ्चिदपि  बुध्यति  || ३६ ||
प्रतिक्षणमयं  कायो  जीर्यमाणो  न  लक्ष्यते  |
आमकुम्भ इवाम्भःस्थो विशीर्णो नैव भाव्यते  || ३७ ||
युज्यते  वेष्टनं  वायोराकाशस्य च खण्डनम्  | 
ग्रथनञ्च    तरङ्गाणामास्था  नायुषि  युज्यते  || ३८ ||
पृथिवी  दह्यते  येन  मेरुश्चापि  विशीर्यते  |
शुष्यते सागरजलं शरीरे  देवि  का कथा  || ३९ ||
अपत्यं  मे कलत्रं मे धनं  मे  बान्धवश्च  मे  |
लपन्तमिति मर्त्त्यं हि हन्ति कालवृको बलात्  || ४० ||
इदं कृतमिदं कार्यमिदमन्यत् कृताकृतम्  |
एवमीहासमायुक्तं  मृत्युरत्ति  जनं   प्रिये  || ४१ ||
श्वःकार्यमद्य  कर्त्तव्यं पूर्वाह्णे चापराह्निकम्  |
न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वा कृतम्  || ४२ ||
जरादशीतपन्थानं      प्रचण्डव्याधिसैनिकम्  |
मृत्युशत्रुमभिज्ञोऽसि  आयान्तं किं न पश्यसि  || ४३ ||
आशा सूचीविनिभीन्नं सिक्तं विषयसपीषा  |
रागद्वेषानले  पक्वं  मृत्युरश्नाति  मानवम्  || ४४ ||
बालांश्च यौवनस्थांश्च वृद्धान् गर्भगतानपि  |
सर्वांश्च   हिंसते   मृत्युरेवम्भूतमिदं  जगत्  || ४५ ||
ब्रह्माविष्णुमहेशादिदेवता      भूतजातयः  |
नाशमेवानुधावन्ति  तस्माच्छ्रेयः समाचरेत्  || ४६ ||
स्वस्ववर्णाश्रमाचारलङ्घनाद्  दुष्प्रतिग्रहात्  |
परस्त्रीधनलोभाच्च नॄणामायुःक्षयो भवेत्  || ४७ ||
वेदशास्त्राद्यनभ्यासात्तथैव    गुर्वनर्चनात्  |
नॄणामायुःक्षयो भूयादिन्द्रियाणामनिग्रहात्  || ४८ ||
व्याधिराधिवीषं शस्त्रं ना सर्पः पशवो मृगाः  |
मरणं  येन  निद्र्दष्टं  तेन  गच्छन्ति  जन्तवः  || ४९ ||
जीवस्तृणजलौकेव  देहाद्देहान्तरं व्रजेत्  |
सम्प्राप्य  परमंशेन  देहं त्यजति पूर्वजम्  || ५० ||
बाल्ययौवनवृद्धत्वं  यथा देहान्तरादिकम्  |
तथा      देहान्तरप्राप्तिर्गृहाद्गृहमिवागतः  || ५१ ||
जनाः कृत्वेह कर्माणि सुखदुःखानि भुञ्जते  |
परत्राज्ञानिनो  देवि  यान्त्यायान्ति पुनः पुनः  || ५२ ||
इह  यत्  क्रियते कर्म तत्  परत्रोपभुज्यते  |
सिक्तमूलस्य वृक्षस्य फलं शाखासु दृश्यते  || ५३ ||
दारिद्र्यदुःखरोगाश्च  बन्धनव्यसनानि  च  |
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम्  || ५४ ||
निःसङ्ग एव मोक्षः स्याद्दोषाः सर्वे च सङ्गजाः |
तस्मात् सङ्गं परित्यज्य  तत्त्वनिष्ठः सुखी भवेत्  |
सङ्गाच्च  चलते  ज्ञानी चावश्यं  किमुताल्पवित्  || ५५ ||
सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं  न शक्यते |
सद्भः सह स कर्त्तव्यः सतां सङ्गो हि भेषजम्  || ५६ ||
सत्सङ्गश्च    विवेकश्च    निर्मलं    नयनद्वयम्  |
यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः  || ५७ ||
यावतः  कुरुते जन्तुः  सम्बन्धान्मनसः प्रियान्  |
तावन्तोऽस्य   विशन्त्येते   हृदये  शोकशङ्कवः  || ५८ ||
स्वदेहमपि जीवोऽयं त्यक्त्वा  याति कुलेश्वरि  |
स्त्रीमातृपितृपुत्रादिसम्बन्धः     केन     हेतुना  || ५९ ||
दुःखमूलो हि संसारः स यस्यास्ति स दुःखितः|
तस्य त्यागः कृतो येन स  सुखी नापरः  प्रिये  || ६० ||
प्रभवं      सर्वदुःखानामाश्रयं   सकलापदाम्  |
आलयं   सर्वपापानां   संसारं  वर्जयेत्  प्रिये  || ६१ ||
अबन्धबन्धनं   घोरं  मिश्रीकृतमहाविषम्  |
अशस्त्रखण्डनं देवि  संसारासक्तचेतसाम्  || ६२ ||
आदिमध्यावसानेषु    सर्वं    दुःखमिदं   यतः  | 
तस्मात् सन्त्यज्य संसारं तत्त्वनिष्ठः सुखी भवेत्  || ६३ ||
लौहदारुमयैः पाशैर्दृढबन्धोऽपि मुच्यते  |
स्त्रीधनादिषु संसक्तो मुच्यते न कदाचन  || ६४ ||
कुटुम्बचिन्तायुक्तस्य  श्रुतशीलादयो  गुणाः  |
अपक्वकुम्भजलवत् नश्यन्त्यङ्गेन केवलम्  || ६५ ||
वञ्चिताशेषचित्तैस्तैनीत्यं लोको विनाशितः  |
हा    हन्त   विषयाहारैर्देहस्थेन्द्रियतस्करैः  || ६६ ||
मांसलुब्धो  यथा मत्स्यो लौहशंकुं न पश्यति  |
सुखलुब्धस्तथा  देही  यमबाधां  न  पश्यति  || ६७ ||
हिताहितं  ना  जानन्तो नित्यमुन्मार्गगामिनः  |
कुक्षिपूरणनिष्ठा ये तेऽबुधा नारकाः प्रिये  || ६८ ||
निद्रादिमैथुनाहाराः  सर्वेषां   प्राणिनां  समाः  |
ज्ञानवान् मानवः प्रोक्तो ज्ञानहीनः पशुः प्रिये  || ६९ ||
प्रभाते  मलमूत्राभ्यां क्षुत्तृड्भ्यां मध्यगे रवौ  |
रात्रौ  मदननिद्राभ्यां बाध्यन्ते  मानवाः प्रिये  || ७० ||
स्वदेहधर्मदारादिनिरताः        सर्वजन्तवः  | 
जायन्ते च मिरयन्ते च हा हन्ताज्ञानमोहिताः  || ७१ ||
स्वस्ववर्णाश्रमाचारनिरताः     सर्वमानवाः  |
न जानन्ति परं  तत्त्वं मूढा  नश्यन्ति पार्वति  || ७२ ||
क्रियायासपराः केचित् क्रतुचर्यादि संयुताः  |
अज्ञानसंयुतात्मानः   सञ्चरन्ति   प्रतारकाः  || ७३ ||
नाममात्रेण सन्तुष्टाः  कर्मकाण्डरता  नराः  |
मन्त्रोच्चारणहोमाद्यैर्भ्रामिताः   क्रतुविस्तरैः  || ७४ ||
एकभक्तोपवासाद्यैनीयमैः    कायशोषणैः  |
मूढः परोक्षमिच्छन्ति  तव मायाविमोहिताः  || ७५ ||
देहदण्डनमात्रेण  का  मुक्तिरविवेकिनाम्  |
वल्मीकताडनाद्देवि मृतः किन्नु महोरगः  || ७६ ||
धनाहारार्जने  युक्ता  दाम्भिका वेषधारिणः  |
भ्रमन्ति ज्ञानिवल्लोके भ्रामयन्ति  जनानपि  || ७७ ||
सांसारिकसुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम्  |
कर्मब्रह्मोभयभ्रष्टं   तं   त्यजेदन्त्यजं   यथा  || ७८ ||
गृहारण्यसमा  लोके  गतव्रीडा  दिगम्बराः |
चरन्ति गर्दभाद्याश्च योगिनस्ते भवन्ति किम्  || ७९ ||
मृद्भस्मम्रक्षणाद्  देवि  मुक्ताः स्युर्यदि  मानवाः  |
मृद्भस्मवासिनो ग्राम्याः किं ते मुक्ता भवन्ति हि || ८०||
तृणपर्णोदकाहाराः    सततं   वनवासिनः  |
हिरणादिमृगा देवि योगिनस्ते भवन्ति किम्  || ८१ ||
आजन्ममरणान्तञ्च     गङ्गादितटिनीस्थिताः  |
मण्डूकमत्स्यप्रमुखा व्रतिनस्ते भवन्ति किम्  || ८२ ||
वदन्ति   हृदयानन्दं   पठन्ति  शुकसारिकाः  |
जनानां पुरतो देवि विबुधाः किं भवन्ति हि  || ८३ ||
पारावताः  शिलाहाराः  परमेश्वरि  चातकाः  |
न पिबन्ति महीतोयं योगिनस्ते भवन्ति  किम्  || ८४ ||
शीतवातातपसहा   भक्ष्याभक्ष्यसमाः    प्रिये  |
तिष्ठन्ति शूकराद्याश्च योगिनस्ते भवन्ति किम्  || ८५ ||
तस्मादित्यादिकं कर्म लोकवञ्चनकारकम्  |
मोक्षस्य कारणं साक्षात्तत्त्वज्ञानं कुलेश्वरि  || ८६ ||
षड्दर्शनमहाकूपे  पतिताः पशवः  प्रिये  |
परमार्थं न  जानन्ति पशुपाशानियन्त्रिताः  || ८७ ||
वेदशास्त्रार्णवे   घोरे   ताड्यमाना   इतस्ततः  |
कालोमीग्राहग्रस्ताश्च तिष्ठन्ति हि कुताकीकाः  || ८८ ||
वेदागमपुराणज्ञः   परमार्थं   न   वेत्ति   यः  |
विडम्बकस्य तस्यापि तत् सर्वं काकभाषितम्  || ८९ ||
इदं  ज्ञानमिदं  ज्ञेयमिति  चिन्तासमाकुलाः  |
पठन्त्यहनीशं   देवि    परतत्त्वपराङ्मुखः  || ९० ||
वाक्यच्छन्दोनिबन्धेन    काव्यालङ्कारशोभिना  |
चिन्तया दुःखिता मूढास्तिष्ठन्ति व्याकुलेन्द्रियाः || ९१||
अन्यथा परमं  तत्त्वं जनाः  क्लिश्यन्ति चान्यथा  |
अन्यथा शास्त्रसद्भावो व्याख्यां कुर्वन्ति चान्यथा  || ९२ ||
कथयन्त्युन्मनीभावं स्वयं नानुभवन्ति हि  |
अहङ्कारहताः     केचिदुपदेशविवजीताः  || ९३ ||
पठन्ति वेदशास्त्राणि विवदन्ति परस्परम्  |
न जानन्ति परं तत्त्वं दर्वी पाकरसं यथा  || ९४ ||
शिरो वहति पुष्पाणि गन्धं जानाति नासिका  |
पठन्ति  वेदशास्त्राणि   दुर्लभो   भाववेदकः  || ९५ ||
तत्त्वमात्मस्थमज्ञात्त्वा मूढः शास्त्रेषु मुह्यति  |
गोपः कक्षगतं  छागं कूपे पश्यति दुर्मतिः  || ९६ ||
संसार मोहनाशाय शाब्दबोधो न हि क्षमः  |
न   निवर्त्तेत  तिमिरं  कदाचिद्दीपवार्त्तया  || ९७ ||
प्रज्ञाहीनस्य  पठनम्   अन्धस्यादर्शदर्शनम्  |
देवि प्रज्ञावतः शास्त्रं तत्त्वज्ञानस्य कारणम्  || ९८ ||
अग्रतः पृष्ठतः केचित् पार्श्वयोरपि केचन  |
तत्त्वमीदृक् तादृगिति  विवदन्ति  परस्परम्  |
सद्विद्यादानशूराद्यैर्गुणैवीख्यातमानवाः  || ९९ ||
प्रत्यक्षग्रहणं  नास्ति  वार्त्तया  ग्रहणं  कुतः  |
एवं  ये शास्त्रसम्मूढास्ते दूरस्था न संशयः  || १०० ||
इदं  ज्ञानमिदं  ज्ञेयं  सर्वतः  श्रोतुमिच्छति  |
देवि वर्षसहस्रायुः शास्त्रान्तं  नैव गच्छति  || १०१ ||
वेदाद्यनेकशास्त्राणि     स्वल्पायुवीघ्नकोटयः  |
तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसः  || १०२ ||
अभ्यस्य सर्वशास्त्राणि तत्त्वं ज्ञात्वा हि बुद्धिमान्  |
पलालमिव   धान्यार्थी   सर्वशास्त्रं  परित्यजेत्  || १०३ ||
यथामृतेन   तृप्तस्य   नाहारेण   प्रयोजनम्  |
तत्त्वज्ञस्य तथा देवि न शास्त्रेण प्रयोजनम्  || १०४ ||
न    वेदाध्ययनान्मुक्तिर्न    शास्त्रपठनादपि  |
ज्ञानादेव हि मुक्तिः स्यान्नान्यथा वीरवन्दिते  || १०५ ||
नाश्रमाः कारणं मुक्तेर्दर्शनानि न कारणम्  |
तथैव सर्वशास्त्राणि ज्ञानमेव हि कारणम्  || १०६ ||
मुक्तिदा गुरुवागेका विद्याः सर्वा विडम्बकाः  |
काष्ठभारश्रमादस्मादेकं   सञ्जीवनं   परम्  || १०७ ||
अद्वैतन्तु शिवेनोक्तं क्रियायासविवजीतम्  |
गुरुवक्त्रेण लभ्येत नान्यथागमकोटिभिः  || १०८ ||
आगमोत्थं विवेकोत्थं  द्विधा ज्ञानं प्रचक्षते  |
शब्दब्रह्मागममयं   परं   ब्रह्म   विवेकजम्  || १०९ ||
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति  चापरे  |
मम  तत्त्वं  च जानन्ति द्वैताद्वैतविवजीतम्  || ११० ||
द्वे पदे बन्धमोक्षाय  ममेति  निर्ममेति च  |
ममेति बाध्यते जन्तुर्न  ममेति  विमुच्यते  || १११ ||
तत् कर्म  यन्न बन्धाय विद्या सा या विमुक्तये  |
आयासायापरं  कर्म  विद्यान्या  शिल्पनैपुणम्  || ११२ ||
यावत् कामादि दीप्येत यावत्  संसारवासना  |
यावदिन्द्रियचापल्यं   तावत्तत्त्वकथा    कुतः  || ११३ ||
यावत् प्रयत्नवेगोऽस्ति यावत् सङ्कल्पकल्पना  |
यावन्न  मनसः  स्थैर्यं  तावत्तत्त्वकथा  कुतः  || ११४ ||
यावद्देहाभिमानश्च  ममता यावदस्ति  हि  |
यावन्न गुरुकारुण्यं  तावत्तत्त्वकथा कुतः  || ११५ ||
तावत्तपो व्रतं तीथर्ं जपहोमार्च्चनादिकम्  |
वेदशास्त्रागमकथा यावत्तत्त्वं  न  विन्दते  || ११६ ||
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु  सर्वदा  |
तत्त्वनिष्ठो  भवेद्देवि यदीच्छेन्मोक्षमात्मनः  || ११७ ||
धर्मज्ञानसुपुष्पस्य स्वर्गलोक फलस्य  च  |
तापत्रयात्तीसन्तप्तश्छायां मोक्षतरोः श्रयेत्  || ११८ ||
बहुनात्र  किंमुक्तेन  रहस्यं  शृणु  पार्वति  |
कुलधर्ममृते  मुक्तर्नास्ति  सत्यं  न संशयः  || ११९ ||
तस्माद्वदामि तत्त्वन्ते  विज्ञाय श्रीगुरोर्मुखात्  |
सुखेन  मुच्यते   देवि   घोरसंसारबन्धनात्  || १२० ||
इति ते कथिता काचिज्जीवजातिस्थितिः प्रिये  |
समासेन कुलेशानि  किं  भूयः  श्रोतुमिच्छसि  || १२१ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे जीव-
स्थितिकथनं नाम प्रथमोल्लासः || १ ||



अथ द्वितीयोल्लासः

श्रीदेव्युवाच 
कुलेश  श्रोतुमिच्छामि  सर्वजीवदयानिधे  |
कुलधर्मस्त्वया देव सूचितो न प्रकाशितः  || १ ||
तस्य  धर्मस्य  माहात्म्यं  सर्वधर्मोत्तमस्य  च  |
ऊद्र्ध्वाम्नायस्य माहात्म्यं तन्मतं वद मे प्रभो  |
वद  मे परमेशान यदि  तेऽस्ति  कृपा  मयि  || २ ||
श्री ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि  |
तस्य श्रवणमात्रेण  योगिनीनां प्रियो भवेत्  || ३ ||
ब्रह्माविष्णुगुहादीनां न मया  कथितं पुरा  |
कथयामि तव स्नेहात् शृणुष्वैकाग्रमानसा  || ४ ||
पारम्पर्ययक्रमायातं पञ्चवक्त्रेषु संस्थितम्  |
अकथ्यं परमार्थेन  तथापि  कथयामि ते  || ५ ||
त्वयापि गोपितव्यं हि न देयं यस्य कस्यचित्  |
देयं  भक्ताय  शिष्याय  अन्यथा  पतनं भवेत्  || ६ ||
सर्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं  परम्  |
वैष्णवादुत्तमं   शैवं    शैवाद्दक्षिणमुत्तमम्  || ७ ||
दक्षिणादुत्तमं वामं वामात्  सिद्धान्तमुत्तमम्  |
सिद्धान्तादुत्तमं कौलं कौलात् परतरं न हि  || ८ ||
गुह्याद् गुह्यतरं देवि सारात् सारं परात् परम्  |
साक्षात् शिवप्रदं देवि कर्णाकणीगतं कुलम्  || ९ ||
मथित्वा  ज्ञानदण्डेन  वेदागममहार्णवम्  |
सारज्ञेन मया देवि कुलधर्मः समुद्धृतः  || १० ||
एकतः  सकला   धर्मा   यज्ञतीर्थव्रतादयः  |
एकतः कुलधर्मश्च तत्र कौलोऽधिकः  प्रिये  || ११ ||
प्रविशन्ति यथा नद्यः समुद्रम्  ऋजुवक्रगाः  |
तथैव  विविधा धर्माः प्रविष्टाः कुलमेव हि  || १२ ||
यथा  हस्तिपदे  लीनं सर्वप्राणीपदं भवेत्  |
दर्शनानि च सर्वाणि कुल एव तथा प्रिये  || १३ ||
यदा  जाम्बुनदानाञ्च  सदृशं  लौहमस्ति चेत्  |
तदा च कुलधर्मेण समयोऽन्यः समो भवेत्  || १४ ||
यथामरतरङ्गिण्या न समाः सकलापगाः  |
तथैव समयाः सर्वे कुलधर्मेण नो समाः  || १५ ||
मेरुसर्षपयोर्यद्वत्       सूर्यखद्योतयोर्यथा  |
तथान्यसमयस्यापि  कुलस्य  महदन्तरम्  || १६ ||
अस्ति चेत्त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत्  |
कुलेन   समधर्मस्तु    तथापि    न   कदाचन  || १७ ||
कुलधर्मं  हि   मोहेन  योऽन्यधर्मेण  दुर्मतिः  |
बद्धः संसारपाशेन सोऽन्त्यजानां प्रियो भवेत्  || १८ ||
यो वा कुलाधिकं  धर्ममज्ञानाद्वदति  प्रिये  |
ब्रह्महत्याधिकं पापं स प्राप्नोति न संशयः  || १९ ||
कुलधर्मप्रवहणं     समारुह्य     नरोत्तमः  |
स्वर्गादि द्वीपान्तरं गत्वा  मोक्षरत्नं समश्नुते  || २० ||
दर्शनेषु  च  सर्वेषु  चिराभ्यासेन  मानवाः  |
मोक्षं  लभन्ते कौले तु सद्य एव न संशयः  || २१ ||
बहुनात्र   किमुक्तेन   शृणु  मत्प्राणवल्लभे  |
न कौलसमधर्मोऽस्ति त्वां शपे कुलनायिके  || २२ ||
योगी चेन्नैव भोगी स्याद्भोगी चेन्नैव योगवित्  |
भोगयोगात्मकं कौलं तस्मात् सर्वाधिकं प्रिये  || २३ ||
भोगो योगायते साक्षात् पातकं सुकृतायते  |
मोक्षायते च संसारः  कुलधर्मे  कुलेश्वरि  || २४ ||
ब्रह्मेन्द्राच्युतरुद्रादिदेवतामुनिपुङ्गवाः  |
कुलधर्मपरा देवि मानुषेषु  च का कथा  || २५ ||
विहाय   सर्वधर्मांश्च   नानागुरुमतानि  च  |
कुलमेव विजानीयाद्यदीच्छेत् सिद्धिमात्मनः  || २६ ||
पूर्वजन्मकृताभ्यासात् कुलज्ञानं प्रकाशते  |
स्वप्नोत्थित  प्रत्ययवदुपदेशादिकं  विना  || २७ ||
जन्मान्तरसहस्रेषु या बुद्धिवीहिता नृणाम्  |
तामेव  लभते  जन्तुरुपदेशो  निरर्थकः  || २८ ||
शैववैष्णवदौर्गार्कगाणपत्येन्दुसम्भवैः  |
मन्त्रैवीशुद्धचित्तस्य  कुलज्ञानं  प्रकाशते  || २९ ||
सर्वधर्माश्च  देवेशि  पुनरावर्त्तकाः  स्मृताः  |
कुलधर्मस्थिता ये च ते सर्वेऽप्यनिवर्त्तकाः  || ३० ||
पुराकृततपोदानयज्ञतीर्थजपव्रतैः  |
क्षीणांहसां नृणां देवि कुलज्ञानं प्रकाशते  || ३१ ||
त्वमहं देवि कल्याणि यस्य तुष्टावुभावपि  |
देवतागुरुभक्त्या  च  कुलज्ञानं  प्रकाशते  || ३२ ||
शुद्धचित्तस्य शान्तस्य कमीणो गुरुसेविनः  |
अतिभक्तस्य  गुह्यस्य  कुलज्ञानं  प्रकाशते || ३३ ||
श्रीगुरौ कुलशास्त्रेषु कौलिकेषु कुलाश्रये  |
यस्य भक्तिर्दृढा तस्य कुलज्ञानं प्रकाशते  || ३४ ||
श्रद्धा   विनयहर्षाद्यैः   सदाचारदृढव्रतैः  |
गुर्वाज्ञापालकैर्धर्मैः     कुलज्ञानमवाप्यते  || ३५ ||
अनर्हे  कुलविज्ञानं   न   तिष्ठति  कदाचन  |
तस्मात् परीक्ष्य वक्तव्यं कुलज्ञानं मयोदितम्  || ३६ ||
न ब्रूयात् कुलधर्मं तमयोग्ये कुलशासनम्  |
आज्ञाभङ्गञ्च यः कुर्याद्देवताशापमाप्नुयात्  || ३७ ||
आराध्य   समयाचारं   कुलज्ञानं  वदेद्यदि  |
स गुरुश्चापि शिष्यश्च योगिनीनां भवेत् पशुः  || ३८ ||
बोधयित्वा गुरुः शिष्यं कुलज्ञानं प्रकाशयेत्  |
लभेते   तावुभौ   साक्षाद्योगिनीवीरमेलनम्  || ३९ ||
अनायासेन   संसारसागरं  यस्तितीर्षति  |
कुलधर्ममिमं ज्ञात्वा मुच्यते नात्र संशयः  || ४० ||
कुलधर्ममहामार्गगन्ता   मुक्तिपुरीं   व्रजेत्  |
अचिरान्नात्र सन्देहस्तस्मात् कौलं समाश्रयेत्  || ४१ ||
कुलशास्त्रमनादृत्य पशुशास्त्राणि योऽभ्यसेत्  |
स्वगृहे पायसं  त्यक्त्वा  भिक्षामटति  पार्वति  || ४२ ||
विहाय कुलधर्म यः परधर्मपरो भवेत्  |
करस्थं रत्नमुत्सृज्य दूरस्थं काचमीहते  || ४३ ||
संत्यज्य कुलमन्त्राणि पशुमन्त्राणि यो जपेत्  |
स  धान्यराशिमुत्सृज्य  पांसुराशिं  जिघृक्षति  || ४४ ||
कुलान्वयं समुत्सृज्य योऽन्यमन्वयमीक्षते  |
तडागादिव तृष्णार्त्तो मृगतृष्णां  प्रधावति  || ४५ ||
यथेन्द्राजालजा मायाः क्षणमेव सुखावहाः  |
श्रीकौलादन्यसमयास्तादृशाः  कुलनायिके  || ४६ ||
कुलधर्ममजानन् यः संसारान्मोक्षमिच्छति  |
पारावारमपारं  स पाणिभ्यां  तर्त्तुमिच्छति  || ४७ ||
यो वान्यदर्शनेभ्यश्च भुक्तिं मुक्तिञ्च काङ्क्षति  |
स्वप्नलब्धधनेनैव    धनवान्   स  भवेत्तदा  || ४८ ||
शुक्तौ रजतविभ्रान्तिर्यथा जायेत पार्वति  |
तथान्यसमयेभ्यश्च भुक्तिर्मुक्तिः प्रकाशते  || ४९ ||
सर्वकर्मविहीनोऽपि           वर्णाश्रमविवजीतः  |
कुलनिष्ठः कुलेशानि भुक्तिमुक्त्योः स भाजनम्  || ५०||
कुलज्ञानविहीनोऽपि कुलभक्त्याश्रयो भवेत्  | 
सोऽपि सद्गतिमाप्नोति किमुतास्य परायणः  || ५१ ||
कुलधर्मो  हतो  हन्ति रक्षितो  रक्षति प्रिये  |
पूजितः पूजयत्याशु तस्मात्तं न परित्यजेत् || ५२ ||
निन्दन्तु बान्धवाः सर्वे त्यजन्तु स्त्रीसुतादायः  |
जना हसन्तु मां दृष्ट्वा राजानो दण्डयन्तु वा || ५३ ||
सेवे   सेवे   पुनःसेवे  त्वामेव   परदेवते  |
त्वद्धर्म नैव मुञ्चामि मनोवाक्कायकर्मभिः  || ५४ || 
एवमापद्गतस्यापि यस्य भक्तिः सुनिश्चला  |
स तु सम्पूज्यते देवैरमुत्र  स  शिवो भवेत्  || ५५ ||
रोगदारिद्र्यदुःखाद्यैः   पीडितोऽप्यनिशं   शिवे  |
यस्त्वामुपास्ते भक्त्या स नरः सद्गतिमाप्नुयात्  || ५६ ||
जनाः स्तुवन्तु निन्दन्तु लक्ष्मीर्गच्छतु तिष्ठतु  |
मृतिरद्य युगान्ते वा  कुलं  नैव  परित्यजेत्  || ५७ ||
नापि लोभान्न च क्रोधान्न द्वेषान्न च मत्सरात् |
न  कामन्न  भयाद्वापि  कुलधर्मं  परित्यजेत्  || ५८ ||
यो  जन्तुर्नार्चयेत्त्वान्तु   कुलधर्मसमाश्रितः  |
क्लिश्यते जातमात्रेण भूतारिणात्मशत्रुणा  || ५९ ||
पुलाका इव  धान्येषु  पतंगा  इव  जन्तुषु  |
बुद्बुदा इव तोयेषु ये कौलविमुखा हि ते  || ६० ||
तरवोऽपि  हि जीवन्ति जीवन्ति  मृगपक्षिणः  | 
स जीवति मनो  यस्य कुलधर्मे व्यवस्थितम्  || ६१ ||
कुलधर्मविहीनस्य दिनान्यायान्ति यान्ति  च  |
स   लोहकारभस्रेवश्वसन्नपि  न  जीवति  || ६२ ||
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा  |
कुलेश्वरि कुलाज्ञस्य तत्  पशोरिव जीवितम्  || ६३ ||
विद्वानपि च मूर्खोऽसौ धामीको वाप्यधामीकः  |
व्रतस्थोऽप्यव्रतस्थो वा यः कौलविमुखो जनः  || ६४ ||
जातास्त एव  जगति  जन्तवः साधु  जीविनः  |
कुलधर्मपरा   देवि   शेषाश्च    द्वारगर्दभाः  || ६५ ||
स पुमानुच्यते  सद्भिः  कुलधर्मपरायणः  |
अपरस्तु   परं  सत्यमस्थिकूटत्वचावृतः  || ६६ ||
चतुर्वेदी  कुलाज्ञानी  श्वपचादधमः प्रिये  |
श्वपचोऽपि कुलज्ञानी ब्राह्मणादतिरिच्यते  || ६७ ||
गुरुकारुण्ययुक्तस्तु    दीक्षानिर्धूतपातकः  |
कुलपूजारतो देवि सोऽयं कौलो न चेतरेः  || ६८ ||
यः कौलिकः  कुलज्ञानं  न पश्यति  न विन्दति  |
न पूजयति धिक् तस्य तत् काकस्येव जीवितम्  || ६९ ||
ते धन्याः पुण्यकर्माणस्ते सन्तस्ते च योगिनः  |
येषां   भाग्यवशाद्देवि   कुलज्ञानं  प्रकाशते  || ७० ||
ते वन्द्यास्ते महात्मानः कृतार्थस्ते नरोत्तमाः  |
येषामुत्पद्यते   चित्ते  कुलज्ञानं  मयोदितम्  || ७१ ||
सर्वप्रकाशगमनं      सर्वतीर्थावगाहनम्  |
यत्   सर्वयज्ञाचरणं  कुलधर्मप्रवेशनम्  || ७२ ||
प्रविशन्ति कुलं धर्म ये वै सुकृतिनो नराः  |
ते  पुनर्जननीगर्भ  न  विशन्ति  कदाचन  || ७३ ||
प्रसङ्गेनापि यः कश्चित् कुलं कुलमितीरयेत् |
कुल तत्  पावनं देवि  भवति  त्वदनुग्रहात्  |
कुलज्ञानस्य कुलेशानि नान्यधर्मैः प्रयोजनम्  || ७४ ||
कुलेशि कुलनिष्ठानां कौलिकानां महात्मनाम्  |
ददामि   परमं   ज्ञानं  चान्तकाले  न  संशयः  || ७५ ||
चिरायासाल्पफलदं काङ्क्षते समयं जनाः  |
सुखेन सर्वफलदं कुलं कोऽपि त्यजत्यहो  || ७६ ||
कुलज्ञो हि च सर्वज्ञो वेदशास्त्रोज्झितोऽपि वा  |
वेदशास्त्रागमज्ञोऽपि   कुलाज्ञस्त्वज्ञ  एव  हि  || ७७ ||
जानन्ति कुलमाहात्म्यं  त्वद्भक्ता एव  नापरे  |
चकोरा एव जानन्ति नान्ये चन्द्रगतां रुचिम्  || ७८ ||
कुलज्ञा  एव   तुष्यन्ति  श्रुत्वा  कुलकथां  प्रिये  |
स्वल्पा नद्यो  विवर्द्धन्ते ज्योत्स्नया किं समुद्रवत् || ७९ ||
नान्यधर्ममवेक्षन्ते  कौलिकाः सारवेदिनः  |
भृङ्गाः पुष्पान्तरं लुब्धा मन्दारामोदसेविनः  || ८० ||
मानयन्ते  हि   सारज्ञाः  कुलधर्म  न  चेतरे  |
शिवः शिरसि धत्तेऽब्जं सैंहिकेया गिलत्यहो  || ८१ ||
अभिज्ञा एव जानन्ति नाभिज्ञाः कुलर्दशनम्  |
जलमिश्रपयःपानं  बकः किं  वेत्ति  हंसवत्  || ८२ ||
शिवशक्तिमयो लोको लोके कौलं प्रतिष्ठितम्  |
तस्मात् सर्वाधिकं  कौलं सर्वसाधारणं कथम्  || ८३ ||
षड्दर्शनानि मेऽङ्गानि पादो कुक्षिः करौ शिरः  |
तेषु  भेदन्तु  यः  कुर्यान्ममाङ्गं  च्छेदयेत्तु  सः  || ८४ ||
एतान्येव  कुलस्यापि  षडङ्गानि  भवन्ति  हि  |
तस्माद्वेदात्मकं शास्त्रं विद्धि कौलात्मकं प्रिये  || ८५ ||
दर्शनेष्वखिलेष्वेव    फलदं    चैकदैवतम्  |
भुक्तिमुक्तिप्रदं  नृणां कुलेऽस्मिन् दैवतं प्रिये  || ८६ || 
लोकधर्मविरुद्धञ्च    सिद्धयोगीश्वरि  प्रिये  |
कुलं  प्रमाणतां  याति  प्रत्यक्षफलदं   यतः  || ८७ ||
प्रत्यक्षञ्च  प्रमाणाय  सर्वेषां  प्राणिनां  प्रिये  |
उपलब्धिबलात्तस्य हताः सर्वे कुताकीकाः  || ८८ ||
परोक्षं को नु जानीते कस्य किं वा भविष्यति |
यद्वा     प्रत्यक्षफलदं    तदेवोत्तमदर्शनम्  || ८९ ||
कुलधर्ममिमं  ज्ञात्वा  मुच्यन्ते  सर्वमानवाः  |
इति मत्वा महेशानि मया कौलं विगहीतम्  || ९० ||
त्वत्कारुण्यविहीनानां कुलज्ञानविरोधिनाम्  |           
पशुनामनभिज्ञानां   कुलधर्मो    विगहीतः  || ९१ ||
यस्य जन्मान्तरे पापकर्मबन्धोऽधिको भवेत्  |
न  तस्य  गुरुकारुण्यं  कुलज्ञानञ्च जायते  ||  ९२ ||
यथान्धो नैव पश्यन्ति सूर्य सर्वप्रकाशकम्  |
तथा कुलं न जानन्ति तव  मयाविमोहिताः  || ९३ ||
शैववैष्णवसौरादि   दर्शनान्यपि   भक्तितः  |
भजन्ते मानवा  नित्यं वृथायासफलानि च  || ९४ ||
वेदशास्त्रागमैः  प्रोक्तं  भोगमोक्षैकसाधनम्  |
मूढा  निन्दन्ति हा हन्त मत्प्रियं  तव दर्शनम्  || ९५ ||
भ्रामिता हि मया देवि पशवः शास्त्रकोटिषु  |
कुलधर्म न जानन्ति  वृथा  ज्ञानाभिमानिनः  || ९६ ||
पशुशास्त्राणि सर्वाणि मयैव कथितानि हि  |
मूर्त्त्यन्तरन्तु   गत्वैव   मोहनाय  दुरात्मनाम्  || ९७ ||
महापापवशान्नृणां   तेषु   वाञ्छाभिजायते  |
तेषाञ्च  सदागतिर्नास्ति  कल्पकोटिशतैरपि  || ९८ ||
प्रेर्यमाणोऽपि  पापात्मा  कुले  नैव  प्रवर्त्तते  |
वार्यमाणोऽपि पुण्यात्मा कुलमेवाभिलम्वते  || ९९ ||
कुलधर्मेण  देवत्वं  देवाः   सम्प्रतिपेदिरे  |
मुनियोगीश्वराद्याश्च  सुसिद्धिं परमां गताः  || १०० ||
पशुव्रतादिनिरताः सुलभा दाम्भिका  भुवि  |
ये कौलमेव सेवन्ते ते महान्तोऽति दुर्लभाः  || १०१ ||
मानवा  बहवः  सन्ति मिथ्यातत्त्वार्थवेदिनः  |
दुर्लभोऽयं   महेशानि   कुलतत्त्वविशारदः  || १०२ ||
यथा रोगातुराः केचिन्मानवाः कुलनायिके  |
दिव्यौषधं  न  सेवन्ते  महाव्याधिविनाशनम्  || १०३ || 
तद्व्याधिवर्द्धनापथ्यं कुर्वन्ति हि कुभेषजम् |
तथैव जन्ममरणकृतं  सांसारिकीं  क्रियाम्  || १०४ ||
समाचरन्ति   सततं  त्वत्कारुण्यविवजीताः  |
न  भजन्ते  कुलं  धर्म  भववन्धविमोचनम्  || १०५ ||
यथा चारण्यजातांस्तु मरीचादीन् वणिग्जनान् |         
मोहतो मानवाः प्रीत्या याचन्ते कुलनायिके  || १०६ ||
अनर्घ्याणि च रत्नानि न याचन्ते हि केचन  |
तथैव  पशुशास्त्राणि  कर्मपाशफलानि  च  || १०७ ||
इति पृच्छन्ति मूर्खास्ते तव  मायाविमोहिता  |
कुलधर्म न  पृच्छन्ति  भुक्तिमुक्तिफलप्रदम्  || १०८ ||
कस्तूरीं  कर्दमधिया  कर्पूरं   लवणेच्छया  |
शार्करं  शकराभ्रान्त्या मणिं  काचमनीषया  || १०९||
यथादृष्टं  न  मन्यन्ते  करस्थमपि  पामराः  |
तथा कौलं न  जानन्ति त्वत्प्रसादविवजीताः  || ११० ||
अहो मोहस्य माहात्म्यं त्वन्मायाजनितस्य च |
किमज्ञानपि     देवेशि     मोहयेदमरानपि  || १११ ||
पेयं मद्यं पलं खाद्यं समालोक्य प्रियामुखम्  |
इत्येवाचरणं   जाप्यं   परिप्राप्यं   परम्रपदम्  || ११२ ||
गुरुकारुण्यसंलभ्यमीदृशं      कुलदर्शनम्  |
त्वद्भक्ता  एव  जानन्ति  नेतरे भुक्तिमुक्तिदम्  || ११३ ||
गुरूपदेशरहिता    महान्त    इति    केचन  |
मोहयन्ति जनान् सर्वान् स्वयं पूर्वविमोहिताः  || ११४ ||
दुराचारपराः    केचिद्वाचयन्ति    च     पामराः  |
कथंभूतो भवेत् स्वामी सेवकाः स्युस्तथाविधाः  || ११५ ||
बहवः कौलिकं धर्म  मिथ्याज्ञानविडम्बकाः  |
स्वबुध्द्या कल्पयन्तीत्थं पारम्पर्यविवजीताः  || ११६ ||
मद्यपानेन   मनुजो  यदि  सिद्धं  लभेत  वै  |
मद्यपानरताः सर्वे  सिद्धिं  गच्छन्तु  पामराः  || ११७ ||
मांसभक्षणमात्रेण   यदि   पुण्या  गतिर्भवेत्  |
लोके मासाशिनः सर्वे पुण्यभाजो भवन्ति हि  || ११८ ||
शक्तिसम्भोगमात्रेण   यदि   मोक्षो   भवेत   वै  |
सर्वेऽपि जन्तवो लोके मुक्ताः स्युः स्त्रीनिषेवनात्  ||११९ ||
कुलमार्गो महादेवि न मया निन्दितः क्वचित्  |
आचाररहिता  येऽत्र   निन्दितास्ते  न  चेतरे  || १२० ||
अन्यथा कौलिके धर्मे आचारः कथितो मया  |
विचरन्त्यन्था   देवि   मूढाः  पण्डितमानिनः  || १२१ ||
कृपाणधारागमनात् व्याघ्रकण्ठावलम्बनात्  |
भुजङ्गधारणान्नूनमशक्यं     कुलवर्त्तनम्  || १२२ ||
वृथा  पानन्तु   देवेशि  सुरापानं  तदुच्यते  |
तत्महापातकं  ज्ञेयं  वेदादिषु   निरूपितम्  || १२३ ||
अनाघ्रेयमनालोक्यमस्पृश्यञ्चाप्यपेयकम्  |
मद्यं मंसं पशूनान्तु कौलिकानां महाफलम्  || १२४ ||
अमेध्यानि  द्विजातीनां  मद्यान्येकादशैव तु  |
द्वादशन्तु    महामद्यं    सर्वेषामुत्तमोत्तमम्  || १२५ ||
सुरा  वै  मलमन्नानां  पाप्मा तु  मलमुच्यते  |
तस्माद्ब्राह्मणराजन्यौ वैश्य  न सुरां पिबेत्  || १२६||
सुरादर्शनमात्रेण   कुर्यात्  सूर्यावलोकनम्  |
तत्समाघ्राणमात्रेण   प्राणायामत्रयं   चरेत्  || १२७ ||
आजानुभ्यां  भवेन्मग्नो  जले  चोपवसेदहः  |
ऊद्र्ध्व नाभेस्त्रिरात्रन्तु मद्यस्य स्पर्शने विधिः|| १२८ ||
सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत्  |
मुखे तया विनिर्दग्धे ततः  शुद्धिमवाप्नुयात्  || १२९ ||
मद्यस्पर्शादिदोषस्य   प्रायश्चित्तविधिः  स्मृतः  | 
अविधानेन यो हन्यादात्मार्थं प्राणिनः प्रिये  || १३०||
निवसेन्नरके  घोरे  दिनानि   पशुरोमभिः  |
स  मृतोऽपि  दुराचारस्तिर्र्यग्योनिषु जायते  || १३१ ||
अनुमन्ता   विश्वसिता  निहन्ता  क्रयविक्रयी  |
संस्कर्ता चोपहर्त्ता च खादिताऽष्टौ च घातकाः  || १३२ ||
धनैवीक्रयिको  हन्ति खादिता  चोपभोगतः  |
घातको वध बन्धाभ्यां इत्येष त्रिविधो वधः  || १३३ ||
मांससन्दर्शनं   कृत्वा   सुरादर्शनवच्चरेत्  |
तस्मादविधिना मांसं मद्यं न सेवते क्वचित्  || १३४ || 
विधिना सेव्यते देवि तरसा त्वं प्रसीदसि  | 
नाशयत्यपरिज्ञानात्   सत्यमेव  वरानने  || १३५ ||
तृणं   वाप्यविधानेन    छेदयेन्न    कदाचन  |
विधिना गां द्विजं वापि  हत्या पापैर्न लिप्यते  || १३६ ||
बहुनात्र   किमुक्तेन   सारमेकं  शृणु  प्रिये  |
जीवन्मुक्तिसुखोपायं  कुलशास्त्रेषु गोपितम्  || १३७ || 
यन्मुमुक्षोः फलं देवि कनकस्येव सौरभम्  |
कुलज्ञेऽप्यूर्ध्वविख्याते   ज्ञानं  तत्तदनुत्तमम्  || १३८ || 
कुलशास्त्राणि सर्वाणि मयैवोक्तानि पार्वति  |
प्रमाणानि न सन्देहो  न  हन्तव्यानि  हेतुभिः  || १३९ ||
देवताभ्यः पितृभ्यश्च  मधु वाता ऋतायते  |
स्वादिष्ठया मदिष्ठया क्षीरं सपीर्मधूदकम्  || १४० ||
हिरण्यपावाः खादिश्च अबध्नन् पुरुषं पशुम्  |
दीक्षामुपेयादित्याद्याः  प्रमाणं  श्रुतयः  प्रिये  || १४१ ||
इत्येतत् कथितं किञ्चित् कुलमाहात्म्यमम्बिके  |
समासेन  कुलशानि  किं  भूयः  श्रोतुमिच्छसि  || १४२ || 

|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
कुलमाहात्म्यकथनं नाम द्वितीयोल्लासः || २ ||


अथ तृतीयोल्लासः


श्रीदेव्युवाच
कुलेश   श्रोतुमिच्छामि  सर्वधर्मोत्तमोत्तमम्  | 
ऊर्ध्वाम्नायञ्च तन्मन्त्रं माहात्म्यं वद मे प्रभो  || १ ||
श्रीईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि  | 
तस्य   श्रवणमात्रेण   देवता   सुप्रसीदति  || २ ||
न कदाचिन्मया  प्रोक्तमितः  पूर्व कुलेश्वरि  | 
कथयामि तव  स्नेहादूर्ध्वाम्नायं  शृणु प्रिये  || ३ ||
वेदशास्त्रपुराणानि  प्रकाश्यानि  कुलेश्वरि  | 
शैवशाक्तागमाः सर्वे रहस्याः परिकीत्तीताः  || ४ || 
रहस्यातिरहस्यानि  कुलशास्त्राणि  पार्वति  | 
रहस्यातिरहस्यानां        रहस्यमिदमम्बिके  || ५ || 
ऊद्र्ध्वाम्नायस्य तत्त्वं हि पूर्णब्रह्मात्मकं परम्  | 
सुगोपितं   मया  यत्नादिदानीन्तु   प्रकाश्यते  || ६ ||
मम  पञ्चमुखेभ्यश्च   पञ्चाम्नायाः समुद्गताः  | 
पूर्वश्च    पश्चिमश्चैव    दक्षिणश्चोत्तरस्तथा  | 
ऊर्ध्वाम्नायश्च पञ्चैते मोक्षमार्गाः प्रकीत्तीताः  || ७ ||
आम्नाया बहवः सन्ति नोर्ध्वाम्नायेन ते समाः  | 
सत्यमेतद्वरारोहे   नात्र    कार्या   विचारणा  || ८ ||
आम्नाया   बहवो   गुप्तश्चतुराम्नायभेदजाः  | 
अस्मिंस्तन्त्रे समाख्याताः पूर्वं ते कुलनायिके  || ९ ||
चतुराम्नाय वेत्तारो बहवः सन्ति कामिनि  | 
ऊर्ध्वाम्नायस्य तत्त्वज्ञा विरला वीरवन्दिते  || १० ||
यावन्तः पांसवो भूमेस्तावन्तः समुदीरिताः  | 
एकैकाम्नायजा मन्त्रा भुक्तिमुक्तिफलप्रदाः  || ११ ||
उपमन्त्राश्च  तावन्तः  सारदाः  समुदीरिताः |
मयैव कथितास्ते तु लोकानुग्रहकाङ्क्षया  || १२ ||
सर्वेषामपि   मन्त्राणां  देवतास्तत्फलप्रदाः  | 
आवयोरंशसम्भूताः समुद्दिष्टाः  शुचिस्मिते  || १३ ||
सर्वमन्त्रानहं वेद्मि  नान्यो जानाति कश्चन  | 
मत्प्रसादेन  यः  कश्चिद्वेत्ति  मानवकोटिषु  || १४ ||
एकाम्नायञ्च यो वेत्ति स  मुक्तो नात्र संशयः  | 
किं  पुनश्चतुराम्नायवेत्ता  साक्षाच्छिवो भवेत्  || १५ ||
चतुराम्नायविज्ञानादूर्ध्वाम्नायः   परः   प्रिये  | 
तस्मात्तदेव जानीयाद् यदीच्छेत् सिद्धिमात्मनः  || १६ ||
ऊर्ध्वत्वात् सर्वधर्माणामूर्ध्वाम्नायः प्रशस्यते  | 
ऊर्ध्वं नयत्यधःस्थञ्च  ऊर्ध्वाम्नाय  इतीरितः  || १७ ||
ऊर्ध्वतत्त्वात् कुलेशानि ध्वस्तसंसारसागरात्  | 
ऊर्ध्वलोकैकसेव्यत्वादूर्ध्वाम्नाय  इति स्मृतः  || १८ ||
तस्माद्देवेशि जानीहि साक्षान्मोक्षैकसाधनम्  | 
सर्वाम्नायाधिकफलमूर्ध्वाम्नायं परात् परम्  || १९ ||
सर्वलोकेषु सर्वेभ्यो ह्यहं पूज्यो  यथा  प्रिये  | 
अम्नायेषु  च सर्वेषु ऊर्ध्वाम्नायस्तथा शिवे  || २० ||
देवतानां यथा विष्णुर्ज्योतिषां भास्करो यथा  | 
तीर्थानान्तु यथा काशी स्वर्नदी सरितां यथा  || २१ ||
पर्वतानां  यथा   मेरुस्तरूणां   चन्दनं  यथा  | 
अश्वमेधः क्रतूनाञ्च पाषाणानां यथा  मणिः  || २२ ||
यथा रसानां माधुर्यं  धातूनां  काञ्चनं  यथा  | 
चतुष्पदां  यथा  धेनुर्यथा  हंसस्तु  पक्षिणाम्  || २३ ||
आश्रमाणां यथा भिक्षुर्वर्णानां ब्राह्मणो यथा  | 
मनुष्याणां यथा  राजाऽवयवानां यथा  शिरः  || २४ ||
आमोदानाञ्च कस्तूरी यथा काञ्चीपुरी पुराम् |
तथैव  सर्वधर्माणामूर्ध्वाम्नायोऽधिकः  प्रिये  || २५ ||
नानाजन्माजीतापारपुण्यकर्मफलोदयात्  | 
ऊर्ध्वाम्नायं विजानीयान्नान्यथा वीरवन्दिते  || २६ ||
धन्यो  मनुष्यलक्षेषु  जानाति  कुलदर्शनम्  | 
तेषां लक्षेषु यः कश्चिदूर्ध्वाम्नायं प्रवेत्ति च  || २७ ||
न वेदैर्नागमैः शास्त्रैर्न पुराणैः सुविस्तरैः  | 
न यज्ञैर्न  तपोभिर्वा न तीर्थव्रतकोटिभिः  || २८ || 
नान्यैरुपायैर्द्देवेशि     मन्त्रौषधिपुरःसरैः  | 
आम्नायो ज्ञायते चोद्र्ध्वः श्रीमद्गुरुमुखं विना || २९ ||
तमेवान्वेषयेत्तत्र    सर्वज्ञं  करुणानिधिम्  | 
सर्वलक्षणसम्पन्नं  ऊर्ध्वाम्नायार्थकोविदम्  | 
तस्माद्देवेशि जानीयादूर्ध्वाम्नायं कुलेश्वरि  || ३०||
आम्नायं यो नरो देवि विजानाति च तत्त्वतः  | 
लभते काङ्क्षतां सिद्धिं सत्यं सत्यं वरानने  || ३१ ||
ऊर्ध्वाम्नायं विजानाति यः सम्यक् श्रीगुरोर्मुखात्  | 
शास्त्रमार्गेण   स  नरो  जीवन्मुक्तो  न  संशयः  || ३२ ||
आम्नायमीदृशं   देवि   विजानाति    च   तत्त्वतः  | 
स वन्द्यः सद्गुरुः सोऽर्च्यः स  दैवज्ञः स मान्त्रिकः  | 
स सेव्यः स च संस्तुत्यः स द्रष्टव्यः स सात्त्विकः  || ३३ || 
स व्रती  स तपस्वी  च सोऽनुष्ठाता  स पूजकः  | 
स          वेदागमशास्त्रादिसर्वविद्याविशारदः  || ३४ ||
स आचार्यः स मतिमान् स यतिः स च कौलिकः  | 
स यज्वा स च पूतात्मा स जापी स च साधकः  || ३५ ||
स योगी  स कृतार्थस्तु स वीरः  स  च  उत्तमः  | 
स पुण्यात्मा स सर्वज्ञः स मुक्तः स शिवः प्रिये  || ३६ ||
तत्कुलं  पावनं देवि  धन्या  तज्जननी  स्मृता  | 
तत्पिता च कृतार्थः स्यान्मुक्तास्तत्पितरः प्रिये  | 
पुण्यास्तद्वंशजाः   सर्वे   पूतास्तन्मित्रबान्धवाः  || ३७ ||
बहुनेह  किमुक्तेन  चोर्ध्वाम्नायपरस्य  च  | 
स्मरणं कीर्त्तनं  वापि दर्शनं  वन्दनं तथा  | 
सम्भाषणञ्च कुरुते राजसूयाधिकं फलम्  || ३८ ||
स यत्र वसते देवि तत्र श्रीवीजयो भवेत्  | 
अनामयं   सुभिक्षञ्च   सुवृष्टिनीरुपद्रवम्  || ३९ ||
तस्माद्  गुरुप्रसादेन  ऊर्ध्वाम्नायं   नरोत्तमः  | 
यो वेत्ति तत्त्वतो देवि स मे प्रियतमो भवेत्  || ४० ||
पूर्वाम्नायः सृष्टिरूपः स्थितिरूपश्च दक्षिणः  | 
संहारः पश्चिमो  देवि  उत्तरोऽनुग्रहो  भवेत्  || ४१ ||
मन्त्रयोगं विदुः पूर्वं भक्तियोगञ्च दक्षिणम्  | 
पश्चिमं  कर्मयोगञ्च  ज्ञानयोगं  तथोत्तरम्  || ४२ ||
पूर्वाम्नायस्य   सङ्केताश्चतुवींशतिरीरिताः  | 
दक्षिणाम्नायसङ्केताः  पञ्चवींशतिरीरिताः  || ४३ ||
पश्चिमाम्नायसङ्केताः द्वात्रिंशत् समुदाहृताः  | 
विदुः षट्त्रिंशदाम्नाये सङ्केताः श्रीमदुत्तरे  || ४४ ||
ऊद्र्ध्वाम्नायस्य चैतानि न सन्ति कुलनायिके  | 
साक्षाच्छिवस्वरूपत्वान्न किञ्चित् कर्म विद्यते  || ४५ ||
ऊर्ध्वाम्नायस्य  माहात्म्यमहं वेद्मि न  चापरः  | 
मत्स्नेहात्त्वञ्च    जानासि    सत्यमेतद्वरानने  || ४६ || 
ऊर्ध्वाम्नायस्य माहात्म्यमिति ते कथितं मया  | 
समासेन   कुलेशानि   मन्त्रमाहात्म्यमुच्यते  || ४७ ||
इतः पूर्वं मया नोक्तं यस्य कस्यापि पार्वति  | 
तद्वदामि  तव  स्नेहाच्छृणु  मत्प्राणवल्लभे  || ४८ ||
श्रीप्रासादपरामन्त्रमूर्ध्वाम्नायमधिष्ठितम्  | 
आवयोः परमाकारं यो वेत्ति स स्वयं शिवः  || ४९ ||
शिवादिक्रिमिपर्यन्तं  प्राणिनां  प्राणवर्त्मना  | 
निश्वासोच्छ्वासरूपेण मन्त्रोऽयं वर्त्तते प्रिये  || ५० ||
अनिलेन विना मेघो यथाकाशे न वेष्टते  | 
पराप्रसादमन्त्रेण विना लोकस्तथा  प्रिये  || ५१ ||
पराप्रासादमन्त्रेण       स्यूतमेतच्चराचरम्  | 
अभिन्नं  तत्त्वतो  देवि तालवृन्ते यथानिलः  || ५२ ||
बीजेऽङ्कुरस्तिले   तैलमग्नावुष्णं   रवौ   प्रभा | 
चन्द्रे ज्योत्स्नाऽनलः काष्ठे पुष्पे गन्धे जले द्रवः  || ५३ ||
शब्दे चार्थः शिवे शक्तिः क्षीरे सपीः फले रुचिः  | 
शर्करायाञ्च   माधुर्यं   घनसारे  च  शीतलम्  || ५४ ||
निग्रहानुग्रहो   मन्त्रे   प्रतिमायाञ्च    देवता  | 
दर्पणे  प्रतिबिम्बञ्च  समीरे   चलनं   यथा  | 
पराप्रसादमन्त्रेऽपि  प्रपञ्चोऽयं  तथा स्थितः  || ५५ ||
वटबीजे  यथा   वृक्षः   सूक्ष्मरूपेण   तिष्ठति  |
पराप्रासादमन्त्रेऽस्मिन् ब्रह्माण्डोऽपि तथा स्थितः  || ५६ ||
सुपक्वेषु   पदार्थेषु   सुरसेषु   कुलेश्वरि  | 
लवणेन विना  स्वादु  यथा भोक्तुर्न जायते  || ५७ ||
पराप्रासादमन्त्रेण ये  वा  मन्त्रा  न  सङ्गताः  | 
ते फलं न प्रयच्छन्ति मन्त्रं  शक्तिविवजीताः || ५८ ||
श्रीप्रासादपरामन्त्रो   गोपनीयः   प्रयत्नतः  || ५९ ||
विचार्याहं    पुराणार्थान्    दर्शनाम्नायभेदजान्  | 
ग्रसमान् वेद्म्यहं मन्त्रान् शास्त्राणि विविधानि च  || ६० ||
सहस्राक्षादयो देवाः  शास्त्रेषु  विविधेषु च  | 
भ्रमन्ति  तेषु  मूढास्ते तव  मायाविमोहिताः  || ६१ ||
जायन्ते च मिरयन्ते च  संसारक्लेशभागिनः  | 
श्रीप्रासादपरामन्त्रं  न   गायन्तः  कुलेश्वरि  | 
न लभन्ते हि  मोक्षं ते तव मायाविमोहिताः  || ६२ ||
मद्रूपे श्रीगुरौ यस्य दृढा भक्तिः प्रजायते  | 
श्रीप्रासादपरामन्त्रं स  ज्ञात्वा  परिमुच्यते  || ६३ ||
पूर्वजन्मसहस्रेषु         शैवादिसमयोद्यतान्  | 
चतुराम्नायजान् मन्त्रान् गुर्वाज्ञां यो भजिष्यति  || ६४ ||
स पापकञ्चुकान्मुक्तः  शुद्धात्मा  गुरुवत्सलः  | 
श्रीप्रासादपरामन्त्रं   विजानाति   न   चान्यथा  || ६५ ||
सब्रह्माविष्णुरुद्राश्च      शक्रादिसुरपुङ्गवाः  | 
वसुरुद्रार्कदिक्पाला   मनुचन्द्रादयः   प्रिये  || ६६ ||
मार्कण्डेयादिमुनयो    वसिष्ठादिमुनीश्वराः  | 
सनकाद्याश्च योगीशा जीवन्मुक्ताः शुकादयः || ६७ ||
यक्षकिन्नरगन्धर्वाः      सिद्धविद्याधरादयः  | 
श्रीप्रासादपरामन्त्रप्रभवञ्चामितं       फलम्  | 
प्राप्य मन्त्रमिमं  पुण्यं  जपन्त्यद्यापि पार्वति  || ६८ ||
सामर्थ्यं पूज्यता विद्या तेजः सौख्यमरोगिता  | 
राज्यं   स्वर्गञ्च  मोक्षञ्च  पराप्रासादजापिनः  || ६९ ||
ब्रह्मेन्द्ररुद्रविष्णूनामपि    दूरायते    पदम्  | 
सर्वकर्मविहीनोऽपि    पराप्रासादमन्त्रवित्  | 
 सुखेन यां गतिं याति न तां सर्वेऽपि धामीकाः || ७० ||
तस्य चिन्तामणिः कामधेनुः  कल्पतरुर्गृहे  | 
कुबेरः किङ्करः साक्षात् पराप्रासादजापिनः  || ७१ ||
यथा दिव्यमणि स्पर्शाल्लौहो  भवति काञ्चनम्  | 
पराप्रासादजापाच्च      पशुः    पशुपतिर्भवेत्  || ७२ ||
श्रीप्रासादपरामन्त्रं  यो  विजानाति  तत्त्वतः  | 
स मां त्वाञ्च विजानाति चावयोरप्यतिप्रियः  || ७३ ||
पराप्रासादमन्त्रज्ञः  श्वपचोऽपि हि पार्वति  | 
देवतास्थापने  शक्तः  प्रतिमादौ न संशयः  || ७४ ||
मन्त्रमात्रन्तु   यो  वेत्ति  पराप्रासादसंज्ञकम्  | 
श्वपचोऽपि हि मुच्येत किं पुनस्तद्विधानवित्  || ७५ ||
पराप्रासादमन्त्रज्ञो  यत् करोति  यदिच्छति  | 
यद्ब्रूते तन्महेशानि तपो ध्यानं जपो भवेत्  || ७६ ||
दीक्षापूर्वं   महेशानि  पारम्पर्यसमन्वितम्  | 
पराप्रासादमन्त्रं यो वेत्ति सोऽहं न संशयः || ७७ ||
चराचरसमेतानि    भुवनानि    चतुर्दश  | 
पराप्रासादमन्त्रज्ञदेहे  तिष्ठन्ति  नित्यशः  || ७८ ||
पराप्रासादमन्त्रज्ञो यत्र  तिष्ठति भामिनि  | 
दिव्यक्षेत्रं   समुद्दिष्टं  समन्ताद्दशयोजनम्  || ७९ ||
पराप्रासादमन्त्रार्थतत्त्वज्ञं     कुलनायिके  | 
सुरासुराश्च  वन्दन्ते  किं   पुनर्मानवादयः  || ८० ||
पराप्रासादमन्त्रज्ञो  यत्र  तिष्ठति  पार्वति  | 
सिद्धक्षेत्रं मदीयं  वा  मुनिदेवगणैः  सह  || ८१ ||
शैव   वैष्णवदौर्गार्कगाणपत्येन्दुसम्भवान्  | 
सर्वमन्त्रान् स जानाति पराप्रासादमन्त्रवित्  || ८२ ||
श्रीप्रासादपरामन्त्रो  जिह्वाग्रे  यस्य  वर्त्तते  | 
तस्य दर्शनमात्रेण  श्वपचोऽपि  विमुच्यते  || ८३ ||
ब्राह्मणो वाऽन्त्यजो वापि शुचिर्वाप्यशुचिः प्रिये  | 
पराप्रासादजापी  यः  स  मुक्तो  नात्र  संशयः  || ८४ ||
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा  | 
पराप्रासादमन्त्रोऽयं  देवेशि  न  च निष्फलः  || ८५ ||
चिरेणैकैकफलदा  मन्त्राः सन्ति सहस्रशः  |
कुलेशि मन्त्रराजोऽयं  शीघ्रं  सर्वफलप्रदः  || ८६ ||
पराप्रासादमन्त्रोऽयं     सर्वमन्त्रोत्तमोत्तमः  | 
ज्ञानतोऽज्ञानतो वापि भजतां कामदो मनुः  || ८७ ||
शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी | 
लक्ष्मीनारायणौ  वाणीधातारौ  रात्रिवासरौ  || ८८ ||
अग्नीषोमौ  बिन्दुनादौ  देवि  प्रकृतिपूरुषौ  | 
आधाराधेयनामानौ  भोगमोक्षौ  कुलेश्वरि  || ८९ ||
प्राणापानौ च वागर्थौ प्रिये विधिनिषेधकौ  | 
सुखदुःखादि यद् द्वन्द्वं  दृश्यते श्रूयते  मया  | 
सर्वलोकेषु  तत्  सर्वमावामेव  न  संशयः  || ९० || 
पुंस्त्रीरूपाणि सर्वाणि चावयोरंशकानि हि  | 
पराप्रासादमन्त्रोऽयं तस्मात्  सर्वात्मको भवेत् || ९१ ||
अरूपं   भावनागम्यं  परं  ब्रह्म  कुलेश्वरि  | 
निष्कलं निर्मलं नित्यं निर्गुणं  व्योमसन्निभम्  || ९२ ||
अनन्तमव्ययं    तत्त्वं    मनोवाचामगोचरम्  | 
पराप्रासादमन्त्रार्थसन्धानात्      सम्प्रकाशते  || ९३ ||
तस्मान्मन्त्रमिदं   देवि  पराप्रासादसंज्ञकम्  | 
परतत्त्वस्वरूपत्वात्  सच्चिदानन्दलक्षणात्  || ९४ ||
शिवशक्तिमयत्वाच्च    भुक्तिमुक्तिप्रदानतः  | 
सकर्मापि च निष्कर्म सगुणञ्चापि निर्गुणम्  || ९५ ||
श्रीप्रासादपरामन्त्रं      सर्वमन्त्रशिरोमणि  | 
जपन् भुक्तिञ्च मुक्तिञ्च लभते नात्र संशयः  || ९६ ||
बहुनात्र  किमुक्तेन  सर्वसारं  शृणु  प्रिये  | 
श्रीप्रासादपरामन्त्रसमं   मन्त्रं   न  विद्यते  || ९७ ||
इदमेव  परं   ज्ञानमिदमेव  परं   तपः  | 
इदमेव  परं   ध्यानमिदमेव  परार्चनम्  || ९८ ||
इदमेव  परा  दीक्षा  इदमेव  परो जपः  | 
इदमेव  परं   तत्त्वमिदमेव  परं  व्रतम्  || ९९ ||
इदमेव  परो यज्ञ  इदमेव  परात्  परम्  | 
इदमेव  परं  श्रेय  इदमेव  परं  फलम्  || १०० ||
इदमेव  परं  ब्रह्म  इदमेव  परा  गतिः  | 
इदमेव परं गुह्यं सत्यं सत्यं  न संशयः  | 
इति मत्वा मनुवरं तन्निष्ठः स्यात् सदा प्रिये || १०१ ||
आगमोक्तेन विधिना क्रमपूजापुरःसरम्  | 
श्रीप्रसादपरामन्त्रं    शतमष्टोत्तरं  जपेत्  | 
मुच्यते   ब्रह्महत्यादिमहापापैश्च  पञ्चभिः  || १०२ ||
द्विशतं  यो  जपेद्देवि  श्रीप्रासादपरामनुम्  | 
चतुरशीतिलक्षांशधारणाचरितैरपि  || १०३ ||
स्वयोनिजाङ्गवरितैरसंख्यजननाजीतैः  | 
वार्द्धके यौवने बाल्ये जाग्रत्स्वप्नसुषुप्तिषु  || १०४ || 
कर्मणा  मनसा  वाचा  ज्ञानाज्ञानकृतैरपि  | 
महापातकसंघैश्च      ह्युपपातककोटिभिः  | 
मुच्यते   नात्र    सन्देहः   सत्यमेतद्वरानने  || १०५ ||
त्रिशतं   यो  जपेद्देवि   श्रीप्रासादपरामनुम्  | 
सर्वक्रतुषु यत् पुण्यं सर्वदानेषु  यत् फलम्  || १०६ ||
सर्वव्रतेषु यत् पुण्यं  सर्वतीर्थेषु  यत् फलम्  | 
तत् फलं लभते देवि नात्र कार्या विचारणा  || १०७ ||
चतुःशतं  जपेद्  यस्तु  श्रीप्रासादपरामनुम्  | 
सदा   तस्य  गृहद्वारे   ह्यणिमाद्यष्टसिद्धयः  | 
सेवन्ते  नात्र  सन्देहः  सर्वसिद्धिसमन्विताः  || १०८ ||
यद् यन्मनोऽभिलषितं तत्तत्  प्राप्नोत्यसंशयः  | 
धर्मार्थकाममोक्षाश्च  साक्षात्तस्य करे  स्थिताः || १०९ ||
सालोक्यप्रमुखां देवि लभेन्मुक्तिं चतुवीधाम्  | 
सत्यमेतन्न   सन्देहः साधकः  कुलनायिके || ११० ||
जपेत्   पञ्चशतं  यस्तु  श्रीप्रासादपरामनुम्  | 
तत्फलं नैव शक्नोमि कथितुं कुलनायिके  || १११ ||
तस्मात् सर्वप्रयत्नेन  सर्वावस्थासु सर्वदा  | 
श्रीप्रासादपरामन्त्रं  जपेद्  भुक्तिविमुक्तये  || ११२ ||
नास्ति गुर्वधिकं तत्त्वं न  शिवाधिकदैवतम्  | 
न हि  वेदाधिका  विद्या न  कौलसमदर्शनम्  || ११३ ||
न कुलादधिकं ज्ञानं न  ज्ञानादधिकं  सुखम्  | 
नाष्टाङ्गादधिका पूजा न हि मोक्षाधिकं फलम् | 
इदं  सत्यमिदं  सत्यं  सत्यं सत्यं  न  संशयः  || ११४ ||
श्रीप्रासादपरामन्त्रमाहात्म्यमिह      वणीतुम्  | 
न   शक्नोमि  वरारोहे  कल्पकोटिशतैरपि  || ११५ ||
गिरौ   सर्षपमात्रन्तु  सागरे  वालुका  यथा  | 
तथा च मन्त्रमाहात्म्यं  किञ्चित्ते कथितं मया  || ११६ ||
ऊर्ध्वाम्नायस्य   माहात्म्यं  श्रीप्रासादपरामनोः  | 
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि  || ११७ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
श्रीप्रासादपरामन्त्रकथनं नाम तृतीयोल्लासः || ३ ||

अथ चतुर्थोल्लासः


श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि श्रीप्रासादपरामनुम् | 
मन्त्रराजं वदेशान न्यासध्यानादिभिः सह || १ ||
श्रीईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | 
तस्य   श्रवणमात्रेण  शिवाकारः  प्रजायते || २ ||
इतः पूर्व मया नोक्तो मन्त्रोऽयं यस्य कस्यचित् | 
तव  स्नेहाद्वदाम्यद्य  शृणु   मत्प्राणवल्लभे || ३ ||
अनन्तचन्द्रभुवनमिन्दुबिन्दुयुगान्वितः | 
श्रीप्रासादपरामन्त्रो   भुक्तिमुक्तिफलप्रदः || ४ || 
पराप्रासादमन्त्रस्तु  सादिरुक्तः कुलेश्वरि | 
प्रकाशानन्दरूपत्वात्    प्रत्यक्षफलदानतः || ५ ||
प्रसन्नचित्तवश्यत्वात् प्रसिद्धार्थनिरूपणात् | 
प्राक्तनाघप्रशमनात्   प्रपन्नात्तीविनाशनात् | 
प्रसादकरणाच्छीघ्रं      प्रासादमनुरीरितः || ६ ||
परतत्त्वस्वरूपत्वात्  परमात्मप्रकाशनात् | 
परमानन्दजननात्     परधर्मनिदर्शनात् || ७ ||
परोक्षफलदानाच्च   परमैश्वर्यकारणात् | 
परत्वात्  सर्वमन्त्राणां परामन्त्र इतीरितः || ८ || 
कुलमन्त्रमिदं देवि न्यासं शृणु वदामि ते | 
आदौ  प्रातः  समुत्थाय  गुरुदेवानुचिन्तनम् || ९ ||
कन्दमूले मनः कृत्वा  कुर्याद्विण्मूत्रमोचनम् | 
शौचास्यशोधनं  स्नानं सन्ध्यातर्पणमाचरेत् || १० ||
एकान्ते    द्वारयजनं   विघ्नत्रयनिवारणम् | 
पूजास्थानप्रवेशश्च       तथासनोपवेशनम् || ११ ||
देवीपूजागृहध्यानं       शिवादिगुरुवन्दनम् | 
आसनं        गणपक्षेत्रपालवन्दनमीश्वरि || १२ ||
पादुकास्मरणञ्चैव   दिननाथार्चनं    प्रिये | 
कराङ्गशोधनं   प्राणायामः  स्वब्रह्मरन्ध्रके || १३ ||
दिग्बन्धनञ्चाङ्गयुग्म विधियुक्ताञ्च मातृकाम् |
दशप्रकारभूताख्यां  लिपिं  कमठसंज्ञकाम् || १४ ||
ऋषिरस्य परः शम्भुश्छन्दश्चाव्यक्तपूवीका | 
गायत्री  देवता  चात्र  सर्वमन्त्रेश्वरी  परा || १५ ||
दीर्घत्रययुतं मूलं बीजं  शक्तिश्च कीलकम्  |
षड्दीर्घयुक्तमूलबीजेन षडङ्गानि च पार्वति || १६ ||
ईशतत्पुरुषाघोरसद्योजातात्मनस्तथा | 
पञ्चाङ्गुलिषु विन्यस्य मूत्तीं वक्त्रेषु विन्यसेत् || १७ ||
पञ्चसु   ब्रह्मणि   तथैवाङ्गविन्यासमाचरेत् | 
आधारशक्तिमारभ्य    पीठमन्त्रान्तमम्बिके || १८ ||
अल्पषोढां कुलेशानि कुर्यात् पूर्वोक्तवर्त्मना | 
महाषोढाह्वयं न्यासं  ततः कुर्यात् समाहितः | 
वक्ष्यमाणेन    विधिना   देवताभावसिद्धये || १९ ||
यस्य कस्यापि नैवोक्तं तव स्नेहाद्वदाम्यहम् | 
प्रपञ्चो      भुवनं     मूतीर्मन्त्रदेवतमातरः | 
महाषोढाह्वयो   न्यासः  सर्वन्यासोत्तमोत्तमः || २० ||
तत्रादौ   परमेशानि   प्रपञ्चन्यास   उच्यते | 
प्रपञ्चद्वीपजलधिगिरिपत्तनपीठकाः || २१ ||
क्षेत्रं वनाश्रमगुहानदीचत्वरकोद्भिदः | 
स्वेदाण्डजजरायुजा इत्युक्तास्ते हि  षोडश || २२ ||
श्रीर्माया कमला विष्णुवल्लभा पद्मधारिणी | 
समुद्रतनया   लोकमाता    कमलवासिनी || २३ ||
इन्दिरा मा  रमा पद्मा  तथा  नारायणप्रिया | 
सिद्धलक्ष्मी राजलक्ष्मीर्महालक्ष्मीरितीरिताः | 
शक्तयस्तु  प्रपञ्चानां   स्वराणामधिदेवताः || २४ ||
लवस्त्रुटिः कला काष्ठा निमेषः श्वास एव हि | 
घटिका  च   मुहूर्त्तश्च  प्रहरो  दिवसस्तथा || २५ ||
सन्ध्या रात्रिस्तिथिश्चैव वारो  नक्षत्रमेव  च | 
योगश्च करणं पक्षौ मासो  राशिरृतुस्तथा || २६ ||
अयनं    वत्सरयुगप्रलयाः    पञ्चविंशतिः | 
एतेषां  स्थाननियमो  हृदयान्तः  समीरितः || २७ || 
आर्योमा चण्डिका दुर्गा शिवाऽपर्णाऽम्बिका सती | 
ईश्वरी   शाम्भवीशानी  पार्वती सर्वमङ्गला || २८ ||
दाक्षायणी   हैमवती  महामाया   महेश्वरी | 
मृडानी  चैव  रुद्राणी  सर्वाणी  परमेश्वरी || २९ ||
काली कात्यायनी गौरी भवानीति समीरिता | 
शक्तयः  स्युर्लवादीनां  स्पर्शानामधिदेवताः | 
एतासां   स्थाननियमो  हृदयान्तः  समीरितः || ३० ||
पञ्चभूतानि    तन्मात्रं   ज्ञानकर्मेन्द्रियाणि  च |
गुणान्तःकरणावस्था ध्यायेद्दोषान् दशानिलान् || ३१ ||
ब्राह्मी वागीश्वरी वाणी सावित्री च सरस्वती | 
गायत्री वाक्प्रदा पश्चात्  शारदा भारती प्रिये | 
विद्यात्मिका     पञ्चभूतव्यापकानामधीश्वराः || ३२ ||
वाग्भवं  भुवनेशीञ्च  लक्ष्मीबीजं  त्रितारकम् | 
त्रितारमूलीविद्यान्त     मातृकाक्षरतः   परम् || ३३ ||
वदेत्  प्रपञ्चरूपायै  श्रियै  नम  इति  क्रमात् | 
प्रपञ्चादिभिरायोज्य वर्णान   शक्तीनीयोजयेत् | 
मातृकान्याससंप्रोक्तस्थानेष्वेवं   न्यसेत्  प्रिये || ३४ ||
त्रितारमूलसकलप्रपञ्चादि          स्वरूपतः | 
आयै  पराम्बादेव्यैनम उक्त्वा व्यापकं न्यसेत् || ३५ ||
प्रपञ्चन्यास एव स्याद् भुवनन्यास  उच्यते |
त्रितारमूलमन्त्रान्ते अ आं इं  अतलं वदेत् || ३६ ||
लोकञ्च  निलयञ्चैव  शतकोटिपदं  ततः | 
गुह्याद्या योगिनी  मूलङेयुतन्तु  वदेत् प्रिये || ३७ ||
वदेदाधारशक्त्यम्बादेव्यै च पादयोर्न्यसेत् | 
ई उं ऊं  वितलं  गुह्यतरं  चानन्तसंज्ञकम् | 
शेषञ्च पूर्ववत् प्रोच्य गुल्फयोर्देवि विन्यसेत् || ३८ ||
ऋं ऋं ऌं सुतलञ्चातिगुह्यं चाविन्त्यसंज्ञकम् | 
शेषच्च पूर्ववत्  प्रोच्य जङ्घयोवीन्यसेत् प्रिये || ३९ || 
ऌं  एं  एं  महातलञ्च  महागुह्यं  पदं  ततः | 
शेषञ्च पूर्ववत् प्रोच्य देवि जान्वोः प्रविन्यसेत् || ४० ||
ओं औं  तलातलं  देवि परं  गुह्याभिधानकम् | 
शेषञ्च  पूर्ववत्  प्रोच्य  ऊर्वोर्देवेशि  विन्यसेत् || ४१ ||
अं   अः  रसातलञ्चैव  रहस्यं  ज्ञानसंज्ञकम् | 
शेषञ्च   पूर्ववत्  प्रोच्य  गुह्यदेशे  प्रविन्यसेत् || ४२ ||
कवर्गणापि  पातालं  लोकेति  निलयेति  च | 
शेषञ्च पूर्ववत् प्रोच्य  मूलाधारे  तु  विन्यसेत् || ४३ ||
चवर्गं   भूतलञ्चेति   रहस्यं    डाकिनीमपि | 
शेषञ्च पूर्ववत् प्रोच्य स्वाधिष्ठाने  न्यसेत् प्रिये || ४४ ||
टवर्गेण  भुवो  लोकं   रहस्यं  राकिणीमपि | 
शेषञ्च  पूर्ववत् प्रोच्य नाभौ च विन्यसेत् प्रिये || ४५ ||
तवर्गं   स्वश्च    परमरहस्य    लाकिनीमपि | 
शेषञ्च  पूर्ववत्  प्रोच्य  हृदये  विन्यसेत्  प्रिये || ४६ ||
पवर्गञ्च   महर्लोकं   रहस्यं   काकिनीमपि | 
शेषञ्च  पूर्ववत्  प्रोच्य तालुमूले  न्यसेत्  प्रिये || ४७ ||
यवर्गञ्च    जनो   गुप्ततरञ्च   शाकिनीमपि | 
शेषञ्च पूर्ववत् प्रोच्य  आज्ञायाञ्च न्यसेत्  प्रिये || ४८ ||
शवर्गञ्च     तपश्चातिगुह्यञ्च     हाकिनीमपि | 
शेषञ्च  पूर्ववत्  प्रोच्य ललाटे  विन्यसेत्  प्रिये || ४९ ||
लं क्षं  सत्यं  महागुह्यं  यक्षिणीमपि  च  प्रिये | 
शेषञ्च पूर्ववत्  प्रोच्य  ब्रह्मरन्ध्रे  च  विन्यसेत् || ५० ||
त्रितारमूलमन्त्रान्ते      चतुर्दशभुवं     वदेत् | 
नाधिपायै श्रीपरायै  देव्यै च  व्यापकं  न्यसेत् || ५१ ||
कृत्वैवं  भुवनन्यासं   मूत्तीन्यासमथाचरेत् | 
केशवनारायणमाधवगोविन्दविष्णवः || ५२ ||
मधुसूदनसंज्ञश्च       स्यात्त्रिविक्रमवामनौ | 
श्रीधरश्च  हृषीकेशः  पद्मनाभो   दामोदरः | 
वासुदेवः   सङ्कर्षणः   प्रद्युम्नश्चानिरुद्धकः || ५३ ||
अक्षोरोष्टदा  चेशानी चोग्रोद्ध्र्वनयना तथा | 
ऋद्धिश्च रूपिणी लुप्ता  लूनदोषैकनायिका || ५४ ||
एङ्कारिणी    चौघवती   सर्वकामाञ्जनप्रभा | 
अस्थि मालाधरा चेति सम्प्रोक्ताः स्वरदेवताः|| ५५ ||
भवः शर्वांऽथ रुद्रश्च पशुपतिश्चोग्र एव च | 
महादेवस्तथा    भीम   ईशस्तत्पुरुषाह्वयः || 
अघोरसद्योजातौ  च  वामदेव   इतीरिताः || ५६ ||
करभद्रा    खगबला    गरिमादिफलप्रदा | 
घण्टाधरोग्रनयना   चन्द्रधर्त्री  ततः  परम् | 
छन्दोमयी जगत्स्थाना ज्वलत्तारा ततः परम् || ५७ ||
ज्ञानदा   च  टङ्कधरा  धृतिर्द्वादश  ईरिताः | 
कभादीनां ठडान्तानां वर्णानां देवतास्त्विमाः || ५८ ||
ब्रह्मा  प्रजापतिर्वेधाः  परमेष्ठी   पितामहः | 
विधाता च विरिञ्चिश्च  स्रष्टा  च चतुराननः || 
हिरण्यगर्भ इत्युक्ताः क्रमाद् ब्रह्मादयो दश || ५९ ||
यक्षिणी रञ्जिनी लक्ष्मीवज्रिणी शशिधारिणी | 
षडाधारलया   सर्वनायिका    हसितानना | 
ललिता च क्षमा चेति  प्रोक्ता याद्यर्णदेवताः || ६० ||
त्रितारमूलमन्त्रान्ते स्वरान् विष्णून् सशक्तिकान् | 
चतुर्थ्या नमसा युक्तान्  मस्तके  चानने न्यसेत् || ६१ ||
सस्कन्धपार्श्वकट्यूरु   जानुजङ्घापदेषु   च | 
दक्षादिवामपर्यन्तं विन्यसेत्       परमेश्वरि || ६२ ||
कभाद्यर्णयुतान् मन्त्री भवादीन शक्तिसंयुतान् |
पादपार्श्वबाहुकण्ठपञ्चवक्त्रेषु     विन्यसेत् | 
दशाधारेषु ब्रह्मादीन्  यादि शक्तियुतान्न्यसेत् || ६३ ||
त्रितारमूलमन्त्रान्ते  श्रीत्रिमूर्त्त्यम्बिकां  वदेत् | 
आयै पराम्बादेव्यै च नमसा व्यापकं न्यसेत् |
मूतीन्यासं  विधायेत्थं  मन्त्रन्यासं समाचरेत् || ६४ ||
त्रितारमूलं  अं आं इं एकलक्षञ्च कोटि च | 
भेदश्च प्रणवाद्येकाक्षरात्माखिलमन्त्रतः || ६५ ||
ततोऽधिदेवतायै स्यात् सकलञ्च फलप्रदाम् | 
आयै  तथैककूटेश्वर्यम्बादेव्यै  नमो  वदेत् || ६६ || 
ई उं ऊं आदि हंसादे द्विकूटं पूर्ववत्  परम् | 
ऋं ऋं ऌं आदि वह्न्यादि त्रिकूटं पूर्ववत् परम् || ६७ ||
ॡं  एं  एं  चतुर्लक्षं  चन्द्रादि पूर्ववत्  परम् | 
ओं औं अं अः पञ्चलक्षं सूर्यादि पूर्ववत् परम् || ६८ ||
कं खं गं चैव षड्लक्षं स्कन्दादि पूर्ववत् परम् | 
घं ङं चं  सप्तलक्षं  गणेशादि  पूर्ववत्  परम् || ६९ ||
छं जं  झं  अष्टलक्षं वटुकादि  पूर्ववत्  परम् | 
ञं टं  ठं  नवलक्षञ्च  ब्रह्मादि  पूर्ववत्  परम् || ७० ||
डं ढं णं दशलक्षञ्च विष्ण्वादि  पूर्ववत्  परम् | 
तं  थं  दं एकादशलक्षं  रुद्रादि पूर्ववत् परम् || ७१ ||
धं नं पं  द्वादशलक्षं  वाण्यादि  पूर्ववत्  परम् | 
फं बं भं त्रयोदशलक्षं लक्ष्म्यादि पूर्ववत् परम् || ७२ ||
मं यं रं चतुर्दशलक्षं गौर्ययादि  पूर्ववत्  परम् | 
लं वं शं  पञ्चदशलक्षं दुर्गादि  पूर्ववत्  परम् | 
षं सं हं लं क्षं षोडशलक्षं त्रिपुरादि च षोडशा || ७३ ||
अक्षरात्मा खिलमन्त्राधिदेवतायै  सकलं  ततः | 
तथा  फलप्रदायै  च  षोडश  कूटेश्वरी पुनः || ७४ ||
अम्बादेव्यै  नमः  प्रोक्तो मन्त्रन्यासो  महेश्वरि | 
आधारलिङ्गयोर्नाभिहृत्कण्ठे       नेत्रयोरपि || ७५ ||
निबोधिकायामर्द्धेन्दौ  बिन्दौ   चैव  कलापदे | 
उन्मन्यां विष्णुक्त्रे  च  नादे  नादान्त  एव  च | 
ध्रुवमण्डलदेशे   च   विन्यसेत्   कुलनायिके || ७६ ||
त्रितारमूलमन्त्रान्ते        सर्वमन्त्रात्मिकापदम् | 
आयै  पराम्बादेव्यै  च  हृदये  व्यापकं न्यसेत् || ७७ ||
मन्त्रन्यासं  विधायेत्थं  दैवतन्यासमाचरेत् | 
त्रितारमूलमन्त्रान्ते  अं आं सहस्रकोटि च || ७८ ||
योगिनीकुलशब्दान्ते सेवितायै  पदं  वदेत् | 
निवृत्त्यम्बापदं देव्यै  नम इत्युच्चरेत्  प्रिये || ७९ ||
इं  ई योगिनीप्रतिष्ठां  शेषं  पूर्ववदुच्चरेत् | 
उं ऊं तपस्वि विद्याञ्च  शेषं पूर्ववदुच्चरेत् || ८० ||
ऋं ॠं शान्तं तथा शान्तिं शेषं पूर्ववदुच्चरेत् | 
ऌं ॡं मुनिं  शान्त्यतीतां  शेषं  पूर्ववदुच्चरेत् || ८१ ||
एं ए देवञ्च  हृल्लेखां  शेषं  पूर्ववदुच्चरेत् | 
ओं औं राक्षसशब्दान्ते गगनां पूर्ववत् परम् | 
अं अः विद्याधरं रक्तां  शेषं  पूर्ववदुच्चरेत् || ८२ ||
कं खं  सिद्धिमहोच्छ्रुष्मां शेषं पूर्ववदुच्चरेत् | 
गं घं  साध्यकरालाञ्च  शेषं  पूर्ववदुच्चरेत् || ८३ ||
डं चं साप्सरसं  जयां  शेषं  पूर्ववदुच्चरेत् | 
छं  जं  गन्धर्वविजयां  शेषं  पूर्ववदुच्चरेत् || ८४ ||
झं ञं गुह्यकशब्दान्ते अजितां शेषं पूर्ववत् परम् | 
टं  ठं  यक्षापराजितां  शेषं  पूर्ववदुच्चरेत् || ८५ ||
डं  ढं  किन्नरवामाञ्च  शेषं  पूर्ववदुच्चरेत् | 
णं  तं  पन्नगज्येष्ठाञ्च  शेषं  पूर्ववदुच्चरेत् || ८६ ||
थं दं चं  पितृरौद्राम्बां  शेषं  पूर्ववदुच्चरेत् | 
धं  नं  गणेशमायाञ्च  शेषं  पूर्ववदुच्चरेत् || ८७ ||
पं फं भैरवशब्दान्ते  कुण्डलीं पूर्ववत् परम् | 
बं भं वटुक कालीञ्च  शेषं  पूर्ववदुच्चरेत् || ८८ ||
मं यं  क्षेत्रेशशब्दान्ते  कालरात्रिञ्च पूर्ववत् | 
रं  लं  प्रमथभगवतीं  शेषं  पूर्ववदुच्चरेत् || ८९ ||
वं  शं  ब्रह्मसर्वेश्वरीं  शेषं  पूर्ववदुच्चरेत् | 
षं सं विष्णुञ्च सर्वज्ञां  शेषं  पूर्ववदुच्चरेत् || ९० ||
हं   लं  रुद्रसर्वकर्त्री  शेषं  पूर्ववदुच्चरेत् | 
क्षं   चराचरशक्तिञ्च   शेषं  पूर्ववदुच्चरेत् || ९१ ||
अङ्गुष्ठगुल्फजंघासु   जानूरुकटिपार्श्वके | 
स्तनकक्ष करस्कन्धकर्णमूर्द्धस्वपि क्रमात् || ९२ ||
दक्षभागदिवामान्तं  विन्यसेत्  कुलनायिके | 
त्रितारमूलमन्त्रान्ते   सर्वदेवात्मिकां   पदम् || ९३ ||
आयै पराम्बादेव्यै च हृदये व्यापकं न्यसेत् | 
देवन्यासं  विधायेत्थं  मातृकान्यासमाचरेत् || ९४ ||
त्रितारमूलमन्त्रान्ते      कवर्गानन्तकोटिभू | 
चरीकुलसेवितायै आं क्षां  हि मङ्गलापदम् || ९५ ||
अम्बादेव्यै नमो ब्रूयादां क्षां  ब्रह्माण्यतः  परम् | 
अम्बादेव्यै  ततोऽनन्तकोटिभूतं  कुलं  वदेत् || ९६ ||
सहितायै  ततो  मङ्गलनाथाय  अं  क्षं  वदेत् | 
अं  क्षं  असिताङ्गभैरवनाथाय  नम  उच्चरेत् || ९७ ||
चवर्गं  खेचरीं  ई  लां  चचीकाञ्च  महेश्वरीम् | 
वेतालं इं  लं  चचीकं  रुरुं  शेषञ्च  पूर्ववत् || ९८ ||
टवंर्ग   पातालचरीं   ऊं   हां   योगेश्वरीं   वदेत् | 
कौमारीञ्च   पिशाचञ्च   उं  हं   योगेशचण्डकौ || ९९ ||
तवर्गं दिक्चरीं ऋं सां  हरसिद्धाञ्च  वैष्णवीम् | 
अपस्मारं   ऋं   सं  हरसिद्धक्रोधादिपूर्ववत् || १०० ||
पवर्गं सहचरीं  ऌं  षां  भट्टि  वाराह्यतः परम् | 
ब्रह्मराक्षसकं   ऌं  षां  भट्टोन्मत्तादि  पूर्ववत् || १०१ ||
यवर्ग   स्याद्गिरिचरीं  एं  शां  किलकिलेति  च | 
इद्राणीं चेटकं एं शं किलिः कापालिकस्तथा || १०२ ||
शवर्गं स्यात् वनचरीं औं वां कालादिरात्रि च | 
चामुण्डां  प्रेतं ओं वं च  कालरात्रिश्च  भीषणः || १०३ ||
लं क्षं जलचरीं अः लां वदेत् वश्चञ्च भीषणाम् | 
महालक्ष्मीं शाकिनीश्च अं लं पश्चाच्च भीषणम् || १०४ ||
संहारभैरवञ्चैव       शेषं      पूर्ववदुच्चरेत् | 
मूलाधारलिङ्गनाभिष्वनाहतविशुद्धयोः || १०५ ||
आज्ञाभाल    तलब्रह्मरन्ध्रेष्वेवं    प्रविन्यसेत् | 
त्रितारमूलमन्त्रान्ते            मातृभैरवशब्दतः || १०६ || 
अधिपायै  पराम्बा  देव्यै  नमो  व्यापकं न्यसेत् | 
मातृन्यास    महेशानि    कुर्यादेवं   समाहितः || १०७ ||
एवं    न्यस्ततनुर्दैवि    ध्यायेद्देवमनन्यधीः | 
अमृतार्णवमध्योद्यन्मणिद्वीपे      सुशोभिते || १०८ ||
कल्पवृक्षवनान्तःस्थमणि  माणिक्यमण्डपे | 
नवरत्नमय श्रीमत्सिंहासनगतेम्बुजे || १०९ ||
त्रिकोणान्तःसमासीनं    चन्द्रसूर्यायुतप्रभम् | 
अर्द्धाम्बिकासमायुक्तं   प्रविभक्तविभूषणम् || ११० ||
कोटिकन्दर्पलावण्यं  सदा षोडशवाषीकम् | 
मन्दस्मितमुखाम्भोजं  त्रिनेत्रं  चन्द्रशेखरम् || १११ ||
दिव्याम्बरस्रगालेपं     दिव्याभरणभूषितम् | 
पानपात्रञ्च चिन्मुदां  त्रिशूलं  पुस्तकं करैः || ११२ ||
विद्यासंसिद्धिं बिभ्राणां  सदानन्दमुखेक्षणम् | 
महाषोढोदिताशेषदेवतागणसेवितम् || ११३ ||
एवं  चित्ताम्बुजे  ध्यायेदर्द्धनारीश्वरं शिवम् | 
पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत् || ११४ ||
अथवा निष्कलं ध्यायेत् सच्चिदानन्दलक्षणम् | 
सवतेजोमयं     देवि    सचराचरविग्रहम् || ११५ ||
ततः  सन्दर्शयेन्मुद्रादशकं   परमेश्वरि | 
योनि  लिङ्गञ्च सुरभि हेतिमुद्राचतुष्टयम् || ११६ ||
वनमालां महामुद्रां नभोमुद्रामिति क्रमात् | 
यथाशक्ति मन्त्रमूलं जपेत् श्रीपादुकामपि | 
मूध्नी सञ्चिन्तयेद्देवि श्रीगुरुं शिवरूपिणम् || ११७ ||
सहस्रदलपङ्कजे सकलशीतरश्मिप्रभम्
वराभयकराम्बुजं   विमलगन्धपुष्पाम्बरम् | 
प्रसन्नवदनेक्षणं सकलदेवतारूपिणम्
स्मरेत् शिरसि हंसगं  तदभिधानपूर्वं गुरुम् || ११८ ||
एवं न्यासे कृते देवि साक्षात् परशिवो भवेत् | 
मन्त्री    नैवात्र   सन्देहो   निग्रहानुग्रहक्षमः || ११९ ||
महाषोढाह्वयं न्यासं यः करोति दिने दिने | 
देवाः सर्वे नमस्यन्ति तं नमामि न संशयः || १२० ||
महाषोढाह्वयं न्यासं करोति यत्र पार्वति | 
दिव्यक्षेत्रं  समुद्दिष्टं  समन्ताद्दशयोजनम् || १२१ ||
कृत्वा न्यासमिमं देवि  यत्र गच्छति मानवः | 
तत्र स्याद्विजयो लाभः सम्मानः पौरुषं प्रिये || १२२ ||
महाषोढाकृतन्यासस्तेन   यो   वन्द्यते    शिवे | 
षण्मासान्मृत्युमाप्नोति यदि त्राता शिवः स्वयम् || १२३ ||
वज्रपञ्जरनामानमेतं     न्यासं    करोति   यः | 
दिव्यन्तरीक्षभूशैलजलारण्यनिवासिनः || १२४ ||
प्रचण्डभूतवेतालदेवरक्षोग्रहादयः | 
भयग्रस्तेन मनसा नेक्षन्ते तं कुलेश्वरि || १२५ ||
महाषोढाकृतन्यासं     ब्रह्माविष्णुशिवादयः | 
देवाः सर्वे नमस्यन्ति ऋषयोऽपि मुनीश्वराः || १२६ ||
बहुनोक्तेन किं देवि न्यासमेतं मम प्रियम् | 
नापुत्राय वदेद्देवि नाशिष्याय  प्रकाशयेत् || १२७ ||
आज्ञासिद्धिमवाप्नोति तस्मान्न्यासं समाचरेत् | 
अस्मात्  परतरा  रक्षा  देवताभावसिद्धिदा | 
लोके नास्ति न सन्देहः सत्यं सत्यं वरानने || १२८ ||
ऊर्ध्वाम्नायप्रवेशश्च     पराप्रासादचिन्तनम् | 
महाषोढापरिज्ञानं  नाल्पस्य  तपसः फलम् || १२९ ||
इति ते  कथितं  देवि  मन्त्रोद्धारादिकं प्रिये | 
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि || १३० ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
माहाषोढाकथनं नाम चतुर्थोल्लासः || ४ ||


अथ पञ्चमोल्लासः


श्रीदेव्युवाच
कुलेशाधारपात्राणां  पिशितानाञ्च  लक्षणम् | 
कुलद्रव्यस्य निर्माणं  भेदं  माहात्म्यमेव  च || १ ||
अविधानेन यत् पापं सविधानेन यत् फलम् | 
तत् सर्वं  श्रोतुमिच्छामि  वद मे करुणानिधे || २ ||
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | 
तस्य  श्रवणमात्रेण  त्रिदशैः समतां व्रजेत् || ३ ||
आधारेण विना भ्रंशो न च तृप्यन्ति मातरः | 
तस्माद्विधिवदाधारं  कल्पयेत्  कुलनायिके || ४ ||
आधारं त्रिपदं प्राहुः षट्पदं वा चतुष्पदम् | 
अथवा  वर्तुलाकारं  कुर्याद्देवि  मनोहरम् || ५ ||
स्वर्णरौप्यशिलाकूर्मकपालालाबुमृण्मयम्  | 
नारिकेलशङ्खताम्रमुक्ताशुक्तिसमुद्भवम्     || ६ ||
पुण्यवृक्ष  समुद्भूतं  पात्रं  कुर्याद्विचक्षणः | 
अतिसूक्ष्ममतिस्थूलं छिन्नं भिन्नञ्च वर्जयेत् || ७ ||
सुवर्णरौप्यताम्राणि   सर्वसिद्धकराणि  च | 
शान्तिके च शिलापात्रं स्तम्भने चैव मृण्मयम् || ८ ||
नारिकेलञ्च वश्ये स्यादभिचारे च कूर्मजम् | 
शङ्गं    ज्ञानप्रदं    शुक्तिर्देवीप्रीतिप्रदायिनी || ९ ||
कपालालाबुपात्राणि   योगसिद्धिकराणि च | 
पुण्यवृक्षज  पात्राणि   सर्वपापहराणि   च | 
उक्तेष्वेतेषु   देवेशि  पात्रमेकं   प्रकल्पयेत् || १० ||
कुलद्रव्यं  प्रवक्ष्यामि  शृणु  देवि समाहिता | 
अम्भसां द्वादशप्रस्थं  प्रस्थार्द्धं  तक्रमेव  च || ११ ||
तण्डुलानां चतुःप्रस्थं द्विप्रस्थञ्च तथान्धसाम् | 
मुष्टिमात्राङ्कुरैः सार्द्धम् एकस्मिन् योजयेद् घटे || १२ ||
शीतादिरहिते   स्थाने  स्थापयेद्दिवसद्वयम् | 
तस्मादग्निं समारोप्य जम्बालसदृशं पचेत् || १३ ||
अवरोप्य  पुनः  शीतामवस्थां  प्रापयेत्ततः | 
पादोनप्रस्थकैः पिष्ट्वा हस्ताभ्यां मेलयेत् सुधीः || १४ ||
प्रस्थार्द्धान् तण्डुलान् वाप्यपरेद्युस्तत् समुद्धरेत् | 
सम्यक् संमद्ये तक्रेण  पाकमालोड्य  मेलयेत् | 
एषा  पैष्टीति  विख्याता  पूजिता  देवदानवैः || १५ ||
गौडी च श्वेतबर्बुरजम्बुत्वक्सधिताम्भसाम् | 
दशप्रस्थं  कुलेशानि  धातकीकुसुमं शुभम् || १६ ||
नारिकेलप्रसूनं   वा   चैकप्रस्थं  विनिक्षिपेत् | 
हरीतकी    चाक्षफलं    वसुनिष्कप्रमाणतः || १७ ||
वह्निं त्रिकटुकञ्चापि निष्कमार्धं क्षिपेत् पृथक् | 
अशीतिगुडसम्मिश्रमेकस्मिन्   योजयेद्   घटे || १८ ||
करेण   भ्रामयेत्   सम्यगनुलोमविलोमतः | 
अष्टोत्तरशतावृत्त्या   त्रिसन्ध्यं  प्रतिवासरम् || १९ ||
द्वादशाहेन पाकः स्यात् पालयेत्तत्त्रयोदशे | 
एषा गौडीति कथिता शिवसायुज्यहेतुकी || २० ||
द्विगुणं मकरन्दस्य  वारि  संयोजयेद्  घटे | 
द्वादशाहेन पाकः स्याच्छेषमन्यत् पुरोक्तवत् | 
एषा माध्वी  समुद्दिष्टा  देवताप्रीतिकारिणी || २१ ||
एका शुण्ठी द्विवह्निश्च मरीचत्रितयं तथा | 
धातकी च चतुष्कं स्यात् पञ्च पुष्पाणि षण्मधु || २२ ||
अशीतिगुडसम्मिश्रं शेषमन्यत्  पुरोक्तवत् | 
इदं   मनोहरं   द्रव्यं   योगिनीपानमुत्तमम् || २३ ||
सार्द्धेन्दुपलकं  दघ्नो  माहिषं  प्रस्थमात्रकम् | 
मोचापक्वशतञ्चापि योगोऽयं मदिरा शुभा || २४ ||
तं मेलयित्वा  संयोज्य  सान्द्गे  वंशपुटे पचेत् | 
चत्वारिंशद्दिनान्यष्टौ   पङ्के    पङ्कजसम्भवे || २५ ||
निधायोद्धृत्य किरणैः सौरैः सम्यग् विशोषयेत् | 
यदा   च  कठिनीभावस्तदा  संगृह्य  मानवः || २६ ||
गुञ्जाफलप्रमाणन्तु  जलैः  सम्मिलितं  शुभम् | 
आत्मेच्छं    पूरयेत्   पात्रं   परमानन्ददं    परम् || २७ ||
एतादप्युत्तमं    द्रव्यं    सर्वदेवप्रियं    प्रिये | 
एतानि   मदहेतूनि   मद्यान्यन्यानि  कारयेत् || २८ ||
पानसं   द्राक्षमाधूकं   खार्जूरं   तालमैक्षवम् | 
मधूत्थं शीधु माध्वीकं मैरेयं नारिकेलजम् || २९ ||
मद्यान्येकादशैतानि  भुक्तिमुक्तिकराणि च | 
द्वादशन्तु   सुरा   मद्य   सर्वेषामुत्तमं   प्रिये || ३० ||
पैष्टी गौडी च माध्वी च विज्ञेया त्रिविधा सुरा | 
सर्वसिद्धिकरी  पैष्टी   गौडी   भोगप्रदायिनी || ३१ ||
माध्वी मुक्तिकरी  ज्ञेया  सुरा  स्याद्देवताप्रिया | 
विद्याप्रदैक्षवी  ज्ञेया  द्राक्षी  राज्यप्रदा  भवेत् || ३२ ||
तालजा स्तम्भने शस्ता खार्जूरी रिपुनाशिना | 
नारिकेलभवा   श्रीदा  पानसी  च  शुभप्रदा || ३३ ||
मधूकजा  ज्ञानकरी  माध्वीकी  रोगनाशिनी | 
मैरेयाख्या  कुलेशानि  सर्वदा  पापहारिणी || ३४ ||
क्षीरवृक्षसमुद्भूतं मद्यं वल्कलसम्भवम् | 
मधुपुष्पसमुद्भूतम् आसवं तण्डुलोद्रवम् || ३५ ||
यस्यानन्दो निवीकार आमोदश्च मनोहरः | 
मद्यं  तदुत्तमं  देवि  देवानां  प्रीतिदायकम् || ३६ ||
आत्मेच्छं पूरयेत् पात्रं परमानन्दवर्द्धनम् | 
एतदामोदकं  द्रव्यं   सर्वदेवप्रियं   प्रिये || ३७ ||
सुरादर्शनमात्रेण    सर्वपापैः    प्रमुच्यते | 
तद्गन्धाघ्राणमात्रेण शतक्रतुफलं लभेत् || ३८ ||
मद्यस्पर्शनमात्रेण   तीर्थकोटिफलं  लभेत् | 
देवि तत्पानतः साक्षाल्लभेन्मुक्तिं चतुवीधाम् || ३९ ||
इच्छाशक्तिः सुरामोदे ज्ञानशक्तिश्च तद्रसे | 
तत्स्वादे च क्रियाशक्तिस्तदुल्लासे परा स्थिता || ४० ||
मदिरा ब्रह्मगाः प्रोक्ताः चित्तशोधनसाधनाः | 
तासामेकां  समाहृत्य  पूजाकर्म समाचरेत् || ४१ ||
मत्स्य मांसादिविजयां चाष्टगन्धैः सुमिश्रिताम् | 
संमर्द्य   वटिकां  कृत्वा  संगृह्याथ  विचक्षणः | 
मद्याभावे   तु  वटिकां  जले   संयुज्य  तर्पयेत् || ४२ ||
गुडमिश्रेण   तक्रेण   तर्पयेत्    मधुभाजिना | 
सौवीरेणाथवा कुर्यादेतत् कर्म न लोपयेत् | 
प्रमादाद् यदि  लुप्येत  देवताशापमाप्नुयात् || ४३ ||
मांसन्तु त्रिविधं प्रोक्तं खभूजलचरं प्रिये | 
यथासम्भवमप्येकं तर्पणार्थं  प्रकल्पयेत् | 
मांसदर्शनमात्रेण   सुरादर्शनवत्   फलम् || ४४ ||
पितृदैवतयज्ञेषु       वैधहिंसा     विधीयते | 
आत्मार्थं प्राणिनां हिंसा कदाचिन्नोदिता प्रिये || ४५ ||
अनिमित्तं   तृणं  वापि   छेदयेन्न  कदाचन | 
देवतार्थं द्विजार्थ वा हत्वा पापैर्न लिप्यते || ४६ ||
मामनादृत्य यत् पुण्यं पापं स्यात् प्रतिभाषतः | 
मन्निमित्तं चरेत्  पापं  पुण्यं  भवति  शाम्भवि || ४७ ||
यैरेव पतनं द्रव्यैः सिद्धिस्तैरेव चोदिता | 
श्रीकौलदर्शने चापि भैरवेण महात्मना || ४८ ||
मत्कर्म कुर्वतां पुंसां कर्मलोपो भवेन्नहि (यदि) | 
तत्कर्म ते प्रकुर्वन्ति सप्तकोटिमुनीश्वराः || ४९ ||
हन्यान्मन्त्रेण चानेन  त्वभिमन्त्र्य  पशुं  प्रिये | 
गन्धपुष्पाक्षतैः पूज्य चान्यथा नरकं व्रजेत् || ५० ||
शिवोत्कृत्तमिदं पिण्डमतस्त्वं शिवतां गतः | 
तद् बुध्यस्य पशो त्वं हि मा शिवस्त्वं शिवोऽसि हि ||५१||
ब्रह्मा स्यात् पलले विष्णुर्गन्धे रुद्रश्च तद्रसे | 
परमात्मा तदानन्दे तस्मात्  सेव्यमिदं  प्रिये || ५२ ||
मांसाभावे  तु  लशुनं  सार्द्रकं  नागरन्तु  वा | 
आदाय पूजयेद्देवि चान्यथा निष्फलं भवेत् || ५३ ||
मत्स्यमांसविहीनेन    मद्येनापि     न   तर्पयेत् | 
न कुर्यान्मत्स्यमांसाभ्यां विना द्रव्येण पूजनम् || ५४ ||
पिशितं तिलमात्रन्तु तिलार्द्धमपि बिन्दुना | 
सकृत्तर्पणमात्रेण  कोटियज्ञफलं  लभेत् || ५५ ||
कुलपूजासमं नास्ति पुण्यमन्यज्जगत्त्रये | 
तस्माद् यः पूजयेद्भक्त्या भुक्तिमुक्त्योः स भाजनम् ||५६||
अनधीतोऽप्यशास्त्रज्ञो गुरुभक्तो दृढव्रतः | 
कुलपूजारतो यस्तु स मे प्रियतमो भवेत् || ५७ ||
चतुर्णामपि वर्णानामाश्रमाणामपीश्वरि | 
पुंस्त्रीनपुंसकानान्तु   पूजितेष्टफलप्रदा || ५८ ||
इहामुत्र  फलं  दद्याः  पूजिता  सुवधूरिव | 
अपूजिता त्वं देवेशि दुःखदा कुवधूरिव || ५९ ||
कुलपूजां विना यस्तु  करोत्येवं  सुदुर्मतिः | 
स याति नरकं घोरमेकविंशतिभिः कुलैः || ६० ||
तस्मात्   सर्वप्रयत्नेन  कुलपूजारतो  भवेत् | 
लभते सर्वसिद्धींश्च नात्र कार्या विचारणा || ६१ ||
आराधनासमर्थश्चेद्दद्यादर्चनसाधनम्      | 
यो दातुं नैव शक्नोति कुर्यादर्चनदर्शनम् || ६२ ||
सम्यक् शतक्रतून् कृत्वा यत् फलं समवाप्नुयात् | 
तत् फलं समवाप्नोति  सकृत्  कृत्वा  क्रमार्चनम् || ६३ ||
महाषोडशदानानि   कृत्वा   यच्च    फलं   लभेत् | 
तत्  फलं  समवाप्नोति  कृत्वा   श्रीचक्रदर्शनम् || ६४ ||
सार्द्धत्रिकोटितीर्थेषु  स्नात्वा  यत्  फलमाप्नुयात् | 
तत् फलं लभते देवि सकृत् कृत्वा क्रमार्चनम् || ६५ ||
बहुनोक्तेन किं देवि यथाभक्त्या ददाति यः | 
कुलाचार्याय पूजार्थं  कुलद्रव्यं  स  धर्मवित् || ६६ ||
शैवे वा  वैष्णवे  शाक्ते  सौरे  सुगतदर्शने | 
बौद्धे पाशुपते सांख्ये व्रते कुलमुखे तथा || ६७ ||
सदक्षवामसिद्धान्ते   वैदिकादिषु  पार्वति | 
विनाऽलिपिशिताभ्यान्तु पूजनं निष्फलं भवेत् || ६८ ||
कुलद्रव्यैवीना   कुर्याज्जपयज्ञ  तपोव्रतम् | 
निष्फलं तद्भवेद्देवि भस्मनीव यथा हुतम् || ६९ ||
यथैवान्तश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः | 
तथान्तर्यागनिष्ठा  ये  ते  प्रिया  देवि  नापरे || ७० ||
समर्पयन्ति ये भक्त्या आवाभ्यां पिशितासवम् | 
उत्पादयन्ति  चानन्दं  मत्प्रियाः  कौलिकाश्च  ते || ७१ ||
आवयोः   परमाकारं    सच्चिदानन्दलक्षणम् | 
कुलद्रव्योपभोगेन     परिस्फुरति    नान्यथा || ७२ ||
अन्तःस्थानुभवोल्लासो मनोवाचामगोचरः | 
कुलद्रव्योपभोगेन   जायते   नान्यथा   प्रिये || ७३ ||
सेविते च कुलद्रव्ये कुलतत्त्वार्थदर्शनः | 
जायते   भैरवावेशः  सर्वत्र  समदर्शनः || ७४ ||
तमःपरिवृतं   वेश्म  यथा   दीपेन  दृश्यते | 
तथा मायावृतो ह्यात्मा द्रव्यपानेन दृश्यते || ७५ ||
मन्त्रपूतं   कुलद्रव्यं  गुरुदेवापीतं   प्रिये | 
ये पिबन्ति जनास्तेषां स्तन्यपानं न विद्यते || ७६ ||
मद्यन्तु भैरवो देवो मद्यं शक्तिः समीरिता | 
अहो  भोक्ता  च  मद्यस्य  मोहयेदमरानपि || ७७ ||
तन्मैरेयं   नरः  पीत्वा  यो   न   विकुरुते   प्रिये | 
मद्ध्यानैकपरो भूत्वा स मुक्तः स च कौलिकः || ७८ ||
सुरा शक्तिः शिवो मांसं तद्भोक्ता भैरवः स्वयम् | 
तयोरैक्यसमुत्पन्न    आनन्दो    मोक्ष   उच्यते || ७९ ||
आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितम् | 
तस्याभिव्यञ्जकं मद्यं  योगिभिस्तेन  पीयते || ८० ||
कुण्डी  कम्बुकपालानि  मधुपूर्णानि  बिभ्रतः | 
किं न पश्यति लोकोऽयं ब्रह्मविष्णुमहेश्वरान् || ८१ ||
निःशङ्को निर्भयो वीरो निर्लज्जो निष्कुतूहलः | 
निर्णीतवेदशास्त्रार्थो   वरदां   वारुणीं    पिबेत् || ८२ ||
मन्त्रसंस्कारसंशुद्धामृतपानेन      पार्वति | 
जायते  देवताभावो  भवबन्धविमोचकः || ८३ ||
ब्राह्मणस्य  सदा  पेयं  क्षत्रियस्य  रणागमे | 
गोलम्भने तु वैश्यस्य  शूद्रस्यान्त्येष्टिकर्मणि || ८४ ||
देवान् पितृन् समभ्यर्च्य देवि शास्त्रोक्तवर्त्मना | 
गुरुं स्मरन् पिबन्मद्यं खादन् मांसंन दोषभाक् || ८५ ||
तृप्त्यर्थं  पितृदेवानां  ब्रह्मध्यानस्थिराय  च | 
सेवेत मधुमांसानि तृष्णया चेत् स पातकी || ८६ ||
मन्त्रार्थं स्फुरणार्थाय मनसः स्थैर्यहेतवे | 
भवपाशनिवृत्त्यर्थं   मधुपानं   समाचरेत् || ८७ ||
सेवेत स्वसुखार्थं यो मद्यादीनि स पातकी | 
प्राशयेद्देवताप्रीत्यै    स्वाभिलाषविवजीतः || ८८ ||
मत्स्यमांससुरादीनां  मादकानां  निषेवणम् | 
यागकालं बिनान्यत्र दूषणं कथितं प्रिये || ८९ ||
यथा क्रतुषु विप्राणां सोमपानं विधीयते | 
मद्यपानं तथा कार्यं समये भोगमोक्षदम् || ९० ||
श्रीगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञाय वासनाम् | 
पञ्चमुद्रा निषेवेत चान्यथा पतितो भवेद् || ९१ ||
आवृत्तिं गुरुपंक्तिश्च वटुकादीन्न पूज्य यः | 
वीरोऽप्यत्र वृथापानी देवताशापमाप्नुयात् || ९२ ||
अयष्ट्वा   भैरवं  देवमकृत्वा  मन्त्रतर्पणम् | 
पशुपानविधौ पीत्वा वीरोऽपि नरकं व्रजेत् || ९३ ||
अज्ञात्वा  कौलिकाचारमयष्ट्वा  गुरुपादुकाम् | 
योऽस्मिन् शास्त्रे प्रवर्त्तेत तं त्वं पीडयसि ध्रुवम् || ९४ ||
कौलज्ञाने ह्यसिद्धो यस्तद्द्रव्यं भोक्तुमिच्छति | 
स  महापातकी  ज्ञेयः  सर्वधर्मबहिष्कृतः || ९५ ||
समयाचारहीनस्य       स्वैरवृत्तेर्दुरात्मनः | 
न सिद्धयः कुलभ्रंशस्तत्संसर्गं न कारयेत् || ९६ ||
यः शास्त्रविधिमुत्सृज्य वर्त्तते कामकारतः | 
स सिद्धिमिह नाप्नोति परत्र न परां गतिम् || ९७ ||
स्वेच्छया  रममाणो  यो  दीक्षासंस्कारवजीतः | 
न तस्य सद्गतिः क्वापि तपस्तीर्थव्रतादिभिः || ९८ ||
असंस्कृतं पिबेद्द्रव्यं बलात्कारेण मैथुनम् | 
स्वप्रियेण हतं  मांसं  रौरवं  नरकं  व्रजेत् || ९९ ||
कौलाः पशुव्रतस्याश्चेत् पक्षद्वयविडम्बकाः | 
केशसंख्या  स्मृता  यावत्तावत्तिष्ठन्ति रौरवे || १०० ||
कुलद्रव्याणि सेवेत योऽन्यदर्शनमाश्रितः | 
तदङ्गरोमसंख्यातं    भूतयोनिषु   जायते || १०१ ||
मदप्रच्छादितात्मा च  न  किञ्चिदपि  वेत्ति च | 
न ध्यानं न तपो नार्चा न धर्मो न च सत्क्रिया ||१०२ ||
न दैवं न गुरुर्नात्मविचारो  न  स  कौलिकः | 
केवलं  विषयासक्तः  पतत्येव  न   संशयः ||१०३ ||
मद्यासक्तो न  पूजार्थी  मांसाशी  स्त्रीनिषेवकः | 
कौलोपदेशहीनो  यः  सोऽक्षयं   नरकं  व्रजेत् ||१०४ ||
असंस्कारी तु यो नौ स्यात् पञ्च मुद्रा निषेवते | 
कुलेशि    ब्रह्यनिष्ठोऽपि  निन्द्यतामधिगच्छति ||१०५ ||
लिङ्गत्रयविशेषज्ञः      षडाधारविभेदकः | 
पीठस्थानानि चागत्य महापद्मवनं   व्रजेत् || १०६ ||
आमूलाधारमाब्रह्मरन्ध्रं   गत्वा   पुनः  पुनः | 
चिच्चन्द्रकुण्डलीशक्तिसामरस्य सुखोदयः || १०७ ||
व्योमपङ्कजनिस्यन्दसुधापानरतो      नरः | 
सुधापानमिदं     प्रोक्तमितरे   मद्यपायिनः || १०८ ||
पुण्यापुण्यपशुं हत्वा ज्ञानखड्गेन योगवित् | 
परे   लयं  नयेच्चितं  पलाशी  स  निगद्यते || १०९ ||
मनसा चेन्द्रियगणं  संयम्यात्मनि  योजयेत् | 
मत्त्स्याशी स भवेद्देवि शेषाः स्युः प्राणिहिंसकाः || ११०||
अप्रबुद्धा पशोः शक्तिः प्रबुद्धा कौलिकस्य च | 
शक्तिं तां सेवयेत् यस्तु स भवेत् शक्तिसेवकः || १११ ||
पराशक्त्यात्ममिथुनसंयोगानन्दनिर्भरः         | 
य   आस्ते  मैथुनं  तत्  स्यादपरे  स्त्रीनिषेवकाः || ११२ ||
इत्यादि पञ्चमुद्राणां  वासनां कुलनायिके | 
ज्ञात्वा गुरुमुखाद्देवि यः सेवेत स मुच्यते || ११३ ||
इति   ते  कथितं  देवि  कुलद्रव्यादिलक्षणम् | 
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि || ११४ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
कुलमाहात्म्यकथनं नाम पञ्चमोल्लासः || ५ ||
अथ षष्ठोल्लासः



श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि पूजकस्य च  लक्षणम् | 
कुलद्रव्यादिसंस्कारमर्चनं   वद   मे   प्रभो || १ ||
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | 
तस्य  श्रवणमात्रेण   स्तूयते   देवदानवैः || २ ||
निरस्तपातका यत्र मानवाः पुण्यकमीणः | 
कुलज्ञानसुसम्पन्ना  भजन्ते  ये  दृढव्रताः || ३ ||
पूर्णाभिषेकसहितो वेदशास्त्रार्थतत्त्ववित्| 
देवतागुरुभक्तस्तु नियतात्मार्चयेत् प्रिये || ४ ||
कुलागमरहस्यज्ञो  देवताराधनोत्सुकः | 
गुरूपदेशसंयुक्तः पूजयेत् कुलनायिके || ५ ||
शुद्धात्मा चातिसंहृष्टः क्रोधलौल्यविवजीतः | 
पशुव्रतादिविमुखः  सुमुखस्तु  यजेत्  प्रिये || ६ ||
यदा  पुंसः कृतार्थस्य कालेन  बहुना  प्रिये | 
मत्प्रसादेन    भूयाच्च   दृढभक्तिसमागमः || ७ ||
तदर्थं तर्पणं कुर्याद् द्रव्यैः   श्रीभैरवोदितेः | 
गुरूपदेशविधिना  चान्यथा  पतनं   भवेत् || ८ ||
मन्त्रयोगेन देवेशि कुर्यात्   श्रीचक्रपूजनम् | 
तदहन्तु त्वया सार्धं गृह्णामि स्वयमादरात् || ९ ||
भैरवोऽहमिति  ज्ञानात् सर्वज्ञादिगुणान्वितः | 
इति संचिन्त्य योगीन्द्रः कुलपूजारतो भवेत् || १० ||
इत्यादिलक्षणोपेतः  कौलिको     नियतव्रतः | 
यस्त्वां समर्चयेद्देवि भुक्तिमुक्त्योः स भाजनम् || ११ ||
एकान्ते   विजनेऽरण्ये   देशे  बाधाविवजीते | 
सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः || १२ ||
अमृताब्धौ    मणिद्वीपे    कल्पवृक्षतरोस्तले | 
रत्नप्राकारसन्दीप्तं     स्मरेन्माणिक्यमण्डपम् || १३ ||
पुष्पमालावितानाढ्यं     प्रच्छन्नपटसंवृतम् | 
कर्पूरदीपभास्वन्तं    धूपामोदसुगन्धिकम् || १४ ||
तन्मण्डपस्थमात्मानं ध्यात्वाऽनाकुलचेतसा | 
श्रीगुरोराज्ञया  देवि  कुलपूजां  समाचरेत् || १५ ||
आत्मस्थानमनुद्रव्यदेवशुद्धिस्तु     पञ्चमी | 
यावन्न कुरुते  मन्त्री  तावद्देवार्चनं  कुतः || १६ ||
सुस्नानभूतसंशुद्धिप्राणायामादिभिः   प्रिये | 
षडङ्गाद्यखिलन्यासेरात्मशुद्धिः   समीरिता || १७ ||
सम्मार्जनानुलेपाद्यैर्दर्पणोदरवत्कृतम्  | 
वितानधूपदीपादिपुष्पमालोपशोभितम् | 
पञ्चवर्णरजश्चित्रं स्थानशुद्धिरितीरिता || १८ ||
ग्रथित्वा   मातृकावर्णैर्मूलमन्त्राक्षराणि  च | 
क्रमोत्क्रमाद् द्विरावृत्त्या मन्त्रशुद्धिरितीरिता || १९ ||
पूजाद्रव्याणि संप्रोक्ष्य मूलास्त्राद्भिवीधानवित् | 
दर्शयेद्धेनुमुद्राञ्च         द्रव्यशुद्धिरितारिता || २० ||
पीठे देवं प्रतिष्ठाप्य सकलीकृत्य मन्त्रवित् | 
मूलमन्त्रेण  दीप्तात्मा   न्यासद्रव्योदकेन   च | 
त्रिवारं   प्रोक्षयेद्विद्वान्   देवशुद्धिरितीरिता || २१ ||
पञ्चशुद्धिं विधायेत्थं पश्चाद् यजनमाचरेत् | 
सा पूजा सफला प्रोक्ता चान्यथा निष्फला भवेत् || २२ ||
मण्डलेन विना पूजा निष्फला कथिता प्रिये | 
तस्मान्मण्डलमालिख्य   विधिवत्तत्र   पूजयेत् || २३ ||
अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् | 
त्रैलोक्यं मण्डितं येन मण्डलं तत् सदा शिवम् || २४ ||
उड्डीयानां     चतुरस्रं     कामरूपञ्च     वर्त्तुलम् | 
जालन्धरञ्च   चन्द्रार्धं   त्र्यस्रः   पूर्णगिरिर्भवेत् || २५ ||
अभ्यर्च्य मण्डलं पश्चादाधारान् स्थापयेत् क्रमात् | 
समान्यश्रीगुरुभोगबलिपात्राणि     पञ्चधा || २६ ||
द्विपात्रं वा त्रिपात्रं वा एकपात्रं न  कारयेत् | 
स्वदक्षिणादिवामान्तं स्थाप्याभ्यर्च्यासवेन तु || २७ ||
संपूर्य  मूलमन्त्रेण  कुलेश्वरि  विनिधानवित् | 
तत्र  माषप्रमाणन्तु   मत्स्यं  मांसं  विनिक्षेपेत् || २८ ||
नष्टैः    पर्युषितोच्छिष्टैर्दुर्गन्धैर्गन्धवजीतैः | 
हेतुभिः परपात्रस्थैस्तपीतं निष्फलं भवेत् || २९ ||
न पूरयेत्तु पात्राणि अप्रियैस्तैः कुलेश्वरि | 
स्वादिष्ठैश्च मदिरौष्ठैश्च द्रव्यैरमृतसन्निभैः | 
मनोहरैर्महेशानि  तर्पणं  सफलं   भवेत् || ३० ||
असंस्कृता  सुरा  पापकलहव्याधिदुःखदा | 
आयुःश्रीकीत्तीसौभाग्यधनधान्यविनाशिनी || ३१ ||
तस्मात् संस्कृत्य विधिवत् कुलद्रव्यं ततोऽर्चयेत् | 
अन्यथा नरकं याति दाता भोक्ता न संशयः || ३२ ||
विना द्रव्यादिवासेन न  जपेन्न  स्मरेत्  प्रिये | 
ये  स्मरन्ति  नरा  मूढास्तेषां  दुःखं पदे पदे || ३३ ||
नासवेन विना मन्त्रो न मन्त्रेण विनासवः | 
परस्परविरोधित्वात् कथं पूजा विधीयते || ३४ ||
तत्संशयनिवृत्तिञ्च ज्ञात्वा गुरुमुखात् प्रिये |
वीक्षणं प्रोक्षणं ध्यानं मन्त्रमुद्राविशोधनम् | 
द्रव्यं  तर्पणयोग्यं स्याद्देवताप्रीतिकारकम् || ३५ ||
अग्निसूर्येन्दुब्रह्मेन्द्रविष्णुरुद्रसदाशिवैः     | 
चतुवींशतिमन्त्रैः स्यान्मद्यञ्चैव   परामृतम् || ३६ ||
अमृता   मानदा   पूषा   तुष्टिः  पुष्टी  रतिर्धृतिः | 
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा || ३७ ||
पूर्णा  पूर्णामृता  चेति   कथिताः   कुलनायिके | 
सौम्याः कामप्रदायिन्यः षोडश  स्वरजाः कलाः || ३८ ||
तपनी तापिनी  धूम्रा  मरीचिर्ज्वालिनी  रुचिः | 
सुषुम्ना भोगदा विश्वा  रोधिनी धारिणी क्षमा | 
कभाद्या  वसुदाः  सौराष्ठडान्ता  द्वादशेरिताः || ३९ ||
धूम्राचीरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी | 
सुश्रीः  सुरूपा  कपिला  हव्यकव्यवहे  अपि | 
आग्नेया  यादिवर्णाद्या  दश धर्मप्रदाः कलाः || ४० ||
सृष्टिर्मेधा स्मृतिरृद्धिः कान्तिर्लक्ष्मीर्द्युतिः स्थिरा | 
स्थितिः  सिद्धिरिति  प्रोक्ताः कचवर्गकला दश | 
अकारप्रभवा ब्रह्मजाताः  स्युः  सृष्टये  कलाः || ४१ ||
जरा च पालिनी शान्तिरीश्वरी   रतिकामिके | 
वरदाह्लादिनीप्रीतिदीर्घाः       स्युष्टतवर्गजाः | 
उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः || ४२ ||
तीक्ष्ण रौद्री भया निद्रा तन्द्रा क्षुत् क्रोधिनी क्रिया |
उत्कारी  मृत्युरित्युक्ता  पयवर्गकला  दश | 
मकारप्रभवा   रुद्रजाताः संहृतये  कलाः || ४३ ||
षवर्गगाश्चतस्रः  स्युः पीता श्वेतारुणासिताः | 
कलाश्चेश्वरसञ्जातास्तिरोधानाय   बिन्दुजाः || ४४ ||
निवृत्तिश्च  प्रतिष्ठा च  विद्या शान्तिस्तथैव  च | 
इन्धिका दीपिका चापि रेचिका मोचिका परा || ४५ || 
सूक्ष्मा सूक्ष्मामृता ज्ञानाऽमृता  चाप्यायिनी तथा | 
व्यापिनी व्योमरूपा च षोडश स्वरजाः कलाः | 
सदाशिवभवा    नादादनुग्रहकलाः    क्रमात् || ४६ ||
प्रथमं         प्रकृतेर्हंसःप्रतद्विष्णुरनन्तरम् | 
त्र्यम्बकन्तु तृतीयं स्याच्चतुर्थस्तत्पदादिकः || ४७ ||
विष्णुर्योनिं कल्पयतु  पञ्चमः कल्पनामनुः | 
चतुर्नवतिमन्त्रात्मदेवताभावसिद्धिदाः       || ४८ ||
मन्त्रजापश्च संप्रोक्त  आत्मस्तवश्च  पञ्चभिः | 
अत्र ये (ते) पञ्च संप्रोक्ता मन्त्रास्ते कुलनायिके || ४९ ||
अखण्डैकरसानन्दाकरे      परसुधात्मनि | 
स्वच्छन्दस्फुरणामत्र    निधेह्यकुलरूपिणि || ५० ||
अकुलस्थामृताकारे  सिद्धिज्ञानकरे   परे | 
अमृतत्वं विधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि || ५१ ||
तद्रूपेणैकरस्यञ्च  कृत्वार्घ्यं  तत्स्वरूपिणि | 
भूत्वा परामृताकारं मयि चित्स्फुरणं कुरु || ५२ ||
वाग्भवं  पार्श्वगं  भूमिः  पुष्टिरिन्दुसमन्विता | 
स्थितिश्च    पावकानुग्रहार्थेन्दुसमलङ्कृता || ५३ ||
स्थिरेन्धिकेन्दुसंयुक्ता श्वेता बिन्दुयुगान्विता | 
तथामृते     पदं     ब्रूयात्तत्पश्चादमृतोद्भवे || ५४ ||
तथामृतेश्वरीत्युक्त्वा      पश्चादमृतवषीणि | 
अमृतं स्रावयद् द्वन्द्वं द्विठान्तो द्रव्यशुद्धिकृत् | 
अमृतेशीमनुः   प्रोक्तः   पञ्चत्रिंशद्भिरक्षरैः || ५५ ||
वाग्भवं वदयुग्मञ्च वाग्वादिनीति वाग्भवम् | 
कामराजं ततः क्लिन्ने क्लेदिनि क्लेदयेति च || ५६ ||
महामोक्षं कुरुयुग्मं  कामराजमतः  परम् | 
तार्त्तीयं   मोक्षशब्दान्ते  कुरुयुग्मं  वदेत्ततः || ५७ ||
स्यात् प्रासादपरा चान्तेसप्तत्रिंशद्भिरक्षरैः | 
दीपनीमनुरित्युक्तः  सर्वसिद्धिकरः  प्रिये || ५८ ||
एताः कला मातृकाञ्चाप्यख(ण्डेन्द्वा)ण्डैकादिकान् मनून् | 
अमृतेशीं दीपनीञ्च मूलामन्त्रमपि क्रमात् || ५९ ||
एकद्वित्रिचतुःपञ्च     द्विचतुर्वारमम्बिके | 
संस्मृत्याभ्यर्च्य   पात्रन्तु  पूजयेद्धेनुमुद्रया || ६० ||
ब्रह्माण्डखण्डसम्भूतमशेषरससम्भृतम्   | 
आपूरितं    महापात्रं   पीयूषरसमावह || ६१ ||
शुद्धद्रव्येण     तेनापि   गन्धपुष्पाक्षतैरपि | 
न्यासोक्तसर्वमन्त्रैश्चाप्यात्मानं  पूजयेत्  प्रिये || ६२ ||
मूध्नी श्रीगुरुपङ्क्तीश्च मूलाधारे च पादुकाम् | 
दिव्यौघे   चादिनाथश्च  तच्छक्तिश्च  सदाशिवः || ६३ ||
तत्पत्नी   चेश्वरस्तस्य  भार्या   रुद्रश्च  तद्वधूः | 
विष्णुश्च तत्प्रिया ब्रह्मा तत्कान्ता द्वादशेरिताः || ६४ ||
सिद्धौघे   सनकश्चैव    सनन्दश्च    सनातनः | 
सनत्कुमारश्च      सनत्सुजातश्च    ऋभुक्षजः || ६५ ||
दत्तात्रेयो    रैवतको    वामदेवस्ततः    परम् | 
ततो व्यासः शुकश्चैव एकादश समीरिताः || ६६ ||
मानवौघे   नृसिंहश्च  महेशो  भास्करस्तथा | 
महेन्द्रो माधवो विष्णुः षडेते च प्रकीत्तीताः || ६७ ||
नमोऽन्ते योजयेद्देवि दिव्यौघे परमं शिवम् | 
महाशिवञ्च सिद्धौघे मानवौघे सदाशिवम् || ६८ ||
ततः पीठं  समभ्यर्च्य  देवीमावाहयेत् प्रिये | 
महापद्मवनान्तःस्थे        कारणानन्दविग्रहे | 
सर्वभूतहिते     मातरेह्येहि     परमेश्वरि || ६९ ||
देवेशि    भक्तिसुलभे    सर्वावरणसंयुते | 
यावत्त्वां पूजयामीह तावत्त्वं सुस्थिरा भव || ७० ||
मन्त्रेणानेन     चावाह्य     यजेद्देवीमनन्यधीः | 
ध्यात्वा मुद्रां प्रदर्श्यार्चेत् गन्धपुष्पाक्षतादिभिः || ७१ ||
चिन्मयस्याप्रमेयस्य   निर्गुणस्याशरीरिणः | 
साधकानां हितार्थाय ब्रह्मणो रूपकल्पना || ७२ ||
लिङ्गस्थण्डिलवह्न्यम्बुसूपकुड्यपटेषु         च | 
मण्डले फलके मूध्नी हृदि वा दश कीत्तीताः || ७३ ||
एषु स्थानेषु  देवेशि  यजन्ति  परमां   शिवाम् | 
अरूपां रूपिणीं  कृत्वा  कर्मकाण्डरता  नराः || ७४ ||
गवां सर्वाङ्गजं क्षीरं स्रवेत् स्तनमुखाद् यथा | 
तथा   सर्वगतो   देवः  प्रतिमादिषु  राजते || ७५ ||
आभिरूप्याच्च बिम्बस्य पूजायाश्च विशेषतः | 
साधकस्य च विश्वासात् सन्निधौ देवता भवेत् || ७६ ||
गवां सपीः शरीरस्थं  न  करोत्यङ्गपोषणम् | 
स्वकर्मरचितं   दत्तं   पुनस्तामेव   पोषयेत् || ७७ ||
एवं   सर्वशरीरस्था   सपीर्वत्   परमेश्वरी | 
विना चोपासनां देवि न ददाति फलं नृणाम् || ७८ ||
सकलीकृत्य तत्प्राणान् समुद्दीप्येन्द्रियाणि च | 
प्रतिष्ठाप्यार्चयेद्देवि  चान्यथा निष्फलं भवेत् || ७९ ||
मन्त्रहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत् | 
क्षमया  साधयेत्  सर्वं   हीनमङ्गं  पदं  तथा || ८० ||
नियमादतिरेकेण यद् यत् कर्म करोति यः | 
न किञ्चिदप्यस्य फलं सिध्यति क्रमदोषतः || ८१ ||
न्यूनातिरिक्तकर्माणि  न  फलन्ति  कदाचन | 
यथाविधि कृतानीह सत्कर्माणि फलन्ति हि || ८२ ||
तद्विधानकृतं   कर्म   जपहोमार्चनादिषु | 
देवताप्रीतिदं भूयाद् भुक्तिमुक्तिफलप्रदम् || ८३ ||
देवस्य  मन्त्ररूपस्य  मन्त्रव्याप्तिमजानताम् | 
कृतार्चनादिकां सर्वं व्यर्थं भवति शाम्भवि || ८४ ||
यन्त्रं मन्त्रमयं  प्रोक्तं  देवता मन्त्ररूपिणी | 
यन्त्रे सा पूजिता देवि सहसैव प्रसीदति || ८५ ||
कामक्रोधादिदोषोत्थसर्वदुःखनियन्त्रणात्   | 
यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः || ८६ ||
शरीरमिव जीवस्य दीपस्य स्नेहवत् प्रिये | 
सर्वेषामपि देवानां तथा यन्त्रं प्रतिष्ठितम् || ८७ ||
तस्माद् यन्त्रं लिखित्वा वा ध्यात्वा सावृतिकं शिवम् | 
ज्ञात्वा गुरुमुखात्  सर्वं  पूजयेद्विधिना  प्रिये || ८८ ||
एकपीठे पृथक्पूजां विना यन्त्रं करोति यः | 
अङ्गाङ्गित्वं  परित्यज्य  देवताशापमाप्नुयात् || ८९ ||
एकपीठे कुलेशानि स्वे स्वे यन्त्रे पृथक्पृथक् | 
यजेदावरणोपेता   देवतास्तद्विधानतः || ९० ||
आवाह्य   देवतामेकां  पूजयेदन्यदेवताम् | 
उभाभ्यां लभते पापं मन्त्री चञ्चलमानसः || ९१ ||
इत्यादिलक्षणं ज्ञात्वा गुरुतः शास्त्रतः प्रिये | 
विधिनाभ्यर्चयेत्   सम्यग्देवता  सुप्रसीदति || ९२ ||
षोडशैरुपचारैस्तु  साङ्गं  सावरणं   शिवम् | 
पूजयेन्मूलमन्त्रेण      गन्धपुष्पाक्षतादिभिः || ९३ ||
महाषोढोदिताशेषपरिवारांश्च      शाम्भवि | 
प्रणवादिनमोऽन्तेन   तत्तन्नाम्ना  समर्चयेत् || ९४ ||
आगमोक्तेन    मार्गेण   तर्पयेदलिबिन्दुभिः | 
अङ्गुष्ठानामिकाभ्याञ्च नखे निःसृतमूर्ध्वतः | 
स्वपात्रस्पन्दनिस्यन्दं विधिवत्  कुलनायिके || ९५ ||
सकृत्तर्पणमुत्सृज्य  जप्त्वा  मूलञ्च पादुकाम् |
अन्तःशक्तिं   समुत्थाप्य    तर्पयेद्देहदेवताः || ९६ ||
अङ्गुष्ठो भैरवो देवो अनामा चण्डिका प्रिये |
अनामाङ्गुष्ठयोगेन तर्पयेत् कुलसन्ततिम् || ९७ ||
अङ्गुष्ठानामिकाभ्याञ्च वश्यकर्मणि तर्पयेत् |
तर्जन्यङ्गुष्ठयोगेन         तर्पयेदभिचारके |
कनिष्ठाङ्गुष्ठयोगेन  स्तम्भने  तर्पयेत् प्रिये || ९८ ||
एवं   सन्तर्प्य  देवेशि  कुलद्रव्यैर्यथाविधि | 
देवतापुरतो  देवि  गुरुपङ्क्तीश्च   पूजयेत् | 
पङ्क्तित्रयक्रमेणाथ ज्ञात्वा सम्यगनन्यधीः || ९९ ||
कराभ्यां चिन्मुद्रां समधुनृकपालञ्च दधतीं 
	द्रुतस्वर्णप्रख्यामरुणकुसुमालेपवसनाम्   | 
कृपापूर्णापाङ्गीमरुणनयनामम्बरजटा-
	मुपेतां सिद्धौघैर्यजतु गुरुपंक्तिं क्रमगतिम् || १०० ||
एवं  संपूज्य   धूपञ्च  दीपं  नैवेद्यमेव  च | 
आसवं पिशितोपेतं भक्ष्याणि विविधानि च | 
कदल्यादिफलान्येव   ताम्बूलञ्च  समर्पयेत् || १०१ ||
इति ते  कथितं  देवि  कुलाचारस्य लक्षणम् | 
द्गव्यसंस्कारशुद्ध्यादि किमन्यत् श्रोतुमिच्छसि || १०२ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
द्रव्यसंस्कारविधानकथनं नाम षष्ठोल्लासः || ६ ||

अथ सप्तमोल्लासः

श्रीदेव्युवाच
कुलेश बटुकादीनां बलिञ्च शक्तिलक्षणम् | 
तदद्रव्यस्यैव स्वीकारं वद मे करुणानिधे || १ ||
ईश्वर उवाच 
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | 
तस्य   श्रवणमात्रेण  तत्त्वज्ञानं  प्रकाशते || २ ||
यावन्नो   वटुके  दद्यात्तावन्नैव  कुलेश्वरि | 
तृप्यन्ति देवताः सर्वाः स्मरणाद् यजनादपि || ३ ||
वटुकादीन् यजेत्तस्माद् गन्धपुष्पासवामिषैः | 
तत्तन्मन्त्रविधानेन   देवता   प्रीतिमाप्नुयात् || ४ ||
यत्किञ्चिद्धव्यसंघातं   पूजार्थं    भोगहेतुना | 
आनीतं दीयते भक्त्या क्षेत्रपेभ्यः कुलेश्वरि || ५ ||
वटुकमन्त्रान् वक्ष्यामि शृणुष्व कुलनायिके | 
यैः  समचीतमात्रेण  सर्वे  नश्यन्त्युपद्रवाः || ६ ||
तारत्रयं  ततो   देवीपुत्रेति  बटुकेति  वा | 
नाथेति     कपिलजटाभारभास्वरपिङ्गल || ७ ||
त्रिनेत्रेति  पदं  पश्चाज्ज्वालामुखपदं  ततः | 
इमां पूजां बलिं गृह्णद्वयं पावकवल्लभा | 
उक्तो वटुकमन्त्रोऽयं चतुश्चत्वारिंशदक्षरैः || ८ ||
बलिदानेन  सन्तुष्टो  बटुकः सर्वसिद्धिदः | 
शान्तिं करोतु मे नित्यं भूतवेतालसेवितः || ९ ||
तारत्रयं   ततः   सर्वयोगिनीभ्यः   पदं   वदेत् | 
तत्पश्चात्    सवर्भूतेभ्यः   सर्वभूताधिवत्ती   च ||१०||
पदं ताभ्यो डाकिनीभ्यः शाकिनीभ्यः पदं वदेत् | 
त्रैलोक्येति पदं  चैव  वासिनीभ्य  इमां  वदेत् || ११ ||
पूजां बलिं  गृह्णयुग्मं  स्वाहान्तो  योगिनीमनुः | 
कथितोऽयं   महेशानि   मन्त्रः  पञ्चादशाक्षरः || १२ ||
या काचिद् योगिनी रौद्रा सौम्या  घोरतरा  परा | 
खेचरी   भूचरी  व्योमचरी  प्रीतास्तु  मे  सदा || १३ ||
तारत्रयं  वदेत्   सर्वभूतेभ्यः  सर्व  एव   हि | 
पश्चाद्  भूतपतिभ्यो  हृद्युक्तः  सप्तदशाक्षरः || १४ ||
भूता ये विविधाकारा दिव्या  भौमान्तरिक्षगाः | 
पातालसंस्था मे  केविच्छिवयोगेन  भाविताः || १५ ||
ध्रुवाद्याः सत्यसन्धाश्च इन्द्राद्याः स्वर्व्यवस्थिताः| 
तृप्यन्तु  प्रीतमनसः  प्रतिगृह्णन्त्विमं   बलिम् || १६ ||
तारत्रयं    वदेद्देहियुग्मं    देवीपदं    वदेत् | 
पुत्राय    बटुकनाथाय   पश्चादुच्छिष्टहारिणे | 
सर्वविघ्नान् पदं  पश्चात्  नाशयद्वितयं  तथा || १७ || 
गृह्णयुग्मं रुरुपदं     क्षेत्रपालपदं     ततः | 
सर्वोपचारसहितामिमां   पूजां   बलिं  वदेत् | 
गृह्ण गृह्ण द्विठान्तोऽयं क्षेत्रपालमनुः प्रिये || १८ ||
चतुःषष्ट्यक्षरैः   प्रोक्तः  सर्वसिद्धिप्रदायकः | 
योऽस्मिन् क्षेत्रे निवासी च क्षेत्रपालस्य किङ्करः | 
प्रीतोऽयं   बलिदानेन  सर्वरक्षां  करोतु   मे || १९ ||
तारत्रयं     वदेत्तारं    श्रीप्रासादपरामनुः | 
ह्रां ह्रीं ह्रूञ्च युगञ्चादौ भैरवाधिष्ठिताय च || २० ||
अक्षोभ्यानन्दतः  पश्चाद्धृदयाभीष्टदः  परम् | 
सिद्धार्थपदमाभाष्य       पश्चादवतरद्वयम् || २१ ||
क्षेत्रपालपदं  पश्चात्  महाशान्त  पदं  ततः | 
मातृपुत्रपदं   पश्चात्   कुलपुत्रपदं   तथा || २२ ||
सिद्धिपुत्रपदं चास्मिन् स्थानाधिपपदं  ततः | 
ग्रामाधिपतयेऽस्मिन् स्याद्देशाधिपतये ततः || २३ ||
वदेद्    बटुकनाथेति   देवीपुत्रपदं   ततः | 
मेघनादपदं   पश्चात्   प्रचण्डोग्रपदं   वदेत् || २४ ||
कपालीति  पदं  पश्चाद्भीषणेति  पदं वदेत् | 
स्यात् सर्वविघ्नाधिपतये इमां पूजां बलिं वदेत् || २५ ||
गृह्ण  गृह्ण कुरुद्वन्द्वं मम  दूरययुग्मकम् | 
ज्वलयुक्प्रज्वलयुगं   सर्वविघ्नानीतीरयेत् || २६ ||
नाशयद्वितयं क्षां क्षं पश्चाद् बुद्धिमितीरयेत् | 
क्षेत्रपालाय  वौषट्  ह्रूं  षष्ट्युत्तरशताक्षरः || २७ ||
तारत्रयं   वदेत्  पश्चादमुक  क्षेत्रपाल  च | 
राजराजेश्वर  इमां  पूजां  बलिमतः परम् | 
गृह्णयुग्मं द्विठान्तोऽयमष्टाविंशाक्षरो मनुः || २८ ||
अनेन    बलिदानेन     वटुवंशसमन्वितः | 
राजराजेश्वरो   देवो   मे  प्रसीदतु  सर्वदा || २९ ||
पश्चिमे  वटुकं  देवमुत्तरे  योगिनीबलिम् | 
पूर्वे भूतबलिं दद्यात्  क्षेत्रपालञ्च दक्षिणे | 
राजराजेश्वरं मध्ये पूजयेत् कुलनायिके || ३० ||
अङ्गुष्ठानामिकाभ्याञ्च बटुकस्य बलिः स्मृतः | 
तर्जनीमध्यमानामिकाङ्गुष्ठैर्योगिनीबलिः || ३१ ||
अङ्गुलीभिश्च सर्वाभिरुक्तो भूतबलिः प्रिये | 
अङ्गुष्ठतर्जनीभ्याञ्च    क्षेत्रपालबलिर्भवेत् |
अङ्गुष्ठमध्यमाभ्याञ्च  राजराजेश्वरस्य च || ३२ ||
बटुकादीन्   समर्च्यैवं  कुलदीपान्  प्रदर्शयेत् | 
ईषद्रक्तसुपिष्टेन           चतुरङ्गुलिमानतः || ३३ ||
दीपान् डमरुकाकारान् त्रिकोणानतिशोभनान् | 
कर्षाज्यग्राहिणः कुर्ययान्नव सप्ताथ  पञ्च  वा || ३४ ||
अन्तस्तेजो   बहिस्तेज  एकीकृत्यामितप्रभान् | 
त्रिधा देव्युपरि  भ्राम्य  कुलदीपान्  निवेदयेत् || ३५ ||
समस्तचक्रचक्रेशि    देवेशि   सकलात्मिके | 
आरात्रीकमिदं  देवि  गृहाण  मम    सिद्धये | 
कुलदीपान्  प्रदर्श्याथ  शक्तिपूजां समाचरेत् || ३६ ||
स्वशक्तिं वीरशक्तिं  वा दीक्षितां  गुरुमार्गतः | 
पाययित्वा चरेत् पानमिति शास्त्रस्य निश्चयः || ३७ ||
अदीक्षितां स्त्रियं कुर्यात् सद्यः संस्कारमम्बिके | 
मन्त्रदीक्षाविधानेन्   शुद्धा    भवति   नान्यथा || ३८ ||
तस्मात् सुलक्षणां शक्तिं गन्धपुष्पाक्षतादिभिः | 
अभ्यर्च्य  देवताबुद्ध्या  भोगपात्रं   निवेदयेत् || ३९ ||
तदन्ते    कन्यकाश्चापि   प्रमदाश्च   मनोहराः | 
सम्पूज्य देवताबुद्ध्या दद्यात् पात्रं पृथक् पृथक् || ४० ||
अनिवेद्य तु यः शक्त्यै कुलद्रव्यं  निषेवते | 
पूजितं  निष्फलं तस्य  देवता  न प्रसीदति || ४१ ||
चण्डाली चर्मकारी च मातङ्गी पुक्कसी  तथा | 
श्वपची  खट्टकी चैव  कैवर्त्ती  विश्वयोषितः || ४२ ||
कुलाष्टकमिदं         प्रोक्तमकुलाष्टकमुच्यते | 
कन्दुकी शौण्डिकी चैव शस्त्रजीवी च रञ्जकी || ४३ ||
गायकी रजकी शिल्पी कौलिकी च तथाष्टमी | 
तन्त्रमन्त्रसमायुक्ता          समयाचारपालिका || ४४ ||
कुमारी  च  व्रतस्था  च  योगमुद्राधरापि  वा | 
पूजाकाले स्वतः प्राप्ता सा ज्ञेया सहजा बुधैः || ४५ ||
उक्तजात्यङ्गनाभावे   चातुर्वर्ण्याङ्गनां   यजेत् | 
सुरूपा  तरुणी  शान्ता  कुलाचारयुता शुचिः || ४६ ||
शङ्काहीना भक्तियुक्ता  गूढा  शास्त्रोपजीविनी | 
अलोलुपा सुशीला च स्मितास्या प्रियवादिनी || ४७ ||
गुरुदैवतसम्भक्ता    सुचिता   कौलिकप्रिया | 
विमत्सरा     विशेषज्ञा   देवताराधनोत्सुका | 
मनोहरा   सदाचारा   शक्तिरेषा   सुलक्षणा || ४८ ||
दुष्टोग्रा कर्कशा क्रूरा  दुःखिता कुलदूषणी | 
दुराचारा  पराधीना भीता  लुब्धातुराऽलसा || ४९ ||
निद्रासक्तातिदुर्म्मेधा  हीनाङ्गी  व्याधिपीडिता | 
दुर्गन्धा कुत्सिता मूढा वृद्धोन्मत्ता रहस्यभित् || ५० ||
कुतर्का कुत्सितालापा निर्लज्जा कलहप्रिया | 
विरूपोन्मार्गगा स्तब्धा  पङ्ग्वन्धविकृतानना | 
ईदृशीं  मन्त्रयुक्ताञ्च  शक्तिं  यागे विवर्जयेत् || ५१ ||
ततोऽर्चनादिकं   सर्वं  मन्त्रोदकपुरःसरम् | 
इतः पूर्वादिमनुना  मन्त्री  देव्यै  समर्पयेत् || ५२ ||
तारत्रयमितः   पूर्वं   प्राणबुद्धी   ततः  परम् | 
देहधर्माधिकारतो      जाग्रत्स्वप्नसुषुप्तिषु || ५३ ||
मनसा चेतसा वाचा  कर्मणा  तत्परं  वदेत् | 
हस्ताभ्याञ्च ततः पद्भयामुदरेण ततः परम् || ५४ ||
शिश्ना च यत् स्मृतं पश्चाद् यदुक्तं यत् कृतं वदेत् | 
तत्  सर्वं  गुरवे  चान्ते  मत्समपीतमस्त्विति | 
स्वाहान्तो  मनुरित्युक्तस्त्रिसप्तत्यक्षरः प्रिये || ५५ ||
ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे | 
तव  कृत्यमिदं सर्वमिति ज्ञात्वा क्षमस्व मे || ५६ ||
एवं सम्प्रार्थ्य देवेशि स्तुत्वा नत्वा च भक्तितः | 
प्रधानदेवतामूर्त्तौ   परिवारान्  समर्चयेत् | 
एवं सावरणां देवीं चिन्तयेत् स्वहृदम्बुजे || ५७ ||
शेषिकाये समर्प्यात्ममूलमन्त्रेण  शोधयेत् | 
स्याद्वाग्भवं   हृदुच्छिष्टचाण्डालि  तदनन्तरम् || ५८ ||
वदेन्मातङ्गि      सर्वन्ते    वश्यंकुरुयुगन्ततः | 
एकविंशतिवर्णैश्च        शेषिकामनुरीरितः || ५९ ||
मन्त्रेणानेन    निर्माल्यं    शेषिकायै   समर्पयेत् | 
देवीमुच्छिष्टमातङ्गीं ध्यायेत् त्रैलोक्यमोहिनीम् || ६० ||
वीणावाद्यविनोदगीतनिरतां नीलांशुकोल्लासिनीं 
बिम्बोष्ठीं नवयावकार्द्रचरणामाकीर्णकेशालकाम् | 
मृद्वङ्गीं सिंतशङ्खकुण्डलधरां माणिक्यभूषोज्ज्वलां 
मातङ्गीं प्रणतोऽस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ||६१|
ततः श्रीगुरुरूपाय साक्षात् परशिवाय च | 
कराभ्यां पात्रमुद्धृत्य सद्वितीयं समर्पयेत् || ६२ ||
स्वसम्प्रदायसंयुक्तैर्वीरैश्च  सह  पूजयेत् | 
अन्योन्यवन्दनं  कृत्वा  पिबेत्तत्तदनुज्ञया || ६३ ||
सव्येनोद्धृत्य पात्रन्तु मुद्रां कृत्वाऽपसव्यतः | 
यथाविधि  द्वितीयेन गृह्णीयान्मन्त्रमुच्चरन् || ६४ ||
पिशितं माषमात्रन्तु द्रव्यं  चुल्लुकसम्मितम् | 
आत्मदेहत्रयं  तत्त्वं  त्रयेणाथ  विशोधयेत् || ६५ ||
तरुणोल्लाससहितः     प्रसन्नवदनेक्षणः | 
गुरुः शिष्यान् समाहूय दद्यात्तत्त्वत्रयं प्रिये || ६६ ||
शिष्योपायनमादाय शुद्धात्मा कुसुमादिकम् | 
यथाशक्ति निवेद्याथ  वित्तशाठ्यविवजीतः || ६७ ||
प्रणम्य बहिरष्टाङ्गं  प्रविश्यान्तः शनैः प्रिये | 
समर्प्योपायनं  भक्त्या शिवाय गुरुरूपिणे || ६८ ||
ग्रथिताङ्गुष्ठकौ कृत्वा करौ सक्ताग्रतर्जनी | 
जानुभ्यामवनिं गत्वा पञ्चाङ्गं प्रणमेद् गुरुम् || ६९ ||
वामाऽङ्गुष्ठानामिकाभ्यां   दक्षहस्तप्रसारितम् | 
स्पृष्ट्वा     विशुद्धहृदय     ईषदानतमस्तकः || ७० ||
वामाङ्गुष्ठानामिकाभ्यां शिष्याय श्रीगुरुः प्रिये | 
प्रकृत्याद्यैः    पृथिव्यन्तैश्चतुवींशतिभिः   प्रिये || ७१ ||
स्वरैरशुद्धतत्त्वैश्च  वाग्भवेन कुलेश्वरि | 
संयुक्तेनात्मतत्त्वेन स्थूलदेहं विशोधयेत् || ७२ ||
मायादिपुरुषान्तैश्च   शुद्धाशुद्धैश्च  सप्तभिः | 
तत्त्वैः स्पर्शाह्वयैर्वर्णैः कामराजेन मन्त्रवित् | 
युक्तेन   विद्यातत्त्वेन   सूक्ष्मदेहं   विशोधयेत् || ७३ ||
शुद्धैः शिवादिविद्यान्तैः पञ्चतत्त्वैश्च व्यापकैः | 
परया   शिवतत्त्वेन   परं  देहं  विशोधयेत् || ७४ ||
षट्त्रिंशत्तत्त्वसहितमालिन्या बालया प्रिये | 
सर्वतत्त्वाश्रयं  बीजं  सर्वतत्त्वैवीशोधयेत् || ७५ ||
शोधयेति  पदं  दद्यात्   सद्वितीयमलिं   गुरुः | 
चुल्लुकं गुरुणा दत्तं शोधयामीति चोच्चरन् | 
भक्त्या चावनतः शिष्यो निःशब्दं त्रिः पिबेदलिम् || ७६ ||
पाणिभ्यां  संस्पृशेद्देहं  सर्वतत्त्वं  समुच्चरन् | 
शिरःप्रभृतिपादान्तं   शुद्धं   देहं   विचिन्तयेत् || ७७ ||
स्थूलान्तमात्मतत्त्वं स्यात् सूक्ष्मं विद्यान्तगोचरम् | 
परान्तं   शिवतत्त्वं  स्यादिति  तत्त्वत्रयं  जगत् || ७८ ||
एवं तत्त्वत्रयज्ञानं  गुरोर्ज्ञात्वा  य  आचरेत् | 
स जीवन्नेव मुक्तः स्यादिति शङ्करभाषितम् || ७९ ||
ततः स्वीकृत्य च गुरुः शिष्येभ्यः शेषदो भवेत् | 
आदाय गुरुणा दत्तं सद्वितीयासवं पिबेत् || ८० ||
श्रीगुरुज्येष्ठपूज्यानां     पुरतः    कुलनायिके | 
नोपविश्य पिबेन्मद्यं इति शास्त्रस्य निर्णयः || ८१ ||
प्राणभेदफलोल्लासप्रणामस्थितिलक्षणम् | 
अविज्ञायाचरेद् यस्तु स भवेदापदाम्पदम् || ८२ ||
निर्मन्त्रं  न   पिबेन्मद्यं  प्रायश्चित्तं  विधीयते | 
तस्मान्मन्त्रविधानेन  कर्तव्यं  कुलनायिके || ८३ ||
इदं   पवित्रममृतं   पिबामि   भवभेषजम् | 
पशुपाशसमुच्छेदकारणं       भैरवोदितम् || ८४ ||
चित्ते     स्वातन्त्र्यसारत्वात्तदानन्दमयात्मनः | 
तन्मयत्वाच्च भावानां भावाश्चान्तहीता रसे || ८५ ||
सुषुम्नान्तं   विकाशाय  सुरसस्तेन  पीयते | 
तस्मादिमां सुरां देवीं पूर्णोऽहं त्वां पिबाम्यहम् || ८६ ||
मन्त्रेणानेन   देवेशि   मूलमन्त्रेण  मन्त्रवित् | 
अनाकुलमनाः   कुर्यादलिपानं  शनैः  शनैः || ८७ ||
स्वात्ममूलत्रिकोणस्थे     कोटिसूर्यसमप्रभे | 
कुण्डल्याकृतिचिद्रूपे हुनेद् द्रव्यं समन्त्रकम् || ८८ ||
महन्तापात्रभरितमिदन्तापरमामृतम्      | 
पराहन्तामये वह्नौ होमस्वीकारलक्षणम् || ८९ ||
गुरुदैवतमन्त्राणामैक्यं सञ्चिन्तयेद्धिया | 
यावदुल्लासपर्यन्तमुपदेशे    पिबेन्मधु || ९० ||
चुल्लनं सिद्धिदं प्रोक्तं दीपो ज्ञानप्रदायकः | 
पानात् परपदप्राप्तिः कौले त्रयमितीरितम् || ९१ ||
भोजनान्ते बिषं मद्यं मद्यान्ते भोजनं विषम् | 
अमृतं   तद्विजानीयाद्   यदन्नं   सुरया   सह || ९२ ||
चर्वणेन   युतं   पानममृतं   कथितं   प्रिये | 
चर्वणेन  बिना  पानं  केवलं   विषवर्द्धनं || ९३ ||
पानञ्च त्रिविधं प्रोक्तं दिव्यवीरपशुक्रमात् | 
दिव्यं देव्यग्रतः पानं वीरं मुद्रासने कृतम् || ९४ ||
स्वेच्छया   पशुवत्पीतं  पशुपानमितीरितम् || ९५ ||
भुक्तिमुक्तिप्रदं दिव्यं वीरं भुक्तिप्रदं भवेत् | 
पशुपानं   नरकदं   प्रोक्तं  पानफलं   प्रिये || ९६ ||
दृष्टिमानसवाक्काये यावन्नो भवति भ्रमः | 
तावत् पानं  प्रकुर्वीत  पशुपानमतः  परम् || ९७ ||
यावन्नेन्द्रियवैकल्यं यावन्नो मुखवैकृतम् | 
तावदेव   पिबेन्मद्यमन्यथा  पतनं   भवेत् || ९८ ||
पूर्णाभिषेकयुक्तानां  पानं   देवि   निगद्यते | 
कराभ्यां पात्रमुद्धृत्य स्मरेन्मूलञ्च पादुकाम् | 
आगलान्तं पिबेद्द्रव्यं स मुक्तो नात्र संशयः || ९९ ||
पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले | 
उत्थाय च  पुनः पीत्वा  पुनर्जन्म  न  विद्यते || १०० ||
आनन्दात्तृप्यते देवी मूर्च्छया भैरवः स्वयम् | 
वमनात्   सर्वदेवाश्च   तस्मात्रिविधमाचरेत् || १०१ ||
दिव्यपानरतानां वै यत् सुखं कुलयोगिनाम् | 
तत् सुखं सार्वभौमस्य नृपस्यापि न विद्यते || १०२ ||
यत्   सुखं   कुलनिष्ठानां  कुलद्रव्यनिषेवनात् | 
तत् सौख्यमेव मोक्षः स्यात् सत्यमेव वरानने || १०३ ||
इति ते कथितं किञ्चित् वटुशक्त्यादिपूजनम् | 
समासेन  कुलेशानि किं  भूयः श्रोतुमिच्छसि || १०४ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
बटुकशक्त्यादिपूजनं नाम सप्तमोल्लासः || ७ ||


अथाष्टमोल्लासः 


श्रीदेव्युवाच
कुलेश  श्रोतुमिच्छामि करुणामृतवारिधे | 
उल्लासभेदं   देवेश   द्रव्यपात्रादिसङ्गमम् || १ ||
रत्युद्वासनकालञ्च  श्रीचक्रस्थितिमेव च | 
चेष्टां कौलिकशक्तीनां वद मे परमेश्वर || २ ||
ईश्वर उवाच 
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | 
तस्य  श्रवणमात्रेण  जायते  दिव्यभावना || ३ ||
आरम्भस्तरुणश्चैव  यौवनं  प्रौढमेव च | 
तदन्तश्चोन्मनाश्चैव ततोल्लासश्च सप्तमः || ४ ||
तत्त्वत्रयं स्यादारम्भः  कथितः कुलनायिके | 
कथितस्तरुणोल्लासस्तरुणं    सुखमम्बिके || ५ ||
यौवनं मनसः सम्यगुल्लासः सुस्थितिः प्रिये | 
स्खलनं   दृङ्मनोवाचां  प्रौढमित्यभिधीयते || ६ ||
समुल्लासपरे  चक्रे य  इच्छेत्  पात्रमेलनम् | 
अर्वाक् प्रौढसमुल्लासं नैव कुर्यात् कदाचन | 
यथाधिकारं  तत्रापि   कर्त्तव्यं  पात्रमेलनम् || ७ ||
अदीक्षितैरनाचारैरतन्त्रज्ञदैवतैः          | 
दूषकैः समयभ्रष्टैर्न कुर्याद् द्रव्यसङ्गतिम् || ८ ||
अभिज्ञं    मन्यमानैश्च   प्रपञ्चव्रतधारिभिः | 
पशुभिः क्षुद्रकर्मस्थैर्न कुर्याद् द्रव्यसङ्गतिम् || ९ ||
स्त्रीद्विष्टैर्गुरुभिः शप्तैर्भक्तिहीनैर्दुरात्मभिः | 
कुलोपदेशहीनैश्च न कुर्याद् द्रव्यसङ्गतिम् || १० ||
पदवाक्यप्रमाणज्ञाः  श्रुतिस्मृत्यर्थवेदिनः | 
कुलधर्मानभिज्ञाश्चेत्तत्सङ्गं    परिवर्जयेत् || ११ ||
सत्कुले च प्रसूता वा  वृद्धाश्चाचारवत्तीनः | 
त्वत्पूजाविमुखाः स्युश्चेत्तत्संसर्गं परित्यजेत् || १२ ||
स्त्रीपुत्रमित्रबन्धूनां स्निग्धानामपि पार्वति | 
कुलाचारानभिज्ञानां  सङ्गतिं वर्जयेत्प्रिये || १३ ||
अदृष्टपौरुषाणाञ्च    देशान्तरनिवासिनाम् | 
विना सङ्केतयोगेन न कुर्याद् द्रव्यसङ्गतिम् || १४ ||
एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः | 
मन्त्राः पराङ्मुखा यान्ति विघ्नश्चैव पदे पदे || १५ ||
स्वपात्रस्थितहेतुञ्च   न  दद्याद्भैरवाय च | 
यदि दद्यात्कुलेशानि देवताशापमाप्नुयात् || १६ ||
आसनं भोजनं पात्रमम्बरं शयनादिकम् | 
अनभिज्ञैरनर्हैश्च  सङ्गमं  नैव  कारयेत् || १७ ||
स्रोतोभेदेन वा कुर्यात्कौलिकः पात्रमेलनम् | 
पूर्वदक्षिणयोरैक्यमुदक्पश्चिमयोस्तथा      || १८ ||
तस्मिन्   क्रमार्चनपरैर्वीरैः   स्वसदृशैरपि | 
कामिनीभिश्च तत्कुर्यात् स्रोतसाञ्च चतुष्टये || १९ ||
योगिभिर्योगिनीभिश्च प्रदत्तं पूर्णपात्रकम् | 
स्वमातृपादुकामूलमन्त्रजप्तं    पिबेत्प्रिये || २० ||
क्वचित् यदृच्छया प्राप्तमलिपात्रन्तु भक्तितः | 
आदाय पूर्ववज्जप्त्वा  पिबेद्देवि  गुरुं  स्मरन् || २१ ||
गुरुशक्तिसुतानाञ्च       गुरुज्येष्ठकनिष्ठयोः | 
स्वज्येष्ठस्यापि चोच्छिष्टं खादेन्नान्यस्य पार्वति || २२ ||
शक्त्युच्छिष्टं पिबेद् द्रव्यं वीरोच्छिष्टञ्च चर्वणम् | 
आत्मोच्छिष्टं न  दातव्यं  परकीयं  न  भक्षयेत् || २३ ||
उच्छिष्टं भक्षयेत् स्त्रीणां ताभ्यो नोच्छिष्टमर्पयेत् | 
चक्रमध्येऽपि  देवेशि  अन्यथा  पतनं  भवेत् || २४ ||
कनिष्ठानां  स्वशिष्याणां  दद्यादुच्छिष्टमम्बिके | 
दद्यात् स्नेहेन योऽन्येभ्यः स भवेदापदाम्पदम् || २५ ||
आसवोच्छिष्टपात्रन्तु यो वा  गृह्णति  मोहतः | 
स्नेहाल्लोभात्  भयाद्वापि देवताशापमाप्नुयात् || २६ ||
प्रौढोल्लासे कुलेशानि कुर्याद्बलिविसर्जनम् | 
पूजागृहाद्बहिः  कुर्यात्त्रिकोणे  तु  गृहान्तरे || २७ ||
गन्धपुष्पाक्षतैः   पूज्य   ध्यायेदुच्छिष्टभैरवम् | 
गदात्रिशूलडमरुपात्रहस्तं         त्रिलोचनम् | 
कृष्णाभं  भैरवं  ध्यायेत् सर्वविघ्ननिवारणम् || २८ ||
तारत्रयं     समुच्चार्यं    पश्चादुच्छिष्टभैरवम् | 
एहियुग्मं बलिं गृह्णयुग्मं फट् च द्विठान्तकः || २९ ||
बल्युद्वासनमन्त्रोऽयं        द्वाविंशतिभिरक्षरैः | 
शान्तिस्तवं       पठेत्पश्चात्तर्पयेदलिबिन्दुभिः || ३० ||
	यजन्ति देव्यो हरपादपङ्कजम् 
		प्रसन्नधामामृतमोक्षदायकम् | 
	अनन्तसिद्धान्तमयप्रबोधकं 
		नमामि चाष्टाष्टकयोगिनीगणम् || ३१ ||
योगिनीचक्रमध्यस्थं मातृमण्डलवेष्टितम् | 
नमामि शिरसा नाथं भैरवं भैरवीप्रियम् || ३२ ||
अनादिघोरसंसारध्वान्तैकध्वंसकारिणे  | 
नमः श्रीनाथवैद्याय कुलौषधिविधायिने || ३३ ||
आपदो  दुरितं   रोगाः  समयाचारलंघनात् | 
ये ते सर्वे व्यपोहन्तु दिव्यचक्रस्य मेलनात् || ३४ ||
आयुरारोग्यमैश्वर्यं कीत्तीर्लाभः सुखं जयः | 
कान्तिर्मनोहरा चास्तु  पान्तु सर्वाश्च देवताः || ३५ ||
	सम्पूजकानां प्रतिपालकानां 
		यतीन्द्रयोगीन्द्रतपोधनानाम्      | 
	देशस्य राष्ट्रस्य कुलस्य राज्ञः 
		करोतु शान्ति भगवान् कुलेशः || ३६ ||
	नन्दन्तु साधककुलाद्वयदर्शका ये 
		सिंहासनाद्युषितशाक्तमहान्वया ये | 
	नन्दन्तु सर्वकुलकौलरताः परे ये 
		चान्ये विशेषपदभेदकशाम्भवा ये || ३७ ||
	नन्दन्तु सिद्धगुरवस्तदनुक्रमज्ञा 
		ज्येष्ठान्वया समयिनो वटुकाः कुमार्यः | 
	ये योगिनीप्रवरवीरकुले प्रसूता 
		नन्दन्तु भूमिपतिगोद्विजसाधुलोकाः || ३८ ||
	नन्दन्तु नीतिनिपुणा निरवद्यनिष्टा 
		निर्मत्सरा    निरुपमा   निरुपद्रवाश्च | 
	नित्यं निरञ्जनरता गुरवो निरीहाः 
		शान्ताश्च शान्तमनसो हृतशोकशङ्काः || ३९ ||
	नन्दन्तु योगनिरताः कुलयोगयुक्ता 
		ह्याचार्यसामयिकसाधकपुत्रकाश्च  | 
	गावो द्विजा युवतयो यतयः कुमार्यो 
		धर्मे चरन्तु निरता गुरुभक्तलोकाः || ४० ||
	नन्दन्तु साधककुला ह्यलमात्मनिष्ठाः 
		शापाः पतन्तु समयद्विषि योगिनीनाम् | 
	सा शाम्भवी स्फुरतु कापिं समाप्यवस्था 
		यस्यां   गुरोश्चरणपङ्कजमेव  सत्यम् || ४१ ||
याश्चक्रक्रमभूमिकावसतयो नाडीषु याः संस्थिता याः 
कायोद्गतरोमकूपनिलया याः संस्थिता धातुषु | 
उच्छ्वासोमीमरुत्तरङ्गनिलया निश्वासवासाश्च या-
स्ता देव्यो रिपुपक्षभक्षणरता नन्दन्तु कौलाचीताः || ४२ ||
या देव्यः कुलसम्भवाः क्षितिगता या देवतास्तोयगा 
या नित्यं प्रथितप्रभाः शिखिगता या मातरिश्वालयाः | 
या व्योमाहितमण्डलामृतमया याः सर्वगाः सर्वदा-
स्ताः सर्वाः कुलमार्गपालनपराः शान्ति प्रयच्छन्तु मे ||४३ ||
ऊर्ध्वे ब्रह्माण्डतो वा दिवि गगनतले भूतले वा तले वा 
पाताले वानले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा | 
क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन 
प्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः ||४४
ब्रह्मा श्रीः शेषदुर्गागुहवटुकगणा भैरवाः क्षेत्रपाद्या 
वेतालादित्यरुद्रग्रहवसुमनुसिद्धाप्सरोगुह्यकाद्याः | 
भूता गन्धर्वविद्याधरऋषिपितृयक्षासुराः किन्नराद्या 
योगीशाश्चारणाः किम्पुरुषमुनिवराश्चक्रगाः पान्तु सर्वे ||४५|
देहस्थाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा 
योगिन्यो वटुकाश्च यक्षपितरो भूताः पिशाचा ग्रहाः | 
अन्ये भूचरखेचरा दिशिचरा वेतालकाश्चेटका-
स्तृप्यन्तां कुलपुत्रकस्य पिबतः पानं सदीपञ्चरुम् || ४६ ||
सत्यञ्चेद् गुरुवाक्यमेव पितरो देवाश्च चेद् योगिनी 
प्रीता चेत् परदेवता यदि भवेद्वेदाः प्रमाणं हि चेत् | 
शाक्तेयं यदि दर्शनं भवति चेदाज्ञाप्यमोघापि चेत् 
सत्यञ्चापि च कौलधर्मपरमं स्यान्मे जयः सर्वदा || ४७ ||
नन्दन्तु  साधकाः  सर्वे   नश्यन्तु   कुलदूषकाः | 
अन्तःस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा || ४८ ||
यद्येषा  भैरवी  देवी  यदि  भैरवशासनम् | 
यद्येष कुलधर्मः स्यात्तदा नश्यन्तु दूषकाः || ४९ ||
यासामाज्ञाप्रभावेण    स्थापितं    भुवनत्रयम् | 
नमस्ताभ्यः समस्ताभ्यो योगिनीभ्यो निरन्तरम् || ५० ||
पिबन्तु मातरः सर्वाः पिबन्तु कुलसत्तमाः | 
पिबन्तु भैरवाः सर्वे मम देहे व्यवस्थिताः || ५१ ||
तृप्यन्तु मातरः सर्वाः समुद्राः सगणाधिपाः | 
योगिन्यः क्षेत्रपालाश्च मम देहे व्यवस्थिताः || ५२ ||
शिवाद्यवनिपर्यन्तं      ब्रह्मादिस्तम्बसंयुतम् | 
कालाग्न्यादिशिवान्तञ्च जगद् यज्ञेन तृप्यतु || ५३ ||
द्वारस्था मणिमण्डपस्य परितः श्रीनन्दने कानने 
शून्यागारविहारकन्दरमठे व्योम्नि श्मशाने स्थिताः | 
कूपस्थानगताश्चतुष्पथगताः सन्देशसंस्थाश्च ये 
पङ्कार्थावहकेतुमानकुसुमात् गृह्णन्तु ते पान्तु च || ५४ ||
पठित्वाभ्यर्चनापात्रं  समुद्धृत्य   गुरुः  प्रिये | 
ततो दद्यात् स्वशिष्याय प्रसादं कुलनायिके || ५५ ||
स्वाभीष्टचेष्टाचरणं  प्रौढान्तः परिकीत्तीतः | 
प्रौढान्तोल्लासिताद्देवि  मुदिते  योगिमण्डले | 
योगिनीमण्डले   चैव   क्रमादानन्दमुच्यते || ५६ ||
तदारूढेषु  वीरेषु  कार्याकार्यं  न  विद्यते | 
इच्छैव शास्त्रसम्पत्तिरित्याज्ञा परमेश्वरि || ५७ ||
तत्र यद् यत् कृतं कर्म शुभं वा यदि वाऽशुभम् | 
तत्सर्वं   देवताप्रीत्यै  जायते  सुरसुन्दरि || ५८ ||
जल्पो   जपफलं    तन्द्रा    समाधिरभिजायते | 
विक्रिया   पूजनं   देवि   उदितं   भैरवीबलिः || ५९ ||
मुक्तिः स्याच्छक्तिसंयोगः स्तोत्रं तत्कालभाषितम् | 
न्यासोऽवयवसंस्पर्शो भोजनं  हवनक्रिया || ६० ||
वीक्षणं ध्यानमीशानि शयनं वन्दनं भवेत् | 
तदुल्लासे कृता नाना या चेष्टा सा च सत्क्रिया | 
कार्याकार्यविचारन्तु  यः करोति  स  पातकी || ६१ ||
एतच्चक्रगता वीरा विज्ञेयाः परयोगिनः | 
येनाप्नुवन्ति मनुजाः साक्षाद्भैरवरूपताम् || ६२ ||
सम्मोदः   परमानन्दः  पतनं   ज्ञानवर्द्धनम् | 
वेणुवीणादिवाद्यञ्च   कवितारचनादिकम् || ६३ ||
रोदनं भाषणं  पातः समुत्थानं विजृम्भनम् | 
गमनं विक्रिया  देवि  योग  इत्यभिधीयते || ६४ ||
चक्रेऽस्मिन् योगिनो वीरा योगिन्यो मदमन्थराः | 
समाचरन्ति   देवेशि   यथोल्लासं   मनोगतम् || ६५ ||
शनैः पृच्छन्ति पार्श्वस्थान् विस्मृत्यात्मविवक्षितम् | 
निधाय  वदने  पात्रं   निवीण्णा  निवसन्ति  च || ६६ ||
मत्ता स्वपुरुषं मत्वा कान्तान्यमवलम्बते | 
तथैव  पुरुषश्चापि प्रौढान्तोल्लाससंयुतः || ६७ ||
पुरुषः     पुरुषं     मोहादालिङ्गत्यनाङ्गनाम् |
पृच्छति स्वपतिं मुग्धा कस्त्वं काहम् इमे च के || ६८ ||
किं कार्यं वयमायातः किमर्थमिह संस्थिताः | 
उद्यानं किमिदं हन्त  गृहं  किं  प्राङ्गणं किमु || ६९ ||
मुखे आपूर्य मदिरां पाययन्ति स्त्रियः प्रियान् | 
उपदंशं  मुखे  क्षिप्त्वा  निक्षिपन्ति  प्रियानने || ७० ||
गृह्णन्त्यन्योन्यपात्राणि व्यञ्जनानि च शाम्भवि | 
धृत्वा  शिरसि नृत्यन्ति मद्यभाण्डानि योगिनः || ७१ ||
अज्ञानकरतालान्तमस्पष्टाक्षरगीतकम्       | 
प्रस्खलत्पदविन्यासं  नृत्यन्ति  कुलशक्तयः || ७२ ||
योगिनो  मदमत्ताश्च  पतन्ति  प्रमदोरसि | 
मदाकुलाश्च योगिन्यः पतन्ति पुरुषोपरि || ७३ ||
मनोरथसुखं  पूर्णं  कुर्वन्ति  च  परस्परम् | 
इत्यादिविविधां चेष्टां कुर्वन्ति कुलनायिके || ७४ ||
विकृतिं मनसो  हित्वा यदोल्लासः प्रवर्त्तते | 
तदा  तु  देवताभावं  भजन्ते  योगिपुङ्गवाः || ७५ ||
कौलिकान् भैरवावेशान् यो वा निन्दति मूढधीः | 
तं   नाशयन्त्यसन्देहं   योगिन्यः   कुलनायिके || ७६ ||
न निन्देन्न हसेत् क्वापि चक्रे मधुमदालसान् | 
एतच्चक्रगतां  वार्त्तां   बहिर्नैव  प्रकाशयेत् || ७७ ||
तेभ्यो  द्रोहं  न  कुर्वीत नाहितञ्च  समाचरेत् | 
भक्त्या सत्कारयेदेतान् गोपयेच्च प्रयत्नतः || ७८ ||
चक्रे  मदाकुलान्  दृष्ट्वा  चिन्तयेद्देवताधिया | 
मोदते वन्दते भक्त्या स गच्छेत् योगिनीपदम् || ७९ ||
पश्यतेदेवम्विधं चक्रं यो भक्त्या कौलिकः प्रिये | 
व्रततीर्थतपोदानयज्ञकोटिफलं         लभेत् || ८० ||
उन्मनाः  पतनोत्थाने  मूर्च्छना  च  मुहुर्मुहुः | 
उन्मनाख्यतदुल्लासे   चक्रे   वीरसमचीते || ८१ ||
चिरं संविदधाते  तौ  यौ  हि  कर्मपराक्षरौ | 
परं ब्रह्मानुसन्धानाकाङ्क्षिणौ कुलनायिके || ८२ ||
देहेन्द्रियाणामवशः   समवस्था   निगद्यते | 
समवस्थामिधे तस्मिन् ततोल्लासे समं भवेत् || ८३ ||
परामन्त्रस्वरूपोऽसौ  जायते मूर्च्छना परा | 
मूर्च्छनासन्निकर्षो हि मूलमुक्तेः परं विदुः || ८४ ||
अन्तर्लक्ष्यो        बहिर्दृष्टिनीमेषोन्मेषवजीतः | 
एषा  तु  शाम्भवी  मुद्रा  सर्वतन्त्रेषु  गोपिता || ८५ ||
सर्वोत्तीर्णा   सदाऽहन्ता  सामरस्यसमाकृतिः | 
अनयोल्लासिनो वीराः शिवा एव न संशयः || ८६ ||
नराः किमपि जानन्ति स्वात्मध्यानपरायणाः | 
तदा यत्परमं  सौख्यमिति वक्तुं  न  शक्यते || ८७ ||
स्वयमेवानुभूयन्ते  शर्कराः   क्षीरपानवत् | 
ईदृशं तादृशं सौख्यमिति वक्तुं न शक्यते | 
दृश्यते  पुलकाद्येर्यत्  तद्ब्रह्मध्यानमुच्यते || ८८ ||
यत्सुखं  विद्यते  ध्याने  देवावेशकरं परम् | 
कथितुं नैव शक्नोमि  प्रबुद्धस्तत्समाहितः || ८९ ||
ब्रह्मध्यानपरानन्दपराः    सुकृतिनो   नराः | 
क्षणेऽप्यन्तहीते तस्मिन् शोचयन्ति हतप्रभाः || ९० ||
सप्तमोल्लासयुक्तानां त्वद्भक्तानां महाफलम् | 
अष्टौ त्रिकालज्ञानोत्थाः प्रत्ययाश्च कुलेश्वरि | 
अष्टावस्थाश्च  कम्पाद्या जायन्ते नात्र संशयः || ९१ ||
बहुनात्र   किमुक्तेन   अणिमाद्यष्टसिद्धयः | 
प्रतीहारि पदं प्राप्ताः सेवन्ते मन्दिरं चिरम् || ९२ ||
ये गुणाः परमेशस्य पञ्चवक्त्रतनोः शुभाः | 
ते  गुणाः  कुलतत्त्वज्ञे  तत्त्वज्ञानसमाहृताः || ९३ ||
आरम्भस्तरुणश्चैव   यौवनं  प्रौढमेव   च | 
तदन्तो जाग्रदित्युक्तश्चोन्मनाः स्वप्न उच्यते || ९४ ||
समवस्था  सुषुप्तिः  स्यादवस्थात्रयसंयुता | 
सप्तोल्लासञ्च यो वेत्ति स मुक्तः स च कौलिकः || ९५ ||
प्रवृत्ते   भैरवीचक्रे  सर्वे  वर्णा  द्विजातयः | 
निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् || ९६ ||
स्त्री वाथ  पुरुषः  षण्डश्चण्डालो  वा द्विजोत्तमः | 
चक्रेऽस्मिन्नैव भेदोऽस्ति सर्वे शिवसमाः स्मृताः || ९७ ||
नागरि  निर्झ्रराद्यम्बु गङ्गां प्राप्य  यथैकताम् | 
याति श्रीचक्रमध्येऽपि चैकत्वं सर्वमानवाः || ९८ ||
क्षीरेण सहितं तोयं  क्षीरमेव यथा  भवेत् | 
तथा श्रीचक्रमध्ये तु जातिभेदो न विद्यते || ९९ ||
स्वर्गादिपुण्यलोकेषु देवादन्यद् यथा नहि | 
तथैव चक्रमध्येऽपि देवताः सर्वमानवाः || १०० ||
जातिभेदो न चक्रेऽस्मिन् सर्वे शिवसमाः स्मृताः | 
वेदेऽपि  स्थितमेवं  हि  सर्वे  हि  ब्रह्म  चाब्रवीत् || १०१ ||
बहुनात्र किमुक्तेन  चक्रमध्ये  कुलेश्वरि | 
मद्रूपा पुरुषाः सर्वे त्वद्रूपाः प्रमदाः प्रिये || १०२ ||
चक्रमध्ये तु  मूढात्मा जातिभेदं करोति यः | 
तं भक्षयन्ति योगिन्यस्त्वां शपे कुलनायिके || १०३ ||
स्त्रीणामन्यतमं  स्थानं  पुंसामन्यतमं पृथक् | 
अथवा मिथुनं  कृत्वा  क्रमात्समुपवेशयेत् || १०४ ||
पङ्क्त्याकारेण वा सम्यक् चक्राकारेण वा प्रिये | 
शिवशक्तिधिया  सर्वे  चक्रमध्ये  समर्चयेत् || १०५ ||
अविभक्तौ  यथा आवां लक्ष्मीनारायणौ यथा | 
यथा वाणीविधातारौ तथा वीरः सशक्तिकः || १०६ ||
मधुकुम्भसहस्रैस्तु     मांसभारशतैरपि | 
न तुष्यामि वरारोहे भगलिङ्गामृतं विना || १०७ ||
न चक्राङ्कं  न  पद्माङ्कं  न  व्रजाङ्कमिदं जगत् | 
लिङ्गाङ्कञ्च भगाङ्कञ्च तस्माच्छक्तिशिवात्मकम् || १०८ ||
शिवशक्तिसमायोगो  यस्मिन्  काले  प्रजायते | 
सा सन्ध्या कुलनिष्ठानां समाधिः स विधीयते || १०९ ||
कामुको न स्त्रियं गच्छेद् यदीच्छन्तीमदीक्षिताम् | 
सद्यः संस्कारसंशुद्धां विहितत्वात् स्त्रियं व्रजेत् || ११० ||
इति   तत्त्वत्रयोल्लासपानभेदादि   चोदितम् | 
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि || १११ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये 
सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
तत्त्वत्रितयपानादिभेदकथनं नाम अष्टमोल्लासः || ८ ||




अथ नवमोल्लासः 

श्री देव्युवाच 
कुलेश श्रोतुमिच्छामि योगं योगीशलक्षणम्  |
कुलभक्त्यार्चनफलं  वद  मे  करुणानिधे  || १ ||
ईश्वर उवाच  
शृणु  देवि  प्रवक्ष्यामि  यन्मां त्वं परिपृच्छसि | 
तस्य  श्रवणमात्रेण  योगः साक्षात्  प्रकाशते || २ ||
ध्यानन्तु   द्विविधं   प्रोक्तं  स्थूलसूक्ष्मप्रभेदतः | 
साकारं  स्थूलमित्याहुनिराकारन्तु  सूक्ष्मकम् || ३ ||
स्थिरार्थमनसः  केचित्  स्थूलध्यानं  प्रचक्षते | 
स्थूलेऽपि निश्चलं चेतो भवेत् सूक्ष्मेऽपि निश्चलम् || ४ ||
करपादोदरास्यादिरहितं          परमेश्वरम् | 
सर्वतेजोमयं   ध्यायेत्  सच्चिदानन्दनिष्कलम् || ५ ||
नोदेति नास्तमभ्येति  न  वृद्धिं  याति  न क्षयम् | 
स्वयं विभात्यथान्यानि  भासयन् साधनं  विना || ६ ||
अनन्तं     गतभारूपं     सत्तामात्रमगोचरम् | 
मनसा   मात्रसम्वेद्यं   तज्ज्ञानं   ब्रह्मसंज्ञितम् || ७ ||
प्रणष्टवायुसञ्चारः   पाषाण   इव   निश्चलः | 
परजीवैकधामज्ञो     योगी    योगविदुच्यते || ८ ||
यदत्र  नात्र  निर्भासः स्तिमितोदधिवत् स्थितम् | 
स्वरूपशून्यं    तद्ध्यानं    समाधिरभिधीयते || ९ ||
न  किञ्चिच्चिन्तनादेव  स्वयं  तत्त्वं  प्रकाशते | 
स्वयं प्रकाशिते  तत्त्वे  तत्क्षणात्तन्मयो  भवेत् || १० ||
स्वप्नजाग्रदवस्थायां   सुप्तवत्   योऽवतिष्ठते | 
निश्वासोच्छ्वासहीनश्च  निश्चितं  मुक्त एव सः || ११ ||
निष्पन्दकरणग्रामः     स्वात्मलीनमनोऽनिलः | 
य आस्ते  मृतवत्साक्षात् जीवन्मुक्तः स उच्यते || १२ ||
न शृणोति  न चाघ्राति  न स्पृशति न पश्यति | 
न   जानाति   सुखं  दुःखं  न  सङ्कल्पयते  मनः || १३ ||
न चापि किञ्चिज्जानाति न च बुध्यति काष्ठवत् | 
एवं शिवे  विलीनात्मा  समाधिस्थ  इहोच्यते || १४ ||
यथा जले जलं  क्षिप्तं  क्षीरे  क्षीरं  घृते  घृतम् | 
अविशेषो        भवेत्तद्वज्जीवात्मपरमात्मनोः || १५ ||
यथा ध्यानस्य सामर्थ्यात् कीटोऽपि भ्रमरायते | 
तथा   समाधिसामर्थ्याद्   ब्रह्मभूतो  भवेन्नरः || १६ ||
क्षीरोद्धृतं   घृतं  यद्वत्तत्र  क्षिप्तं  न  पूर्ववत् | 
पृथक्कृतो  गुणेभ्यः  स्यादात्मा तद्वदिहोच्यते || १७ ||
यथा गाढान्धकारस्थो  न  किञ्चिदिह  पश्यति | 
अलक्ष्यञ्च  तथा  योगी  प्रपञ्चं  नैव  पश्यति || १८ ||
यथा  निमीलने  काले  प्रपञ्चं  नैव  पश्यति | 
तथैवोन्मीलनेऽपि  स्यादेतद्ध्यानस्य  लक्षणम् || १९ ||
जनः स्वदेहकण्डूतिं  विजानाति  यथा  तथा | 
परं  ब्रह्मस्वरूपी  च  वेत्ति  विश्वविचेष्टितम् || २० ||
विदिते   परमे   तत्त्वे  वर्णातीते   ह्यविक्रिये | 
किङ्करत्वं हि गच्छन्ति  मन्त्रा  मन्त्राधिपैः सह || २१ ||
आत्मैकभावनिष्ठस्य या  या  चेष्टा  तदर्चनम् | 
यो यो जल्पः स सन्मन्त्रस्तद्ध्यानं यन्निरीक्षणम् || २२ ||
देहाभिमाने   गलिते    विज्ञाते    परमात्मनि | 
यत्र   यत्र  मनो  याति  तत्र  तत्र  समाधयः || २३ ||
भिद्यते     हृदयग्रन्थिश्छिद्यन्ते    सर्वसंशयाः | 
क्षीयन्ते चास्य कर्माणि तस्मिन्  दृष्टे परात्मनि || २४ ||
योगीन्द्रेण  यदा  प्राप्तं  निर्मलं  परमं  पदम् | 
देवासुरपदं     यत्तत्प्राप्तञ्चापि   न    गृह्यते || २५ ||
यः पश्येत् सर्वगं शान्तमानन्दात्मकमव्ययम् | 
तस्य  किञ्चिदनालभ्यं  ज्ञातव्यं नावशिष्यते || २६ ||
सम्प्राप्ते ज्ञानविज्ञाने  ज्ञेये  च  हृदि  संस्थिते | 
लब्धे  शान्तिपदे  देवि  न योगो नैव धारणा || २७ ||
परे  ब्रह्मणि   विज्ञाते   समस्तैनीयमैरलम् | 
तालवृन्तेन किं  कार्यं  लब्धे  मलयमारुते || २८ ||
आसिकाबन्धनं नास्ति नासिकाबन्धनं न हि | 
न यमो नियमो नास्ति स्वयमोमिति पश्यताम् || २९ ||
न   पद्मासनतो  योगो  न  नासाग्रनिरीक्षणम् | 
एक्यं  जीवात्मनोराहुर्योगं  योगविशारदाः || ३० ||
ध्यायतां  क्षणमात्रं हि  श्रद्धया  परमन्त्विह | 
यद्भवेत् सुमहत् पुण्यं तस्यान्तो नैव गण्यते || ३१ ||
क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् | 
स सर्वं पातकं  हन्यात्तमः  सूर्योदयो यथा || ३२ ||
व्रतक्रतुतपस्तीर्थदानदेवार्चनादिषु	 | 
यत् फलं कोटिगुणितं तदवाप्नोति तत्त्ववित्	 || ३३ ||
उत्तमा   सहजावस्था   मध्यमा  ध्यानधारणा | 
जपस्तुतिः   स्यादधमा   होमपूजाऽधमाधमा || ३४ ||
उत्तमा तत्त्वचिन्ता स्याज्जपचिन्ता तु मध्यमा | 
शास्त्रचिन्ताऽधमा ज्ञेया लोकचिन्ताऽधमाधमा || ३५ ||
पूजाकोटिसमं  स्तोत्रं स्तोत्रकोटिसमो  जपः | 
जपकोटिसमं  ध्यानं  ध्यानकोटिसमो  लयः || ३६ ||
न हि ध्यानात् परो मन्त्रो न देवस्त्वात्मनः परः | 
नानुसन्धात् परा पूजा न  हि तृप्तेः परं फलम् || ३७ ||
अक्रियैव परा  पूजा  मौनमेव  परो  जपः | 
अचिन्तेव  परं  ध्यानमनिच्छैव  परं फलम् || ३८ ||
मन्त्रोदकैवीना सन्ध्यां  पूजाहोमैवीना  तपः | 
उपचारैवीना  पूजां  योगी नित्यं समाचरेत् || ३९ ||
निःसङ्गश्च  विसङ्गश्च  निस्तीर्णोपाधिवासनः | 
निजस्वरूपनिर्मग्नः  स  योगी परतत्त्ववित् || ४० ||
देहो देवालयो  देवि  जीवो देवः सदाशिवः | 
त्यजेदज्ञाननिर्माल्यं   सोऽहम्भावेन   पूजयेत् || ४१ ||
जीवः शिवः शिवो जीवः स जीवः केवलः शिवः | 
पाशबद्धः  स्मृतो  जीवः पाशमुक्तः सदाशिवः || ४२ ||
तुषेण  बद्धो  व्रीहिः स्यात्तुषाभावे  हि  तण्डुलः | 
कर्मबद्धः  स्मृतो  जीवः  कर्ममुक्तः सदाशिवः || ४३ ||
अग्नी तिष्ठति विप्राणां हृदि देवो मनीषिणाम् | 
प्रतिमास्वप्रबुद्धानां   सर्वत्र  विदितात्मनाम् || ४४ ||
यो   निन्दास्तुतिशीतोष्णसुखदुःखारिबन्धुषु | 
सम  आस्ते  स योगीन्द्रो हर्षाहर्षविवजीतः || ४५ ||
निस्पृहो  नित्यसन्तुष्टः समदर्शी  जितेन्द्रियः | 
आस्ते   देहे  प्रवासीव  योगी  परमतत्त्ववित् || ४६ ||
निःसङ्कल्पो निवीकल्पो निलीप्तोपाधिवासनः | 
निजस्वरूपनिर्मग्नः स  योगी  परतत्त्ववित् || ४७ ||
यथा   पङ्ग्वन्धबधिरक्लीबोन्मत्तजडादयः	 | 
निवसन्ति कुलेशानि तथा योगी च तत्त्ववित्	 || ४८ ||
पञ्चमुद्रासमुत्पन्नपरमानन्दनिर्भरः | 
य आस्ते स तु योगीन्द्रः पश्यत्यात्मानमात्मनि || ४९ ||
अलिमांसाङ्गनासङ्गे  यत्  सुखं  जायते  प्रिये | 
तदेव  मोक्षो  विदुषामबुधानान्तु   पातकम् || ५० ||
सदा मांसासवोल्लासी सदा चरणचिन्तकः | 
सदासंशयहीनो  यः  कुलयोगी  स उच्यते || ५१ ||
पिबन्मद्यं पलं खादन्  स्वेच्छाचारपरायणः | 
अहं  तदनयोरैक्यं  भावयन्निवसेत्  सुखी || ५२ ||
आमिषासवसौरभ्यहीनं  यस्य   मुखं  भवेत् | 
प्रायश्चित्ती  स  वर्ज्यश्च  पशुरेव  न  संशयः || ५३ ||
यावदासवगन्धः स्यात् पशुः पशुपतिः स्वयम् | 
विनालिमांसगन्धेन  साक्षात्  पशुपतिः पशुः || ५४ ||
लोके निकृष्टमुत्कृष्टं लोकोत्कृष्टं निकृष्टकम् | 
कुलमार्ग   समुद्दिष्टं   भैरवेण    महात्मना || ५५ ||
अनाचारः   सदाचारस्त्वकार्य   कार्यमुत्तमम् | 
असत्यमपि सत्यं स्यात् कौलिकानां कुलेश्वरि || ५६ ||
अपेयमपि    पेयं  स्यादभक्ष्यं  भक्ष्यमेव   च | 
अगम्यमपि गम्यं स्यात् कौलिकानां कुलेश्वरि || ५७ ||
न विधिर्न निषेधः स्यान्न पुण्यं न च पातकम् | 
न स्वर्गो नैव नरकं कौलिकानां कुलेश्वरि || ५८ ||
अनभिज्ञा  अभिज्ञन्ति  दरिद्रा  धनयन्ति  च | 
विनष्टा अपि वर्द्धन्ते कौलिकाः कुलनायिके || ५९ ||
रिपवश्चापि  मित्रन्ति  साक्षाद्दासन्ति  भूमिपाः | 
बान्धवन्ति जनाः सर्वे कौलिकानां कुलेश्वरि || ६० ||
विमुखाः सुमुखाः सर्वे  गवीताः प्रणयन्ति  च | 
बाधकाः साधकायन्ते कौलिकानां कुलेश्वरि || ६१ ||
निर्गुणाः  सगुणायन्ते   अकुलं  सुकुलायते | 
अधर्माश्चापि धर्मन्ति  कौलिकानां  कुलेश्वरि || ६२ ||
मृत्युर्वैद्यायते देवि  साक्षात्  स्वर्गायते  गृहम् | 
पुण्यायन्तेऽङ्गनासङ्गाः कौलिकानां कुलेश्वरि || ६३ ||
बहुनात्र   किमुक्तेन  कुलयोगीश्वराः  प्रिये | 
सदा सङ्कल्पसिद्धाः स्युर्नात्र कार्या विचारणा || ६४ ||
येन  केनापि  वेशेन  येन  केनाप्यलक्षितः | 
यत्र कुत्राश्रमे  तिष्ठेत् कुलयोगी कुलेश्वरि || ६५ ||
योगिनो  विविधैर्वेशैर्नराणां   हितकारिणः | 
भ्रमन्ति     पृथिवीमेतामविज्ञातस्वरूपिणः || ६६ ||
सकृन्नैवात्मविज्ञानं क्षपयन्ति कुलेश्वरि | 
उन्मत्तमूकजडवन्निवसेल्लोकमध्यतः || ६७ ||
अलक्ष्यो हि यथा लोके व्योम्नि चन्द्रार्कयोगतः | 
नक्षत्राणां  ग्रहाणाञ्च  तथा वृत्तन्तु  योगिनाम् || ६८ ||
आकाशे पक्षिणां देवि जलेऽपि जलचारिणाम्	 | 
यथा  गतिर्न  दृश्येत  तथा  वृत्तं  हि  योगिनाम् || ६९ ||
असन्त इव भाषन्ते  चरन्त्यज्ञा  इव  प्रिये | 
पामरा इव दृश्यन्ते कुलयोग  विशारदाः || ७० ||
जना   यथावमन्यन्ते   गच्छेयुर्नैव  सङ्गतिम् | 
न किञ्चिदपि भाषन्ते तथा  योगी प्रवर्त्तते || ७१ ||
मुक्तोऽपि बालवत् क्रीडेत् कुलेशो जडवच्चरेत् | 
वदेदुन्मत्तवद्विद्वान्   कुलयोगी  महेश्वरि || ७२ ||
यथा हसति लोकोऽयं जुगुप्सति च कुत्सति | 
विलोक्य दूरतो याति तथा योगी प्रवर्त्तते || ७३ ||
क्वचिच्छिष्टः क्वचिद्भ्रष्टः क्वचिद् भूतपिशाचवत् | 
नानावेशधरो        योगी       विचरेज्जगतीतले || ७४ ||
योगी  लोकोपकाराय भोगान् भुङ्क्ते  न कांङ्क्षया | 
अनुगृह्णन्   जनान्  सर्वान्  क्रीडेच्च  पृथिवीतले || ७५ ||
सर्वशोषी  यथा  सूर्यः  सवभोगी   यथाऽनलः | 
योगी भुक्त्वाखिलान् भोगान् तथा पापैर्न लिप्यते || ७६ ||
सर्वस्पर्शी  यथा  वायुर्यथाकाशश्च  सर्वगः | 
सर्वे यथा नदीस्नातास्तथा योगी सदा शुचिः || ७७ ||
यथा  ग्रामगतं  तोयं  नदीयुक्तं  भवेच्छुचि | 
तथा  म्लेच्छगृहान्नादि  योगिहस्तापीतं शुचि || ७८ ||
यथाऽऽचरन्ति  देवेशि  कुलज्ञानविशारदाः | 
तदेव विदुषां मान्यमात्मनो हितकाङ्क्षिणाम् || ७९ ||
यस्मिंश्चरन्ति योगीशाः सा मार्गः परमो मतः | 
यस्यामुदेति सूर्यो  हि  पूर्वाशा  सा निगद्यते || ८० ||
यत्र यत्र गजो  याति तत्र मार्गो यथा भवेत् | 
कुलयोगी वरेद् यत्र स स मार्गः कुलेश्वरि || ८१ ||
नदीं वक्रामृजुं  कर्त्तुं  निरोद्धुं  तत्प्रवाहकम् | 
स्वेच्छाविहारिणं शान्तं को वा वारयितुं क्षमः || ८२ ||
यद्वन्मन्त्रबलोपेतः    क्रीडनीयैर्न    दृश्यते | 
तद्वन्न  दृश्यते  ज्ञानी   क्रीडन्निन्द्रियपन्नगैः || ८३ ||
निवृत्तदुःखसन्तुष्टा   निर्द्वन्द्वा   गतमत्सराः | 
कुलज्ञानरताः शान्तास्त्वद्भक्तास्ते च कौलिकाः || ८४ ||
अमदक्रोधदम्भाशाहङ्काराः    सत्यवादिनः | 
कौलिकेन्द्रा  ह्यचपला ये नेन्द्रियवशानुगाः || ८५ ||
कीर्त्त्यमाने कुले येषां रोमाञ्चो गद्गदस्वरः | 
आनन्दाश्रु पतेद्देवि कथिताः कौलिकोत्तमाः || ८६ ||
सर्वधर्माधिको  लोके  कुलधर्मः  शिवोदितः | 
इति ते निश्चितधियः प्रोक्तास्ते कौलिकोत्तमाः || ८७ ||
यो भवेत् कुलतत्त्वज्ञः कुलशास्त्रविशारदः | 
कुलार्चनरतः स स्यात् कौलिको नापरः प्रिये || ८८ ||
कुलभक्तान्  कुलज्ञानान्  कुलाचारकुलव्रतान् | 
प्रीतो भवति यो दृष्ट्वा कौलिकः स च मे प्रियः || ८९ ||
तत्त्वत्रयश्रीचरणमूलमन्त्रार्थतत्त्ववित् | 
देवतागुरुभक्ताश्च कौलिकः स्याच्च दीक्षया || ९० ||
दुर्लभं   सर्वलोकेषु   कुलाचार्यस्य   दर्शनम् | 
सुपाकेनैव  पुण्यानां  लभ्यते  नान्यथा  प्रिये || ९१ ||
संस्मृतः कीत्तीतो दृष्टो वन्दिनो भाषितोऽपि वा | 
पुनाति    कुलधमीष्ठश्चाण्डालोऽपि  यदृच्छया || ९२ ||
सर्वज्ञो वापि मूर्खो वाप्युत्तमो वाऽधमोऽपि वा | 
यत्र  देवि  कुलज्ञानी  तत्राहञ्च   त्वया  सह || ९३ ||
नाहं वसामि  कैलासे न  मेरौ  न च मन्दिरे | 
कुलज्ञा यत्र तिष्ठन्ति तत्र तिष्ठामि भामिनि || ९४ ||
सुदूरमपि  गन्तव्यं   यत्र  माहेश्वरो  जनः | 
द्रष्टव्यञ्च  प्रयत्नेन  तत्र  सन्निहितो  ह्यहम् || ९५ ||
अतिदूरस्थितो  वापि  द्रष्टव्यः कुलदेशिकः | 
समीपे  वर्त्तमानोऽपि न  द्रष्टव्यः पशुः प्रिये || ९६ ||
कुलज्ञानी वसेद् यत्र स देशः पुण्यभाक् ततः | 
दर्शनादर्चनात्तस्य          त्रिसप्तकुलमुद्धरेत् || ९७ ||
कुलज्ञानिनमालोक्य स्वसन्तानगृहे स्थितम् | 
शंसन्ति पितरस्तस्य यास्यामः परमां गतिम् || ९८ ||
समाश्वसन्ति  पितरः सुवृष्टिमिव कर्षकाः | 
योऽस्मत्कुलेषु पुत्रो वा पौत्रो वा कौलिको भवेत् || ९९ ||
स धन्यः खलु लोकेऽस्मिन् पुरुषः क्षीणकल्मषः | 
यत्समीपं समायान्ति कुलाचार्या मुदा प्रिये || १०० ||
कौलिकेन्द्रे समायाते  कौलिकावसथं  प्रति | 
समायान्ति मुदा देवि योगिन्यो योगिभिः सह || १०१ ||
प्रविश्य  कुलयोगीन्द्रं  भणन्ते   पितृदेवताः | 
तस्मात् सम्पूजयेद्भक्त्या कुलज्ञानपरायणान् || १०२ ||
अभ्यर्चयित्वा त्वां देवि त्वद्भक्तान्नार्चयन्ति ये | 
पापिष्ठास्त्वत्प्रसादस्य  भाजनं न भवन्ति  ते || १०३ ||
नैवेद्यं पुरतो न्यस्तं दर्शनात् स्वीकृतं त्वया | 
रसान् भक्तस्य जिह्वाग्रादश्नामि कमलेक्षणे || १०४ ||
त्वद्भक्तपूजनाद्देवि   पूजितोऽहं   न  संशयः | 
तस्मान्मम प्रियाकाङ्क्षी त्वद्भक्तानेव पूजयेत् || १०५ ||
यत्  कृतं   कुलनिष्ठानां  तद्देवानां  कृतं  भवेत् | 
सुराः कुलप्रियाः सर्वे तस्मात् कौलिकमर्चयेत् || १०६ ||
न  तुष्याम्यहमन्यत्र   तथा  भक्त्या  सुपूजितः | 
कौलिकेन्द्रेऽचीते सम्यक् यथा तुष्यामि पार्वति || १०७ ||
यत् फलं  कौलिकेन्द्राणां  पूजया लभते प्रिये | 
तत्      फलं    नाप्नुयात्तीर्थतपोदानमखव्रतैः || १०८ ||
दत्तमिष्टं   हुतं   तप्तं    पूजितं   जप्तमम्बिके | 
कौलिकस्य  भवेद्वयर्थं  कुलज्ञं  योऽवमानयेत् || १०९ ||
श्मशानं तद्  गृहं  देवि स  पापी  श्वपचाधमः | 
यः प्रविश्य कुलं धर्म कुलाचारं न वेत्ति चेत् || ११० ||
कुलनिष्ठान्  परित्यज्य  यच्चान्यस्मै  प्रदीयते | 
तद्दानं  निष्फलं  देवि  दाता    च  नरकं  व्रजेत् || १११ ||
भिन्नभाण्डे  जलं  यद्वत् शिलायामुप्तबीजवत् | 
भस्मनीव    हुतं    हव्यं   तद्वद्दानमकौलिके || ११२ ||
यथाशक्त्या तु यत् किञ्चिद् यो दद्यात् कुलयोगिने |
विशेषतिथिषु  प्रीत्या  तत्फलं  नैव  वर्ण्यते || ११३ ||
यो  देवि स्वयमाहूय  कुलज्ञानान् शुभे दिने | 
अभ्यर्च्य   देवताबुद्ध्या  गन्धपुष्पाक्षतादिभिः || ११४ ||
मादिभिः पञ्चमुद्राभिः सद्भक्त्या परितोषयेत् | 
तेषु   तुष्टेष्वहं  तुष्टस्तुष्टाः  स्युः  सर्वदेवताः || ११५ ||
भगिनीं वा सुतां भार्यां यो दद्यात् कुलयोगिने | 
मधुमत्ताय  देवेशि  तस्य  पुण्यं  न   गण्यते || ११६ ||
अनिखातविनिक्षिप्तमप्रयत्नेन       वद्धीतम् | 
परलोकस्य   पाथेयं  वीरचक्रेऽपीतं  मधु || ११७ ||
पापाचारसमायुक्तं     सर्वलोकबहिष्कृतम् | 
जायते हि  कुलद्रव्यं कुलयोगीश्वरापीतम् || ११८ ||
यस्मिन्  देशे  वसेत्  वीरः  कुलपूजारतः  प्रिये | 
सोऽपि देशो भवेत् पूतः किं पुनस्तत्पुरस्थिताः || ११९ ||
कौलिकेन्द्रे सकृद्भुक्ते पुण्यं कोटिगुणं भवेत् | 
किं  पुनर्बहुभिर्भुक्तैस्तत्  पुण्यं   नैव   गण्यते || १२० ||
तस्मात्  सर्वप्रयत्नेन  सर्वावस्थासु  सर्वदा | 
कुलधर्मरतो   भूयात्   कुलज्ञानिनमर्चयेत् || १२१ ||
ज्ञानिनोऽज्ञानिनो वापि यावत् देहस्य धारणा | 
तावद्वर्णाश्रमाचारः    कर्त्तव्यः   कर्ममुक्तये || १२२ ||
कर्मणोन्मूलितेऽज्ञाने ज्ञानेन  शिवतां  व्रजेत् | 
शिवे तेनैव मुक्तिः स्यादतः कर्म समाचरेत् || १२३ ||
कुर्यादनिन्द्यकर्माणि  नित्यकर्माणि  वा   चरेत् | 
कर्ममुक्तः सुखाकाङ्क्षी कर्मनिष्ठः सुखं व्रजेत् || १२४ ||
सर्वकर्माणि  संत्यक्तुं न  शक्यं  देहधारिणा | 
त्यजेत् कर्मफलं यो वा स त्यागीत्यभिधीयते || १२५ ||
स्वकार्येषु  प्रवर्त्तन्ते  करणानीति  चिन्तयेत् | 
अहम्भावमपास्यैव यः कुर्यात् स न लिप्यते || १२६ ||
क्रियमाणानि कर्माणि ज्ञानप्राप्तेरनन्तरम् | 
न च स्पृशन्ति तत्त्वज्ञं जलं पद्मदलं यथा || १२७ ||
तन्निष्ठस्य च कर्माणि पुण्यापुण्यानि संक्षयम् | 
प्रयान्ति नैव लिप्यन्ते  क्रियमाणानि  वा पुनः || १२८ ||
उत्पन्नसहजानन्दतत्त्वज्ञानरतः           प्रिये | 
संत्यक्तसर्वसङ्कल्पः स विद्वान् कर्म सन्त्यजेत् || १२९ ||
वृथैव  यैः  परित्यक्तं  कर्मकाण्डमपण्डितैः | 
पाषण्डाः पण्डितम्मन्यास्ते यान्ति नरकं प्रिये || १३० ||
फलं प्राप्य यथा वृक्षः पुष्पं त्यजति निस्पृहः | 
तत्त्वं प्राप्य तथा योगी त्यजेत् कर्मपरिग्रहम् || १३१ ||
अश्वमेधायुतेनापि     ब्रह्महत्यायुतेन    च | 
पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम् || १३२ ||
पृथिव्यां यानि कर्माणि जिह्वोपस्थनिमित्ततः | 
जिह्वोपस्थपरित्यागी कर्मणा किं करिष्यति || १३३ ||
इति ते कथितं किञ्चित् योगं योगीशलक्षणम् | 
समासेन  कुलेशानि  किं  भूयः श्रोतुमिच्छसि || १३४ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
योगसंस्थापनकथनं नाम नवमोल्लासः || ९ ||




अथ दशमोल्लासः 

श्री देव्युवाच
कुलेश श्रोतुमिच्छामि विशेषदिवसार्चनम् | 
तत्सपर्याफलं  देव  वद   मे  परमेश्वर || १ ||
ईश्वर उवाच 
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | 
तस्य   श्रवणमात्रेण  सर्वपापैः   प्रमुच्यते || २ ||
उत्तमा नित्यपूजा स्यात् मध्यमं पर्वपूजनम् | 
मासपूजाऽधमा  देवि मासादूर्ध्व पशुर्भवेत् || ३ ||
विहितैर्मादिभिर्द्रव्यैर्मासादूर्ध्वं    समर्चनम् | 
पशोर्भूयः प्रवेशेच्छा यदि स्याद्दीक्षयेत् पुनः || ४ ||
मद्यं  मांसञ्च  मत्स्यश्च  मुद्रा  मैथुनमेव च | 
मकारपञ्चकं   देवि  देवताप्रीतिकारकम् || ५ ||
मादिपञ्चकमीशानि   देवताप्रीतये   सुधीः | 
यथाविधि निषेवेत तृष्णया चेत् स पातकी || ६ ||
कृष्णाष्टमीचतुर्द्दश्यावमावास्याथ   पूणीमा | 
संक्रान्तिः पञ्च  पर्वाणि तेषु पुण्यदिनेषु च || ७ ||
गुरुजन्मदिने   प्राप्ते   तद्गुरोस्तद्गुरोरपि | 
मानवौघादिपुंसाञ्च   स्वजन्मदिवसे   तथा || ८ ||
सम्पत्तौ च यजेल्लाभे तपोदीक्षाव्रतोत्सवे | 
पीठोपगमने    वीरपीठे    स्वजनदर्शने || ९ ||
देशिकागमने       पुण्यतीर्थदैवतदर्शने | 
एवमादिषु   देवेशि  विशेषदिवसेषु   च || १० ||
यथाधनं यथाश्रद्धं  यथाद्रव्यं यथोचितम् | 
यथाकालं यथादेशं तथा पूजां समाचरेत् || ११ ||
आचार्येण  विधानेन  कारयेच्चक्रपूजनम् | 
स्वयं  वा  पूजयेद्देवि  बिन्दुपूजापुरःसरम् || १२ ||
स  ते  लोकमवाप्नोति  पुनरावृत्तिवजीतम् | 
अकुर्वन् कौलिको मोहाद्देवताशापमाप्नुयात् || १३ ||
मासे वापि त्रिमासे वा षण्मासे वत्सरेऽपि वा | 
श्रीगुरुं पूजयेद्भक्त्याऽप्राप्ते तत्स्त्रीसुतादिकान् || १४ ||
तदभावे कुलज्ञञ्च तच्छिष्यं वान्ययोगिनम् | 
सन्तोषयेत् कुलद्रव्यैः कुलपूजापुरःसरम् || १५ ||
रोगेष्वापत्सु दोषेषु दुःसङ्गे दुनीमित्तके | 
पूजयेद् योगिनीवृन्दं देवि तद्दोषशान्तये || १६ ||
यत्रैकाम्नायतत्त्वज्ञः कुलाचार्यः  कुलेश्वरि | 
कौलिकास्त्रिचतुःपञ्च शक्तयश्च तथा प्रिये || १७ ||
पृथग्वा  पूजयेद्देवि  मिथुनाकारतोऽपि वा | 
गन्धपुष्पाक्षताद्यैस्तु  देवेशि  समलङ्कृताः | 
भक्ष्यभोज्यादिपिशितैः पदार्थैः षड्रसान्वितैः || १८ ||
प्रौढोल्लासेन सहिता यदि ता निवसन्ति च | 
तच्छ्रीचक्रमिति  प्रोक्तं  वृन्दञ्चापि तदुच्यते || १९ ||
कुर्यान्नवकुमारीणां    पूजामाश्विनमासके | 
प्रातनीमन्त्रयेद्भक्त्या  साधकः शुद्धमानसः || २० ||
मनोहरामेकवर्षी    बालाञ्च    शुभलक्षणाम् | 
मन्त्री स्नात्वाथ शुद्धात्मा कुर्याद्देवि क्रमार्चनम् || २१ ||
अभ्यङ्गस्नानशुद्धान्तां     पूजासदनमानयेत् | 
देवतासन्निधौ   बालामुपवेश्य   समर्चयेत् || २२ ||
गन्धपुष्पादिभिर्धूपैर्दीपैश्च      कुलदीपकैः | 
भोग्यभोज्यान्नपानाद्यैः क्षीराज्यमधुमांसकैः | 
कदलीनारिकेलादिफलैस्तां    परितोषयेत् || २३ ||
सशक्तिकः स्वयं  देवि  प्रौढान्तोल्लाससंयुतः | 
यथाशक्ति   जपेदेकोत्तरवृद्ध्याऽथवा   मनुम् || २४ ||
बालामलङ्कृतां पश्यन् चिन्तयेत् स्वेष्टदेवताम् | 
ततस्तां   देवताबुद्ध्या  नमस्कृत्य  विसर्जयेत् || २५ ||
द्वितीयायां   द्विवर्षान्तामेकवर्षाञ्च  पूजयेत् | 
एवं तिथौ कुमारीञ्च यजेत् पूर्वदिनाचीताम् || २६ ||
नवम्यामेकवर्षादि-नववर्षान्तकन्यकाः       | 
बाला शुद्धा च ललिता मालिनी च वसुन्धरा | 
सरस्वती  रमा गौरी दुर्गा च नव  कीत्तीताः || २७ ||
त्रिताराद्यैर्नमोऽन्तैश्च         देवतापदपश्चिमैः | 
नामभिश्च चतुर्थ्यन्तैः पूजयेत्ताः पृथक् पृथक् || २८ ||
बटुकं  पञ्चवर्षञ्च  नववर्षं  गणेश्वरम् | 
गन्धपुष्पाम्बराकल्पैर्यथाविभवविस्तरैः || २९ ||
अभ्यर्च्य  देवताबुद्ध्या  पदार्थैः परितोषयेत् | 
स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवजीतः || ३० ||
नवरात्रं  जपेदेकोत्तरवृद्ध्या क्रमेण च | 
नवरात्रकृतां पूजां देवि देव्यै समर्पयेत् || ३१ ||
ताम्बूलं दक्षिणां दत्त्वा कुमारीस्ता विसर्जयेत् | 
एवं     नवकुमारीणामर्चनं    प्रातवत्सरम् || ३२ ||
यः करोति स पुण्यात्मा देवताप्रीतिमाप्नुयात् | 
मनोऽभिलाषं  सम्प्राप्य  निवसेत्तव  सन्निधौ || ३३ ||
अथवा  यौवनारूढाः  प्रमदा नव पार्वति | 
मनोज्ञाः पूजयेद्भक्त्या नवरात्रिषु मन्त्रवित् || ३४ ||
हृल्लेखां गगनां रक्तां महोच्छुष्मां करालिकाम् | 
इच्छां ज्ञानां  क्रियां दुर्गां  बटुकञ्च गणेश्वरम् | 
पूर्ववत्   पूर्वमद्याद्यैः   पदार्थैः   परितोषयेत् || ३५ ||
प्रौढान्तोल्लाससंयुक्ताः सन्तुष्टा यदि ताः प्रिये | 
साधकस्तुष्टिमासाद्य    निवसेत्तव   सन्निधौ || ३६ ||
एवं    यः   पूजयेद्देवि   प्रतिवर्षं   यतव्रतः | 
षण्मासे वा त्रिमासे वा मासे मासेऽथवा प्रिये || ३७ ||
तिस्रो  वा  पञ्च वा  सप्त  पूजयेद्देवताधिया | 
सर्वैश्वर्यसमृद्धात्मा  स  भवेदावयोः  प्रियः || ३८ ||
भृगुवारे  कुलेशानि  कान्तामारूढयौवनाम् | 
सर्वलक्षणसम्पन्नामनुकूलां       मनोरमाम् || ३९ ||
कुलाकुलाष्टकां देवि निमन्त्र्याहूय पुष्पिणीम् | 
अभ्यङ्गस्नानशुद्धाङ्गीमासने     चोपवेशयेत् || ४० ||
गन्धपुष्पाम्बराकल्पैरलङ्कृत्य विधानवित् | 
आत्मानं गन्धपुष्पाद्यैरलङ्कुर्यात् कुलेश्वरि || ४१ ||
आवाह्य देवतां तस्यां यजेन्न्यासक्रमेण च | 
कृत्वा क्रमार्चनं धूपदीपाञ्च कुलदीपकान् || ४२ ||
प्रदर्श्य देवताबुद्ध्या पदार्थैः  षड्रसान्वितैः | 
मांसादिभक्ष्यभोज्याद्यैस्तोषयेद्देवि भक्तितः || ४३ ||
प्रौढान्तोल्लाससहितां तां प्रपश्यन् जपेन्मनुम् | 
यौवनोल्लाससहितः  स्वयं  तद्ध्यानतत्परः || ४४ ||
निवीकारेण   चित्तेन  ह्यष्टोत्तरसहस्रकम् | 
जपादिकं समर्प्याथ तया सह निशां नयेत् || ४५ ||
त्रिपञ्चसप्तनवसु   भृगुवारेषु  यः  प्रिये | 
पूजयेद्विधिनाऽनेन तस्य पुण्यं न गण्यते || ४६ ||
चतुः पीठार्चनफलं  स  प्राप्नोति  कुलेश्वरि | 
यद् यत् स्वमनसोऽभीष्टं तत्तदाप्नोत्यसंशयम् || ४७ ||
नवम्यां वार्चयेदेवं  विधानेन विधानवित् | 
स्तोत्रैः संपूजयेत् सर्वैर्महदैश्वर्यमाप्नुयात् || ४८ ||
कुर्यात् कर्कटके वापि मकरे मिथुनार्चनम् | 
तुलायां  सिंहमेषे वा  सर्वसंक्रान्तिषु  प्रिये || ४९ ||
गौरीशिवौ   रमाविष्णू  वाणीसरसिजासनौ | 
शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी || ५० ||
भद्रकालीवीरभद्रौ         भैरवीभैरवावपि | 
मिथुनानि   नवाभ्यर्च्य   पूर्वोक्तेनैव  वर्त्मना || ५१ ||
त्रितारादिनमोऽन्तेन  तत्तन्नाम्ना विधानवित् | 
गन्धपुष्पादिभिः पूज्य मद्याद्यैः परितोषयेत् || ५२ ||
प्रौढान्तोल्लासयुक्तानि कुर्वीत मिथुनानि च | 
एवं  कृते   न  सन्देहस्तुष्टा  मिथुनदेवताः | 
अनुगृह्णन्ति तं  देवि प्रयच्छन्ति मनोरथम् || ५३ ||
प्रतिवर्षन्तु यः कुर्यात् सभक्त्या मिथुनार्चनम् | 
तव लोके  स  निवसेत्  सर्वैश्वर्यसमन्वितः || ५४ ||
अथ  वैशाखमासस्य  शुक्लप्रतिपदीश्वरि | 
ब्राह्मे मुहूर्त्ते उत्थाय स्नानं सन्ध्यामुपास्य च || ५५ ||
मनोज्ञे रहसि  स्थाने  पूर्वाशाभिमुखस्थितः | 
आत्मानं गन्धपुष्पाद्यैरलङ्कृत्य विधानवित् || ५६ ||
कृत्वा पुरोदितन्यासान् देवताभावमास्थितः | 
किञ्चिदभ्युदिते  सूर्ये  मण्डले  स्वेष्टदेवताम् || ५७ ||
ध्यात्वा सावरणां सम्यक् पूजयेद्विधिना प्रिये | 
षोडशैरुपचारैस्तु         चक्रपूजापुरःसरम् || ५८ ||
कुलदीपान्  प्रदर्श्याथ   शिवाय   गुरुरूपिणे | 
मत्स्यमांसादि  विधिवद्भक्ष्य  भोज्यसमन्वितम् || ५९ ||
अर्घ्यं निवेद्य तच्छेषं स्वयं भक्त्या पिबेत् प्रिये | 
यौवनोल्लाससहितो    निवीकारेण   चेतसा || ६० ||
ध्यायंस्तन्मण्डलं   देवीमष्टोत्तरसहस्रकम् | 
जप्त्वा समर्प्य तत्पूजां देवताञ्च समुद्धरेत् || ६१ ||
एवं   शुक्लप्रतिपदं  समारभ्य  दिने  दिने | 
कुर्याज्जपार्चनं     कृष्णचतुर्द्दश्यन्तमम्बिके || ६२ ||
अमावस्यादिने देवि पूजयेच्छक्तिकौलिकान् | 
त्रिपञ्चसप्त   नव  वा  वित्तलोभविवजीतः || ६३ ||
एवं यो मासमात्रन्तु कुर्यात् सूर्योदयार्चनम् | 
देवता तस्य सन्तुष्टा ददाति फलमीप्सितम् || ६४ ||
माध्याह्ने  चार्चयेद्देवं  सायाह्ने  चार्चयेत् प्रिये | 
स तु तत्फलमाप्नोति योगिनीनां प्रियो भवेत् || ६५ ||
त्रिसन्धां   योऽर्चयेदेवं  मासमात्रं  विधानवित् | 
काङ्क्षितां लभते सिद्धिं देववद् विचरेद् भुवि || ६६ ||
माघशुक्लप्रतिपदि         दिवाहारविवजीतः | 
स्नात्वा शुक्लाम्बरधरः सायं सन्ध्यामुपास्य च || ६७ ||
सूर्यार्चनोक्तमार्गेण     सर्वद्रव्यसमन्वितः | 
यौवनोल्लाससहितश्चन्द्रस्थां देवतां स्मरन् || ६८ ||
चन्द्रास्तमयपर्यन्तं       जपेन्मन्त्रनन्यधीः | 
एवं   प्रतिदिनं  शुक्लचतुर्द्दश्यन्तमर्चयेत् || ६९ ||
पौर्णमास्यां यथाशक्त्या पूजयेच्छक्तिकौलिकान् | 
एवं यः कुरुते भक्त्या शुक्लपक्षार्चनं प्रिये || ७० ||
सर्व    पापविशुद्धात्मा   सर्वैश्वर्यसमन्वितः | 
सर्वलोकैकसंपूज्यः    शिववन्निवसेद् भुवि || ७१ ||
शुक्लपक्षेऽर्चनं    यद्वत्तद्वत्   पक्षे   सितेतरे | 
यः करोति विधानेन सर्वान् कामान् समश्नुते || ७२ ||
इह भुक्त्वाऽखिलान् भोगान् देववत् प्रियदर्शनः | 
योगिनीवीरमेलनं    लभते   नात्र   संशयः || ७३ ||
अथ कात्तीकमासस्य शुक्लप्रतिपदीश्वरि | 
स्नात्वाचम्य विशुद्धात्मा न्यासान् कृत्वा पुरोदितान् || ७४ ||
प्रसुप्ते जीवलोके तु मुदितात्मा  महानिशि | 
पूर्वार्चनोक्त   विधिना  सर्वद्रव्यसमन्वितः || ७५ ||
आज्येनानामिकास्थूलवत्तीं प्रज्वाल्य पार्वति | 
पञ्चवर्णरजश्चित्रवसुपत्रसरोरुहे            || ७६ ||
मधुपूर्णे   च  कलसे  कांस्यपात्रे  मनोहरे | 
दीपं  संस्थाप्य  पुरत  उत्तराभिमुखस्थितः || ७७ ||
दीपे सावरणां देवीं ध्यात्वा विधिवदर्चयेत् | 
यौवनोल्लाससहितो दीपस्थां देवतां स्मरन् || ७८ ||
अष्टोत्तरसहस्रन्तु       जपेन्मन्त्रमनन्यधीः | 
एवं   समर्चयेत्  कृष्णचतुर्द्दश्यन्तमम्बिके || ७९ ||
अमावास्यादिने भक्त्या पूजयेच्छक्तिकौलिकान् | 
एवं   कृते   कुलेशानि  देवता  प्रीतिमाप्नुयात् || ८० ||
सर्वकामसमृद्धात्मा      सर्वैश्वर्यसमन्वितः | 
सर्वलोकैकसम्मान्यः सञ्चरेत् स यथासुखम् || ८१ ||
अष्टाष्टकार्चनं  कुर्यात्   शक्तश्चेदेकवासरे | 
अथवाष्टाष्टदिवसेष्वथ    द्व्यष्टदिनेषु    च | 
द्वात्रिंशद्दिवसेष्वेवं    चतुःषष्टिदिनेषु    च || ८२ ||
गुरुणा  कारयेद्देवि   क्रमज्ञेनापरेण   वा | 
क्रमज्ञश्चेत् स्वयं कुर्याद्वित्तशाठ्यविवजीतः || ८३ ||
मूलाष्टकन्तु  ब्रह्माद्याश्चासिताङ्गादिभैरवाः | 
मङ्गलाद्यैश्च मिथुनैरष्टभिः शब्दिताः प्रिये || ८४ ||
मूलाष्टकोद्भवानीति प्रसिद्धानि कुलागमे | 
अक्षोभ्यादिचतुःषष्टिमिथुनानि समर्चयेत् || ८५ ||
पूर्वोक्तेन    विधानेन   यथाविभवविस्तरम् | 
क्रमलोपं  न  कुर्वीत  स्वेष्टकार्यार्थसिद्धये || ८६ ||
गन्धपुष्पाक्षताद्यैश्च    मत्स्यमांसासवादिभिः | 
भक्ष्यभोज्यादिभिर्नानापदार्थैः  षड्रसान्वितैः | 
सम्यक्  सन्तोषयेद्देवि  मिथुनान्यतिभक्तितः || ८७ ||
प्रौढान्तोल्लासपर्यन्तं कुर्यात् श्रीचक्रमम्बिके | 
एवं  यः कुरुते  देवि सकृदष्टाष्टकार्चनम् || ८८ ||
ब्रह्मविष्णुमहेशादिदेवताभिः   स   पूज्यते | 
किं पुनर्मानवाद्यैश्च साक्षात् शिव इवापरः || ८९ ||
यदर्चनाच्चतुःषष्टियोगिनीगणसंस्तुतः         | 
पुनरावृत्तिरहितो      निवसेत्तव     सन्निधौ || ९० ||
समस्तदेवताप्रीतिकारणं          परमेश्वरि | 
अस्मात् परतरा पूजा नास्ति सत्यं न संशयः || ९१ ||
पश्यदेवंविधं चक्रं यो भक्त्याष्टाष्टकं प्रिये | 
यज्ञदानतपस्तीर्थव्रतकोटिफलं       लभेत् || ९२ ||
राजा यः कारयेद्देवि भक्त्याष्टाष्टकपूजनम् | 
चतुःसागरपर्यन्तां  महीं  शास्ति न संशयः || ९३ ||
श्रीकण्ठादीनि  पञ्चाशन्मिथुनानि समर्चयेत् | 
पूर्वोक्तेन विधानेन  कुलेश्वरि विधानवित् || ९४ ||
स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवजीतः | 
प्रौढान्तोल्लासयुक्तानि मिथुनानि समर्चयेत् || ९५ ||
सन्तुष्टानि प्रयच्छन्ति साधकायेप्सितं फलम् | 
अव्याहताज्ञः  सर्वत्र   पूज्यते देववत् प्रिये | 
तव   लोके  वसेद्देवि   ब्रह्मादिसुरसंस्तुतः || ९६ ||
केशवादि गणेशादि कामादि  मिथुनानि  च | 
श्रीकण्ठादि समभ्यर्च्य तत्फलं लभते ध्रुवम् || ९७ ||
अनुग्रहन्तु यः कुर्यात् डाकिन्यादिसमर्चने | 
मासे मासेऽथवा वर्षे स्वजन्मदिवसे प्रिये || ९८ ||
पूर्वोक्तेन   विधानेन  यथाविभवविस्तरम् | 
प्रौढान्तोल्लासपर्यन्तं   तोषयेत्तद्विधानवित् || ९९ ||
कुर्वन्त्यनुग्रहं  देवि  सन्तुष्टाः  सर्वदेवताः | 
सर्वोपद्रव    रहितः  सर्वैश्वर्यसमन्वितः || १०० ||
लोकेऽस्मिन् संस्तुतः सर्वैः स जीवेच्छरदां शतम् | 
देहान्ते  समवाप्नोति  तव  लोकं  न  संशयः || १०१ ||
दूतीयागन्तु यः कुर्यात् पूर्वोक्तविधिना प्रिये | 
निवीकल्पेन   चित्तेन   नवशक्तिसमन्वितः || १०२ ||
वर्षे   वर्षे  चतुःषष्टिपीठार्चनफलं   लभेत् | 
आज्ञासिद्धिर्भवेत्तस्य   देवताप्रीतिमाप्नुयात् || १०३ ||
त्रिकपूजान्तु यः कुर्यादिच्छाज्ञानक्रियात्मिकाम् | 
आगमोक्तेत     विधिना    पूर्ववेत्तद्विधानवित् || १०४ ||
पदार्थैस्तोषयेत्   सम्यक्  यथाविभवविस्तरम् | 
सन्तुष्टा    देवतास्तिस्रः    सर्वकर्मफलप्रदाः | 
देवेशि  साधकाभीष्टं  प्रयच्छन्ति  न  संशयः || १०५ ||
इत्यादिदेवतापूजां     विशेषदिवसेषु   यः | 
करोति शस्त्रविधिना स भवेदावयोः प्रियः || १०६ ||
श्रीचक्रं  कौलिको   मोहाद्विशेषदिवसेषु  यः | 
न करोति समर्थः सन् स भवेद् योगिनीपशुः || १०७ ||
कुलपूजां विना  चक्रे  नाधिकारः कथञ्चन | 
कुलपूजां सुनियतं यः करोति स कौलिकः || १०८ ||
विना  मन्त्रेण  पूजा  चेद्देवता  न  प्रसीदति | 
कुलपूजां सुनियतं यः करोति हि कौलिकः | 
कुलेशि   सर्वदाप्नोति   योगिनीवीरमेलनम् || १०९ ||
नीचोऽपि वा सकृद्भक्त्या कारयेद् यः कुलार्चनम् | 
स सद्गतिमवाप्नोति किमुतान्ये द्विजातयः || ११० ||
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा | 
कुलपूजारतो    भूयादभीष्टफलसिद्धये || १११ ||
कुलपूजाधिको यज्ञः कुलपूजाधिकं व्रतम् | 
कुलपूजाधिकं  तीर्थं  कुलपूजाधिकं तपः || ११२ ||
कुलपूजाधिकं दानं  कुलपूजाधिका क्रिया | 
कुलपूजाधिकं ज्ञानं कुलपूजाधिकं  सुखम् || ११३ ||
कुलपूजाधिको धर्मः कुलपूजाधिकं फलम् | 
कुलपूजाधिकं  ध्यानं कुलपूजाधिकं  महः || ११४ ||
कुलपूजाधिको योगः कुलपूजाधिका गतिः | 
कुलपूजाधिकं भाग्यं कुलपूजाधिकाऽर्चना || ११५ ||
नास्ति नास्ति पुनर्नास्ति त्वां शपे कुलनायिके | 
बहुनात्र   किमुक्तेन   रहस्यं   शृणु  पार्वति || ११६ ||
वेदशास्त्रोक्तमार्गेण   कुलपूजां  करोति  यः | 
तत्समीपे स्थितं मां त्वां विद्धि नान्यत्र भामिनी | 
इदं  सत्यमिदं  सत्यं सत्यं  सत्यं  न  संशयः || ११७ ||
खभूमिदिग्जलगिरिवनसर्वचराः    प्रिये | 
सहस्रकोटियोगिन्यस्तावन्तो  भैरवा अपि | 
नियुक्ता हि मया देवि कुलसंरक्षणाय च || ११८ ||
दिवसे  दिवसे  सर्वे  पार्वति मुदिताननाः | 
साधकानेव वीक्षन्ते स्वस्वपूजनलिप्सया || ११९ ||
अपूजितास्तु  विघ्नन्ति  पालयन्ति  सुपूजिताः | 
गुरुभक्तान् सदाचारान् गुह्यधर्मान् सदाशिवान् || १२० ||
भक्तिहीनान् दुराचारान् नाशयन्ति प्रकाशकान् | 
श्रीचक्रे  संस्मरेत्तस्माद्  योगिनीभैरवान्  प्रिये || १२१ ||
न स्मरेद् यदि मूढात्मा योगिनीनां भवेत् पशुः | 
तस्मात्  श्रीचक्रमध्ये तु संस्मरेत्  सर्वदेवताः || १२२ ||
अनुगृह्णन्ति  देवेशि साधकान्  नात्र संशयः | 
अनुग्रहन्तु  वक्ष्यामि  शृणु  देवि  यथाक्रमम् || १२३ ||
आत्मनोऽनुग्रहार्थं   वा  परार्थं  श्रेष्ठमुत्तमम् | 
शुचिद्रव्यसमायुक्तं      चक्रपूजासमन्वितम् || १२४ ||
सर्वेषां दक्षिणां दत्त्वा होमपात्रं पृथक पृथक् | 
प्रपूजयेच्च    वर्णस्थाः  सर्वाभरणभूषिताः || १२५ ||
हर्षानन्दस्वयंयुक्ताः प्रसन्नाश्च पृथक् पृथक् | 
पायसाज्यौदनैर्युक्तैर्नैवेद्यैर्भक्तिसंयुतैः       || १२६ ||
गन्धपुष्पादिभिः सम्यगर्चयित्वा गणेश्वरम् | 
हसख फ्रें हेसौं(ह्सौं) डां डीं डमलवरयूं ततः || १२७ ||
श्रीपादुकां हेसौ(ह्सौ)मिति च हसखफ्रें पुटन्ततः | 
सङ्कल्प्य   मनसोऽभीष्टं  मधुरत्रितयः  प्रिये || १२८ ||
गन्धपुष्पादिभिः सम्यगर्चयित्वा पृथक् पृथक् | 
पूजयित्वेप्सितान् कामान् प्रार्थयेत् कमलानने || १२९ ||
ईप्सितानि च सर्वाणि साधको  लभते  वरम् | 
आत्मनश्च  परस्यापि रक्षार्थं पूजयेत् प्रिये || १३० ||
रोगाणां  नाशनार्थञ्च  यथात्र  पुत्रसिद्धये | 
वश्यार्थं  मङ्गलार्थञ्च   धर्मकर्मार्थसिद्धये || १३१ ||
सप्ताहं   पूजयेद्देवि  चतुर्द्दशदिनानि   च | 
एकविंशदिनान्यत्र  लभते चेप्सितं फलम् || १३२ ||
दक्षिणाञ्च  पृथग् दद्याद्वस्त्रभूषाङ्गुरीयकम् | 
कुलाष्टकसमायुक्तं    चतुःषष्टिसमन्वितम् || १३३ ||
अचीतञ्च   प्रयत्नेन   सिद्धिर्भवत्यनेकशः | 
वित्तशाठ्यं न कुर्वीत यदीच्छेत् सिद्धिमात्मनः || १३४ ||
एवं  षट्कं  समाख्यातमनुग्रहं   वरानने | 
अचीतव्यं प्रयत्नेन साधकैः स्वेष्टसिद्धये || १३५ ||
ध्यात्वैव पूजयेदेता डाकिन्याद्या वरानने | 
संपूज्य सप्तमीं देवीं पूजयेत् सर्वसिद्धये || १३६ ||
शक्तिदेहसमुत्पन्नं     शक्तिनिर्माल्यभोजने | 
स्ववर्गेण   समायुक्ता  दत्तनिर्माल्यमित्यपि | 
प्रतिगृह्णयुगं स्वाहा इति निर्माल्यसर्जनम् || १३७ ||
डाकिनी सर्पवदना वित्तजा ज्वलनप्रभा | 
कमण्डलुं कर्त्तृकाञ्च धारयन्ती वरप्रदा || १३८ ||
उलूकवदना देवी राकिणी नीलसन्निभा | 
खड्गखेटकसंयुक्ता  सर्वालङ्कारभूषिता || १३९ ||
लाकिनी श्रीकपालाढ्या पाशांकुशधरा सती | 
पाटलीपुष्पसङ्काशा        सर्वाभरणभूषिता || १४० ||
काकिनी हयवक्त्रा च माणिक्यसदृशप्रभा | 
त्रिमुखीं  मुण्डसंयुक्ता  सिद्धिदा सर्वशोभना || १४१ ||
शाकिनी त्वञ्जनप्रख्या मार्जारास्या सुशोभना | 
कुलिशञ्च तथा दण्डं  धारयन्ति  शुचिस्मिता || १४२ ||
हाकिनी ऋक्षवदना  नीलनीरदसन्निभा | 
कपालशूलहस्ता च खेटकैरुपशोभिता | 
एकद्वित्रिचतुःपञ्चषण्मुखा  सरभाभया || १४३ ||
इति  ते  कथितं  किञ्चिद्विशेषदिवसार्चनम् | 
समासेन कुलेशानि किम्भूयः श्रोतुमिच्छसि || १४४ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
विशेषदिवसार्चनं नाम दशमोल्लासः || १० ||


अथैकादशोल्लासः 


श्री देव्युवाच
कुलेश  श्रोतुमिच्छामि  सर्वलोकैकपूजित | 
कुलाचारक्रमं  देव  वद  मे करुणानिधे || १ ||
ईश्वर उवाच 
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | 
तस्य  श्रवणमात्रेण   पशुपाशैः  प्रमुच्यते || २ ||
यदि चेद्दीक्षितो ज्येष्ठः कुलपूजादिवजीतः | 
तत्कनिष्ठः क्रमज्ञश्चेत् कुलपूजां समाचरेत् || ३ ||
तत्समीपं  ततो  गत्वा नमस्कृत्य गुरुं यथा | 
तस्मै निवेद्य तत्सर्वं  शेष  भुञ्जीत  पार्वती || ४ ||
पूजामध्ये  गुरौ ज्येष्ठे पूज्ये  वापि समागते | 
नत्वा  ब्रूयात्   स्थितं  शिष्टमाचरेत्तदनुज्ञया || ५ ||
ज्येष्ठस्य च कनिष्ठस्य शिष्यावेकत्र संस्थितौ | 
तत्र    पूर्ववदाचारः  कथितः   कुलनायिके || ६ ||
अज्ञातकौलिके  प्राप्ते  पौर्वापर्यन्तु  चिन्तयेत् | 
स्मृत्वा स्वस्य गुरुं देवि स्वस्य मार्गेण तर्पयेत् || ७ ||
नित्यार्चनं   दिने   कुर्याद्रात्रौ  नैमित्तिकार्चनम् | 
उभयोः काम्यकर्माणि चेति शास्त्रस्य निर्णयः || ८ ||
अस्नात्वाऽनासनस्थो वा भुक्त्वा वा प्रलपन्नपि | 
गन्धपुष्पाक्षता         कल्पवस्त्राद्यैरनलंकृतः | 
अविन्यस्तशरीरो  वा  कुलपूजां  न  चाचरेत् || ९ ||
विना मन्त्रेण  या  पूजा  विना मांसेन तर्पणम् | 
विना शक्त्या तु यत्पानं निष्फलं कथितं प्रिये || १० ||
श्रीचक्रमेको  वा  कुर्यादेकपात्रन्तु  नार्चयेत् | 
नार्चयेदेकहस्तेन     न    पिबेदेकपाणिना || ११ ||
मत्स्यमांसासवैर्द्देवि  नार्चयेत्  पशुसन्निधौ | 
प्रणम्य प्रविशेच्चक्रं विनिर्गच्छेत्प्रणम्य च || १२ ||
श्रीचक्रे  नासने  तिष्ठेन्न  च  वीरासने   प्रिये | 
श्रीचक्रदर्शने    देवि   नेत्रयोः   पापनाशनम् | 
तन्नास्ति चेद् व्रणद्वन्द्वं कौलिकस्याक्षियुग्मकम् || १३ ||
अनाचारान् सदाचारान् चक्रस्थान् शक्तिकौलिकान् | 
शिवगौरीधिया    देवि   भावयेन्नावमानयेत् || १४ ||
कुलाचार्यगृहं  गत्वा  भक्त्या  पापविशुद्धये | 
याचेदमृतञ्चान्नञ्च    तदभावे   जलं   पिबेत् || १५ ||
कुलाचार्येण तच्छक्त्या  दत्तं पात्रञ्च भक्तितः | 
नमस्कृत्य  तु  गृह्णीयादन्यथा  नरकं व्रजेत् || १६ ||
अस्नात्वा वाप्यभक्त्या वा लोभाद्वापि कुलेश्वरि | 
यः  सेवेत   कुलद्रव्यं   दारिद्र्यं  समवाप्नुयात् || १७ ||
उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गणावृतः | 
व्यग्रो रुष्टो  विवादी च न सेवेत कुलामृतम् || १८ ||
योगामृतेन   निष्ठीवान्मद्यभाण्डपरिभ्रमात् | 
ऊर्ध्व नालेन पानाच्च देवताशापमाप्नुयात् || १९ ||
एकासने  निविष्टस्तु  भुञ्जानस्त्वेकभाजने | 
एकपात्रे  पिबेद्द्रव्यं  ते  यान्ति नरकं प्रिये || २० ||
यः  सेवेत  कुलद्रव्यमेकग्रामे  स्थिते  गुरौ | 
तत्कुलज्ञे  च  तत्पुत्रे  स्वजेष्ठे  कुलदेशिके | 
विनानुज्ञां  महेशानि  सोऽक्षयं नरकं व्रजेत् || २१ ||
उच्छिष्टो न स्पृशेच्चक्रे कुलद्रव्याणि पार्वति | 
बहिःप्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् || २२ ||
मद्यभाण्डं  समुधृत्च  न  पात्रं  पूरयेत् प्रिये | 
भोगपात्रं   सुराकुण्डे  निक्षिपेन्न  कदाचन || २३ ||
चक्रमध्ये   शुचिधिया  करप्रक्षालनादिकम् | 
यः करोति हि  मूढात्मा स भवेदापदाम्पदम् || २४ ||
निष्ठीवनं    मलं    मूत्रमधोवायुविसर्जनम् | 
श्रीचक्रमध्ये यः कुर्यात् स भवेद् योगिनीपशुः || २५ ||
चक्रमध्ये  घटे  भग्ने  पात्रे  च पतिते भुवि | 
दीपनाशे च शान्त्यर्थं श्रीचक्रं कारयेत् प्रिये || २६ ||
मत्ता जपन्ति ध्यायन्ति स्तुवन्ति प्रणमन्ति च | 
बोधयन्ति च पृच्छन्ति नन्दन्ति ज्ञानिनः प्रिये || २७ ||
मत्ता भ्रमन्ति गर्जन्ति  हसन्ति  विवदन्ति च | 
रुदन्ति स्त्रियमिच्छन्ति निन्दन्त्यज्ञानिनः प्रिये || २८ ||
परिहासं  प्रलापञ्च   वितण्डां  बहुभाषितम् | 
औदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् || २९ ||
पात्रहस्तो    महादेवि    न   भ्रमेच्चक्रमध्यतः | 
पूर्णपात्रं  करे  कृत्वा  न  तिष्ठेत्तु  चिरं  प्रिये || ३० ||
नालपेत् पात्रहस्तः सन् न भिन्द्यात् पात्रमम्बिके | 
पादाभ्यां न स्पृशेत् पात्रं  न  बिन्दुं  पातयेदधः || ३१ ||
नैकहस्तेन   दातव्यं   न   मुद्रावजीतं   प्रिये | 
पात्रं न चालयेत स्थानान्न कुर्यात् पात्रसङ्करम् || ३२ ||
सशब्दं  न  पिबेन्मद्यं  तथैव  न  च  पूरयेत् | 
नान्योन्यं   ताडयेत्पात्रं  तथा  न  पातयेदधः || ३३ ||
साधारं नोद्धरेत्  पात्रमनाधारे न निक्षिपेत् | 
रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये || ३४ ||
न पात्रं लंघयेद्धीमान् पात्रं नोत्पातयेत् प्रिये | 
प्रक्षाल्य गोपयेत्  पात्रमित्याज्ञा परमेश्वरि || ३५ ||
यदा  सन्दीपितोल्लासः कौलिकः पशुमीक्षते | 
पठेद्वा  पशुशास्त्राणि  सङ्गच्छेद्वा पशुस्त्रियम् || ३६ ||
कुर्यात् पशुप्रसङ्गं  वा पशुकार्याणि वा चरेत् | 
धर्मार्थायुर्यशःपुण्यमर्थसौख्यादि     नश्यति || ३७ ||
श्रीचक्रस्थं  कुलद्रव्यं  यः पशुभ्यः प्रयच्छति | 
स्नेहाल्लोभाद्भयाद्वापि  स भवेद् योगिनीपशुः || ३८ ||
रिपुणापि  न  कर्त्तव्यो  वाग्वादश्चक्रमध्यतः | 
पितृमातृसमं    पश्येत्तेनोक्तं   परुषं   सहेत् || ३९ ||
यथास्त्रीपुत्रमित्रादि  दृष्ट्वा  चेतः   प्रहृष्यति | 
तथा चेत् कौलिकान् दृष्ट्वा स भवेद् योगिनीप्रियः || ४० ||
ब्रह्मादिस्तम्बपर्यन्तं  यस्य  मे   गुरुसन्ततिः | 
यस्य मे सर्वशिष्यस्य को न पूज्यो महीतले | 
द्दति निश्चितबुद्धिर्यः  स  भवेदावयोः प्रियः || ४१ ||
अहं  गुरुरहं  ज्येष्ठस्त्वहं  वेद्मीति  गवीतः | 
अहमेव गतिर्येषां  कौलिका  न भवन्ति ते || ४२ ||
श्रीगुरुं कुलशास्त्राणि पूजास्थानानि यानि च | 
भक्त्या श्रीपूर्वकं देवि  प्रणम्य परिकीर्त्तयेत् || ४३ ||
गुरुं नाम्ना  न  भावेत  जपकालादृते  प्रिये | 
श्रीनाथ देव स्वामीति विवादे साधने वदेत् || ४४ ||
श्रीगुरोः  पादुकां  मुद्रां  मूलमन्त्रं  स्वपादुकाम् | 
शिष्यादन्यस्य देवेशि न वदेद् यस्य कस्यचित् || ४५ ||
पारम्पर्यागमाम्नायं   मन्त्राचारादिकं   प्रिये | 
सर्व गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा || ४६ ||
श्रीशास्त्राश्रयमूलञ्च  पुस्तकं  न वदेत् प्रिये | 
नित्यं समर्चयेद्भक्त्या पशुहस्ते न निक्षिपेत् || ४७ ||
स्वदारवन्निषेवेत   कुलशास्त्राणि  पार्वति | 
पशुशास्त्राणि सर्वाणि वर्जयेत् परदारवत् || ४८ ||
स्वचर्मस्थं  यथा  क्षीरमपेयं  स्याद् द्विजोत्तमैः | 
तथा पशुमुखाद्धर्मो न श्रोतव्यो हि कौलिकैः || ४९ ||
यः शृणोति कुलाचारं यथाशास्त्रञ्च यो वदेत् | 
तावुभौ गच्छतः  साक्षाद्  योगिनीवीरमेलनम् || ५० ||
अश्रद्धधाना ये चात्र कुलधर्मे कुलेश्वरि | 
नरकान्नो निवर्त्तन्ते  यावदाहूत  संप्लवम् || ५१ ||
ऊढा धृता  तथा क्रीता मूल्येन च समाहृता | 
सकृत् कामरता वापि  पञ्चधा गुरुयोषितः | 
अलंघ्याः  पूजनीयाः स्युर्गुरुवद्गुरुयोषितः || ५२ ||
गुरुशक्तिं  वीरभार्यां  कुमारीं  व्रतधारिणीम् | 
व्यङ्गाङ्गी विकृताङ्गीञ्च कुब्जामपि न कामयेत् || ५३ ||
सुताञ्च भगिनीं पौत्रीं स्नुषां वापि प्रियामपि | 
न कामयेद्  गुरोरग्रे  कुर्यान्नान्योन्यसंग्रहम् || ५४ ||
कृष्णांशुकां कृष्णवणार्ं कुमारीञ्च कृशोदरीम् | 
मनोहरां           यौवनस्थामर्चयेद्देवताधिया || ५५ ||
एकदापि   न  सेवेत   बलेन  कुलयोगिनीम् | 
चक्रमध्ये स्वयं  क्षुब्धां  कामयेत्  कुलसुन्दरि || ५६ ||
आममांसं सुराकुम्भं  मत्तेभं  सिद्धिलिङ्गिनम् | 
सहकारमशोकञ्च क्रीडालोलाः कुमारिकाः || ५७ ||
एक्रवृक्षं  श्मशानञ्च  समूहं   योषतामपि | 
नारीञ्च रक्तवसनां दृष्ट्वा वन्देत भक्तितः || ५८ ||
गुरुशक्तिसुतज्येष्ठकनिष्ठान्    कुलदेशिकान् | 
कुलदर्शनशास्त्राणि  कुलद्रव्याणि कौलिकान् || ५९ ||
प्रेरकान् सूचकांश्चापि वाचकान् दर्शकांस्तथा | 
शिक्षकान् बोधकान् योगी योगिनीसिद्धिरूपकान् || ६० ||
कन्यां कुमारिकां नग्नामुन्मत्तां  वापि योषितम् | 
न   निन्देन्न   जुगुप्सेत   न   हसेन्नावमानयेत् || ६१ ||
नाप्रियं नानृतं  ब्रूयात्  कस्यापि  कुलयोगिनः | 
कुरूपा  चेति कृष्णेति न वदेत्  कुलयोषितम् || ६२ ||
परीक्षयेन्न भक्तानां वीराणाञ्च कृताकृतम् | 
न पश्येद्वनितां नग्नामुन्मत्तां प्रकटस्तनीम् || ६३ ||
दिवसे न रमेन्नारीं तद्योनिं  नैव  वीक्षयेत् | 
या काचिदङ्गना लोके सा  मातृ कुलसम्भवा || ६४ ||
कुप्यन्ति कुलयोगिन्यो वनितानां व्यतिक्रमात् | 
स्त्रियं शतापराधाञ्चेत्  पुष्पेणापि  न  ताडयेत् | 
दोषान्न  गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् || ६५ ||
तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा | 
तत्पत्रेषु  न  भोक्तव्यमर्चयेत्तु   विशेषतः || ६६ ||
न स्वपेत्  कुलवृक्षाधो  न  चोपद्रवमाचरेत् | 
दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन || ६७ ||
श्लेष्मातकं करञ्जाख्यं निम्बाश्वत्थकदम्बकाः | 
बिल्ववटोडुम्बराश्च   तिन्तिडी   नवमी  स्मृता || ६८ ||
प्रायश्चित्तं भृगोः पातं संन्यासं व्रतधारणम् | 
तीर्थयात्राभिगमनं कौलः पञ्च  विवर्जयेत् || ६९ ||
वीरहत्या    वृथापानं  वीरपत्नीनिषेवणम् | 
वीरद्रव्यापहरणम्   तत्संयोगश्च   पञ्चमः | 
महापातकमित्युक्तं कौलिकानां कुलान्वये || ७० ||
शैवे तत्त्वपरिज्ञानं  गारुडे  विषभक्षणम् | 
ज्योतिषे ग्रहणं सारं कौलेऽनुग्रहनिग्रहौ || ७१ ||
देवतागुरुशास्त्राणां सिद्धाचारविडम्बकाः | 
विद्याचौरो गुरुद्रोही  ब्रह्मराक्षसतां व्रजेत् || ७२ ||
गुरुवाक्यं हतं कृत्वा वीरान् निर्भर्त्स्य च प्रिये | 
गुरुं हुङ्कृत्य तुङ्कृत्य  वीरं निजीत्य वादतः | 
विकल्प्य कुलशास्त्राणि भवन्ति ब्रह्मराक्षसाः || ७३ ||
एकाक्षरप्रदातारं     यो    गुरुञ्चावमानयेत् | 
श्वानं योनिशतं गत्वा चण्डालत्वमवाप्नुयात् || ७४ ||
मातरं पितरं भार्यां भ्रातरं बान्धवं सुतम् | 
कुलनिन्दाकरं देवि हन्यादेवाविचारयन् || ७५ ||
गुर्वर्थं देवतार्थं वा  कौलिकार्थं  कुलेश्वरि | 
कुलागमार्थमथवा    कुलधर्मार्थमेव   वा || ७६ ||
देवि निन्दाकरं हत्वा बाधितः स्वयमेव वा | 
यस्त्यजेद्दुस्त्यजप्राणान् स परे लीयते शिवे || ७७ ||
एकस्मिन्निधनं  यत्र  प्रापिते  दुष्टचारिणि | 
बहूनां भवति क्षेमं पुण्यं तस्य वधे भवेत् || ७८ ||
श्रीचक्रकृतवृत्तान्तं शुभं वा यदि वाऽशुभम् | 
कदाचिन्नैव   वक्तव्यमित्याज्ञा   परमेश्वरि || ७९ ||
कुलधर्मप्रसङ्गञ्च   पशूनां  पुरतः  प्रिये | 
कदाचिन्नैव  कुर्वीत शूद्राग्रे देवपाठवत् || ८० ||
पीठक्षेत्रागमाम्नायं तद्विद्याचारकौलिकान् | 
कुलद्रव्यादिकं देवि न वदेत् पशुसन्निधौ || ८१ ||
यथा रक्षति चौरेभ्यो धनधान्यादिकं प्रिये | 
कुलधर्मं  तथा देवि  पशुभ्यः परिरक्षयेत् || ८२ ||
अन्तः कौलो बहिः शैवो जनमध्ये तु वैष्णवः | 
कौलं    सुगोपयेद्देवि    नारिकेलफलाम्बुवत् || ८३ ||
कुलधर्मादिकं सर्वं सर्वावस्थासु सर्वदा | 
गोपयेच्च   प्रयत्नेन  जननीजारगर्भवत् || ८४ ||
वेदशास्त्रपुराणानि  स्पष्टानि गणिका इव | 
इयन्तु शाम्भवी विद्या गुप्ता कुलवधूरिव || ८५ ||
सुगुप्तकौलिकाचारमनुगृह्णन्ति  देवताः | 
वाञ्छासिद्धिं प्रयच्छन्ति नाशयन्ति प्रकाशकान् || ८६ ||
कुलेशि  कुलशास्त्रज्ञाः कुलपूजापरायणाः | 
ये त्वां रहसि सेवन्ते ते तिष्ठन्ति तवान्तिके || ८७ ||
गुरुं प्रकाशयेद्धीमान् मन्त्रं  यत्नेन गोपयेत् | 
अप्रकाशप्रकाशाभ्यां नश्यतः सम्पदायुषी || ८८ ||
सर्वाचारपरिभ्रष्टः  कुलाचारं समाश्रयेत् | 
कुलाचारपरिभ्रष्टौ रौरवं  नरकं  व्रजेत् || ८९ ||
शास्त्रेषु     निष्कृतिर्दृष्टा    महापातकिनामपि | 
कुलभ्रष्टस्य देवेशि न दृष्टा निष्कृतिः क्वचित् || ९० ||
कुलधर्म समाश्रित्य आचारं यो न पालयेत् | 
यथेच्छचारिणस्तस्य  महापातकिनः  प्रिये || ९१ ||
आपदो दुरितं रोगा दारिद्र्यं कलहो भयम् | 
योगिनीनां प्रकोपश्च स्खलितानि  पदे  पदे || ९२ ||
भ्रंशमानः  प्रनष्टश्च   तेजोहीनोऽतिदुर्मतिः | 
निन्दितः सर्वविद्विष्टो विह्वलः सङ्गवजीतः | 
देशाद्देशान्तरं  याति  कार्यहानिश्च सर्वदा || ९३ ||
तत्रापि कुलमार्गस्थाः शाकिन्यः कुलपालिकाः | 
भक्षयन्ति पुरा  तासां  वरो दत्तो मयेव तु || ९४ ||
तस्मादाचारवान् देवि योगिनीनां प्रियो भवेत् | 
नाशयन्ति    चतुर्वेदाननाचाराः  कुलेश्वरि || ९५ ||
पादुकामात्रसारज्ञः  सदाचारेषु   यन्त्रितः | 
सदाचारेण   देवत्वं   योगिनीवीरमेलनम् | 
सम्प्राप्नुवन्ति तिर्यक्त्वं कौलिकास्तद्विपर्ययात् || ९६ ||
आज्ञासिद्धमिदं   कौलमनाचाराद्विनश्यति | 
आचारपालनात् सत्यमाज्ञासिद्धिर्भविष्यति || ९७ ||
नाभिषेको न मन्त्रो वा न शास्त्रपठनादिकम् | 
कारणं  कुलधर्मस्य  सदाचारः  कुलेश्वरि || ९८ ||
परा    श्रीपादुकातत्त्वत्रयाचारादिवासनाः | 
यो वेत्ति समयी स स्यात् कौलिकश्चापि शाम्भवि || ९९ ||
तावन्न  कौलिको  देवि यावन्न समयीकृतः | 
देहपाते विमोक्षः स्यात् समयाचारपालनात् || १०० ||
संस्कारेण विहीनत्वाद् गुरुवाक्यस्य लङ्घनात् | 
आचारवर्जनाद्देवि कौलिकः पतितो भवेत् || १०१ ||
नित्यं नैमित्तिकं द्रव्यं मन्त्रयन्त्रादिलोपनम् | 
अनर्हपशुदुःसङ्गमन्त्रसाङ्कर्यसम्भवम्      || १०२ ||
गुप्तप्रकटसम्भूतं   ज्ञानाज्ञानकृतं   प्रिये | 
एवमादिषु   दोषेषु  पापस्य  गुरुलाघवम् || १०३ ||
देशं कालं वयो वित्तं सम्यग् ज्ञात्वा यथाविधि | 
प्रायश्चित्तं     गुरुर्द्दद्यात्      सर्वपापविशुद्धये || १०४ ||
शिष्योऽपि गुरुणाऽऽज्ञप्तं प्रायश्चित्तं समाचरेत् | 
अथवा   सर्वपापानां    गुरुनामजपः   स्मृतः || १०५ ||
जाम्बूनदस्य  कलुषं  परिशुद्धं   यथाग्निना | 
अनाचारस्य मालिन्यं प्रायञ्चित्ताग्निना दहेत् || १०६ ||
बहुनात्र  किमुक्तेन  रहस्यं  शृणु  पार्वती | 
वर्णाश्रमाणां सर्वेषामाचारः सद्गतिप्रदः || १०७ ||
गुरुस्त्रिवारमाचारं   कथयेच्च   कुलेश्वरि | 
न गृह्णाति हि शिष्यश्चेत्तदा पापं गुरोर्न हि || १०८ ||
मन्त्रिदोषश्च राजानं जायादोषः पतिं यथा | 
तथा प्राप्नोत्यसन्देहं  शिष्यपापं गुरुं प्रिये || १०९ ||
इति ते कथितं  किञ्चित् समासेन कुलेश्वरि | 
कुलाचारविधिं देवि किम्भूयः श्रोतुमिच्छसि || ११० ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
कुलाचारकथनं नाम एकादशोल्लासः || ११ ||


अथ द्वादशोल्लासः 

श्री देव्युवाच
कुलेश श्रोतुमिच्छामि पादुका भक्तिलक्षणम् | 
आचारमपि  देवेश   वद   मे  करुणानिधे || १ ||
ईश्वर उवाच 
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | 
तस्य   श्रवणमात्रेण  भक्तिराशु  प्रजापते || २ ||
वाग्भवा मूलवलये सूत्राद्याः कवलीकृताः | 
एवं कुलार्णवे  ज्ञानं पादुकायां प्रतिष्ठितम् || ३ ||
कोटिकोटिमहादानात् कोटिकोटिमहाव्रतात् | 
कोटिकोटिमहायज्ञात् परा श्रीपादुकास्मृतिः || ४ ||
कोटिकोटिमन्त्रजापात् कोटितीर्थावगाहनात् | 
कोटिदेवार्चनाद्देवि  परा   श्रीपादुकास्मृतिः || ५ ||
महारोगे   महोत्पाते   महादोषे   महाभये | 
महापदि  महापापे  स्मृता  रक्षति पादुका || ६ ||
दुराचारे   दुरालापे   दुःसङ्गे   दुष्प्रतिग्रहे | 
दुराचारे च दुर्बुद्धौ  स्मृता  रक्षति पादुका || ७ ||
तेनाधीतं स्मृतं  ज्ञातम्  इष्टं दत्तञ्च पूजितम् | 
जिह्वाग्रे वर्त्तते यस्य सदा श्रीपादुकास्मृतिः || ८ ||
सकृत् श्रीपादुकां देवि यो वा जपति भक्तितः | 
स   सर्वपापरहितः  प्राप्नोति   परमां  गतिम् || ९ ||
शुचिर्वाप्यशुचिर्वापि भक्त्या स्मरति पादुकाम् | 
अनायासेन   धर्मार्थकाममोक्षान्  लभते  सः || १० ||
श्रीनाथचरणाम्भोजं   यस्यां   दिशि  विराजते | 
तस्यां दिशि नमस्कुर्यात् भक्त्या प्रतिदिनं प्रिये || ११ ||
न पादुकापरो  मन्त्रो  न  देवः  श्रीगुरोः  परः | 
न हि शाक्तात् परा दीक्षा न पुण्यं कुलपूजनात् || १२ ||
ध्यानमूलं गुरोर्मूत्तीः पूजामूलं  गुरोः पदम् | 
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा || १३ ||
गुरुमूलाः क्रियाः सर्वा लोकेऽस्मिन् कुलनायिके | 
तस्मात्  सेव्यो  गुरुनीत्यं  सिद्ध्यर्थं  भक्तिसंयुतैः || १४ ||
तावदात्तीर्भयं शोको  लोभमोहभ्रमादयः | 
यावन्नायाति शरणं श्रीगुरुं भक्तवत्सलम् || १५ ||
तावद् भ्रमन्ति  संसारे  सर्वदुःखमलीमसाः | 
न भवेत् सद्गुरौ भक्तिर्यावद्देवेशि देहिनाम् || १६ ||
सर्वसिद्धिफलोपेतो मन्त्रः शुध्यति शोभनः | 
गुरुप्रसादमूलोऽयं       परतत्त्वमहाक्रमः || १७ ||
यथा ददाति सन्तुष्टः  प्रसन्नो  वरदो  मनुम् | 
तथा भक्त्या धनैः प्राणैर्गुरुं यत्नेन तोषयेत् || १८ ||
यदा दद्यात् स्वशिष्याय स्वात्मानं देशिकोत्तमः | 
तदा  मुक्तो  भवेच्छिष्यस्ततो  नास्ति  पुनर्भवः || १९ ||
तावदाराधयेच्छिष्यः प्रसन्नोऽसौ यदा भवेत् | 
गुरौ प्रसन्ने शिष्यस्य सद्यः  पापक्षयो भवेत् || २० ||
मनसापि  न  काङ्क्षन्ते  यान्  कामाननुजीविनः | 
सम्पादयन्ति तान् सर्वान् स्वामिनो भक्तवत्सलाः || २१ ||
ब्रह्मविष्णुमहेशादिदेवतामुनियोगिनः    | 
कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे न संशयः || २२ ||
भक्त्या तुष्टेन गुरुणा यः प्रदिष्टः कृपालुना | 
कर्ममुक्तो भवेच्छिष्योः भुक्तिमुक्त्योः स भाजनम् || २३ ||
शिष्येणापि तथा कार्यं तथा सन्तोषितो गुरुः | 
प्रियं कुर्याच्च देवेशि मनोवाक्कायकर्मभिः || २४ ||
यदि  तुष्टेन  गुरुणात्मशिष्यो  यत्र  कुत्रचित् | 
मुक्तोऽसीति समादिष्टः सोऽपि मुक्तिं व्रजेत् प्रिये || २५ ||
अथवा  निष्प्रपञ्चेन  धाम्ना  केनचिदीश्वरः | 
करोति   गुरुरूपेण   पशुपाशविमोचनम् || २६ ||
न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपि वा | 
तस्मै देयं ततो ग्राह्यं स तु पूज्यो ह्यहं तथा || २७ ||
विप्रः  षड्गुणयुक्तश्चेदभक्तो  न  प्रशस्यते | 
म्लेच्छोऽपि गुणहीनोऽपि भक्तिमान् शिष्य उच्यते || २८ ||
गुरुभक्तिविहीनस्य तपो विद्या कुलं व्रतम् | 
सर्वं नश्यति  तत्रैव  भूषणं  लोकरञ्जनम् || २९ ||
गुरुभक्त्यग्निना      सम्यग्दग्धदुर्मतिकल्मषः | 
श्वपचोऽपि परैः पूज्यो विद्वानपि न नास्तिकः || ३० ||
धर्मार्थकामैः किन्तस्य  मोक्ष  एव करे स्थितः | 
सर्वार्थैः श्रीगुरौ देवि यस्य भक्तिः सदा स्थिरा || ३१ ||
स   शिवो  गुरुरूपेण  भुक्तिमुक्तिप्रदो  मम | 
इति भक्त्या स्मरेद् यस्तु तस्य सिद्विरदूरतः || ३२ ||
यस्य  देवे  परा  भक्तिर्यथा  देवे  तथा  गुरौ | 
तस्य ते कथिता ह्यर्थाः प्रकाशन्ते कुलेश्वरि || ३३ ||
नारायणे   महादेवे  मातापित्रोश्च  राजनि | 
भक्तिर्यथा महादेवि तथा कार्या निजे गुरौ || ३४ ||
लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ | 
श्रीगुरुं  गुरुपत्नीञ्च  पितराविति  चिन्तयेत् || ३५ ||
गुरुभक्त्या यथा देवि प्राप्यन्ते सर्वसिद्धयः | 
यज्ञः  दानतपस्तीर्थव्रताद्यैर्न   तथा   प्रिये || ३६ ||
श्रीगुरौ निश्चला भक्तिर्वर्द्धते हि यथा यथा | 
तथा तथास्य विज्ञानं  वर्द्धते कुलनायिके || ३७ ||
कि तीर्थाद्यैर्महायासैः किं व्रतैः कायशोषणैः | 
निर्व्याजसेवा  देवेशि भक्तिरेषा  हि सद्गुरोः || ३८ ||
कायाक्लेशेन महता तपसा वापि यत् फलम् | 
तत्  फलं  लभते  देवि  सुखेन  गुरुसेवया || ३९ ||
भोगमोक्षाथीनां ब्रह्मविष्ण्वीशपदकाङ्क्षिणाम् | 
भक्तिरेव  गुरौ  देवि नान्यः पन्था इति श्रुतिः || ४० ||
अशुभानि च कर्माणि महापातकजानि च | 
भक्तिः क्षणेन  दहति  तूलराशिमिवानलः || ४१ ||
विश्वासाय नमस्तस्मै सर्वसिद्धिप्रदायिने | 
येन मृद्दारुद्दषदः फलन्त्यविफलं फलम् || ४२ ||
न योगो न तपो नार्चाक्रमः कोऽपि प्रलीयते | 
अमाये कुलमार्गेऽस्मिन् भक्तिरेव विशिष्यते || ४३ ||
साक्षाद् गुरुमये  देवि  सर्वस्मिन्  भुवनान्तरे | 
किन्नु भक्तिमतां क्षेत्रे मन्त्रः केषां न सिध्यति || ४४ ||
गुरौ  मनुष्यबुद्धिञ्च  मन्त्रे  चाक्षरबुद्धिकम् | 
प्रतिमासु शिलाबुद्धि कुर्वाणो नरकं व्रजेत् || ४५ ||
गुरुं न मर्त्त्यं बुध्येत यदि  बुध्येत तस्य हि | 
न कदाचिद्भवेत् सिद्धिर्मन्त्रैर्वा देवतार्चनैः || ४६ ||
श्रीगुरुं प्राकृतैः सार्द्धं ये स्मरन्ति वदन्ति च | 
तेषां हि सुकृतं सर्वं  पातकं  भवति  प्रिये || ४७ ||
जन्महेतू  हि  पितरौ  पूजनीयौ  प्रयत्नतः | 
गुरुवीशेषतः   पूज्यो  धर्माधर्मप्रदर्शकः || ४८ ||
गुरुः पिता गुरुर्माता  गुरुर्द्देवो  महेश्वरः | 
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन || ४९ ||
गुरोहीतं हि कर्त्तव्यं मनोवाक्कायकर्मभिः | 
अहिताचरणाद्देवि विष्ठायां जायते क्रिमिः || ५० ||
शरीरवित्तप्राणैश्च  श्रीगुरुं  वञ्चयन्ति   ये | 
क्रिमिकीटपतङ्गत्वं प्रात्नुवन्ति न संशयः || ५१ ||
मन्त्र   त्यागाद्भवेन्मृत्युर्गुरुत्यागाद्दरिद्रता | 
गुरुमन्त्रपरित्यागाद्रौरवं   नरकं  व्रजेत् || ५२ ||
गुर्वर्थं    धारयेद्देहं   तदर्थं    धनमर्जयेत् | 
निजप्राणान् परित्यज्य गुरुकार्यं समाचरेत् || ५३ ||
गुरूक्तं परुषं वाक्यमाशिषं  परिचिन्तयेत् | 
तेन सन्ताडितो वापि प्रसादमिति संस्मरेत् || ५४ ||
भोग्य भोज्यानि वस्तूनि गुरुवे च समर्पयेत् | 
तच्छेषमिति सञ्चिन्त्य चानुभूयात् कुलेश्वरि || ५५ ||
गुर्वग्रे  न  तपः  कुर्यान्नोपवासव्रतादिकम् | 
तीर्थयात्रां न कुर्याच्च न स्नायादात्मशुद्धये || ५६ ||
न वियोगं  गुरोः कुर्यात्  युष्मदो नैव  भाषयेत् | 
ऋणदानं  तथाऽऽदानं  वस्तूनां   क्रयविक्रयम् | 
न कुर्याद् गुरुभिः सार्द्धं शिष्यो भूत्वा कथञ्चन || ५७ ||
न   कुर्यान्नास्तिकैर्वादं    सम्भाषणमपीश्वरि | 
विलोक्य दूरतो गच्छेन्नासीत सह तैः क्वचित् || ५८ ||
गुरौ    सन्निहिते   यस्तु   पूजयेदन्यमम्बिके | 
स याति नरकं घोरं सा पूजा निष्फला भवेत् || ५९ ||
शिरसा  न  वहेद्भारं  गुरुपादाब्जधारिणा | 
तदाज्ञया तु कर्त्तव्यमाज्ञारूपो गुरुः स्मृतः || ६० ||
मन्त्रागमाद्यमन्यत्र  श्रुतं  यस्मै  निवेदयेत् | 
गुर्वाज्ञया तु गृह्णीयात्तन्निषिद्धं विवर्जयेत् || ६१ ||
स्वशास्त्रोक्तं रहस्यार्थं न वदेद् यस्य कस्यचित् | 
यदि ब्रूयात्  स  समयाच्च्युत  एव  न  संशयः || ६२ ||
अद्वैतं   भावयेन्नित्यं  न  द्वैतं  गुरुणा   सह | 
आत्मवत् सर्वभूतेभ्यो हितं कुर्यात् कुलेश्वरि || ६३ ||
आत्मार्थमानसद्भावैः   शुश्रूषा  स्याच्चतुवीधा | 
शुश्रूषया धिया देवि शिष्यः सन्तोषयेद् गुरुम् || ६४ ||
पदे पदेऽश्वमेधस्य  फलं  प्राप्नोत्यसंशयः | 
शुश्रूषणपरो    यस्तु    गुरुदेवमहात्मनाम् || ६५ ||
केवलं गुरुशुश्रूषा  त्वत्कृपाकारिणी प्रिये | 
सद्भक्तिसहिता चेत् सा सर्वकामफलप्रदा || ६६ ||
क्षीयन्ते सर्वपापानि  वर्द्धन्ते  पुण्यराशयः | 
सिध्यन्ति सर्वकार्याणि गुरुशुश्रूषया प्रिये || ६७ ||
यद्  यदात्महितं  वस्तु  तत्तद्धितमुपाचरेत् | 
गुरुदेवार्चको यस्तु तस्य पुण्यं न गण्यते || ६८ ||
भक्त्या वित्तानुसारेण गुरुमुद्दिश्य यत् कृतम् | 
अल्पे  महति वा  तुल्यं  पुण्यमाढ्यदरिद्रयोः || ६९ ||
सर्वस्वमपि यो  दद्याद्  गुरौ  भक्तिविवजीतः | 
शिष्यो न फलमाप्नोति भक्तिरेव हि कारणम् || ७० ||
यस्मिन् द्रव्ये गुरोरस्ति स्पृहा नानुभवेत्तु तत् | 
अवश्यं यदि  वाञ्छा  स्यादनुभूयात्तदाज्ञया || ७१ ||
यस्तिलार्द्धं   तदर्द्धं   वा   गुरुस्वमुपजीवति | 
लोभान्मोहात् स पच्येत नरके च त्रिसप्तके || ७२ ||
अत्यल्पं हि गुरोर्द्रव्यमदत्तं  स्वीकरोति  यः | 
स तिर्यग् योनिमापन्नः क्रव्यादैर्भक्ष्यते प्रिये || ७३ ||
गुरुद्रव्याभिलाषी  च  गुरुस्त्रीगमनोत्सुकः | 
पतितस्य क्षुल्लकस्य प्रायश्चित्तं न विद्यते || ७४ ||
आज्ञाभङ्गोऽर्थहरणं       गुरोरप्रियवर्त्तनम् | 
गुरुद्रोहमिदं  प्राहुर्यः  करोति  स  पातकी || ७५ ||
स्वद्रव्यविनियोगञ्च   नानिवेद्य   गुरौ   चरेत् | 
अनिवेद्य तु यः कुर्यात् स भवेद् ब्रह्मघातकः || ७६ ||
गुरोः स्थानं सम्प्रदायं तद्धर्मं यो विनाशयेत् | 
गुरुभिः स बहिष्कार्यो दण्ड्यो वध्यः स घातकैः || ७७ ||
गुरुकोपाद्विनाशः स्याद् गुरुद्रोहात्तु पातकम् | 
विमृत्युगुरुनिन्दायां       गुर्वनिष्टान्महापदः || ७८ ||
जीवेदग्निप्रविष्टो वा नरः पीतविषोऽपि वा | 
मृत्युहस्तगतो  वापि  नापराधकरो  गुरोः || ७९ ||
यत्र श्रीगुरुनिन्दा स्यात् पिधाय श्रवणेऽम्बिके | 
सद्यस्तस्माद्विनिष्क्रामेत्  पुनर्न  श्रवणं  यथा | 
गुरोर्नाम स्मरेत् पश्चात् श्रवणे सा प्रतिक्रिया || ८० ||
गुरुमित्रसुहृद्दासीदासाद्यान्      नावमानयेत् | 
न निन्देदस्य समयान् वेदशास्त्रागमादिकान् || ८१ ||
गुरोः    श्रीपादुकाभूषा   गुरुनामस्मृतिर्जपः | 
गुर्वाज्ञाकरणं  कृत्यं  शुश्रूषा  भजनं  गुरोः || ८२ ||
विविक्षुर्द्देशिकावासं  शान्तचित्तोऽतिभक्तिमान् | 
वाहनं  पादुकां   छत्रं  चामरं  व्यजनादिकम् | 
ताम्बूलं  कज्जलं  वेशमुत्सृज्य   प्रविशेच्छनैः || ८३ ||
पादुकामासनं   वस्त्रं   वाहनं  छत्रचामरे | 
दृष्ट्वा गुरोर्नमस्कुर्यान्नात्मभोगाय कामयेत् || ८४ ||
पादप्रक्षालनं  स्नानमभ्यङ्गं  दन्तधावनम् | 
मूत्रं निष्ठीवनं क्षौरं शयनं स्त्रीनिषेवनम् || ८५ ||
वीरासनं सुदुर्वाक्यं शासनं हास्यरोदनम् | 
केशमोचनमुष्णीषं कञ्चुकं नग्नतां तथा || ८६ ||
पादप्रसारणं  वादं  कलहं  दूषणं  प्रिये | 
अङ्गभङ्गाङ्गवाद्यादिकरास्फालनधूननम्   || ८७ ||
द्यूतकौतुकमल्लादियुद्धनृत्यादि चाम्बिके | 
गुरुयोगिमहासिद्धिपीठक्षेत्राश्रमेषु      च | 
ना    चरेदाचरेन्मोहाद्देवताशापमाप्नुयात् || ८८ ||
उपचारेण सन्तिष्ठेद् गुर्वग्रे नेच्छया विशेत् | 
मुखावलोकी  सेवेत  तदुक्तञ्च  समाचरेत् || ८९ ||
गुरूक्तानुक्त कार्येषु नोपेक्षां कारयेत् प्रिये | 
शिरसा  यद्गुरुर्ब्रूयात्तत्  कार्यमविशङ्कया || ९० ||
निग्रहेऽनुग्रहे वापि गुरुः  सर्वस्य  कारणम् | 
निर्गतं यद्गुरोर्वक्त्रात् सर्वं शास्त्रं तदुच्यते || ९१ ||
गुरुकार्ये स्वयं  शक्तो नापरं प्रेषयेत् प्रिये | 
बहुभृत्यपरैर्भृत्यैः  सहितोऽप्यतिभक्तिमान् || ९२ ||
गच्छंस्तिष्ठन् स्वपन् जाग्रज्जपन् जुह्वात् प्रपूजयेत् | 
गुर्वाज्ञामेव   कुर्वीत   तदगतेनान्तरात्मना || ९३ ||
अभिमानो न कर्त्तव्यो जातिविद्याधनादिभिः | 
सर्वदा सेवयेत् नित्यं  शिष्यः भ्रीगुरुसन्निधौ || ९४ ||
कामक्रोधपरित्यागी विनीतः स्तुतिभक्तिमान् | 
देवि भूम्यासने  तिष्ठेद्  गुरुकार्यं  समाचरेत् || ९५ ||
स्वकार्यमन्यकार्यं वा शिष्यः स्वगुरुचित्तवित् | 
गुरुपार्श्वगतो   नम्रः   प्रसन्नवदनो   भवेत् || ९६ ||
सामान्यतो  निषिद्धञ्च  तद्गुरोर्यदि सन्निधौ | 
आचरेत्तस्य सर्वस्य दोषः कोटिगुणो भवेत् || ९७ ||
अनादृत्य गुरोर्वाक्यं शृणुयाद् यः पराङ्मुखः | 
अहितं वा  हितं  वापि  रौरवं  नरकं  व्रजेत् || ९८ ||
गोब्राह्मणवधं कृत्वा यत् पापं समवाप्नुयात् | 
तत् पापं  समवाप्नोति  गुर्वग्रेऽनृतभाषणात् || ९९ ||
स्थानान्तरगताचार्ये  व्यसने  विषमे  स्थिते | 
श्रीगुरुं न त्यजेत् क्वापि तदादिष्टो व्रजेत् प्रिये || १०० ||
अधः स्थिते गुरावूर्ध्वे न तिष्ठेत कदाचन | 
न गच्छेदग्रतस्तस्य  न  तिष्ठेदुत्थिते  गुरौ || १०१ ||
शक्तिच्छायां सुरच्छायां गुरुच्छायां न लङ्घयेत् | 
न तेषु कुर्यात् स्वच्छायां  न स्वपेद् गुरुसन्निधौ || १०२ ||
भाषणं पाठनं गानं भोजनं शयनादिकम् | 
अनादिष्टो न कुर्वीत न चावन्दनपूर्वकम् || १०३ ||
ब्रह्महत्याशतं   कुर्यात्   गुर्वाज्ञापरिपालनात् | 
विना गुर्वाज्ञया शिष्यौ विश्वसेन्नान्यशासनात् || १०४ ||
सर्वं   गुर्वाज्ञया  कुर्यान्न  निन्देत्तत्स्त्रियं  प्रिये | 
भक्त्या प्रणम्य चोत्तिष्ठेत् कृताञ्जलिपुटः प्रिये || १०५ ||
पश्चात्पदेन  निर्गच्छेन्नमस्कृत्य  गुरोर्गृहात् | 
एकासने नोपविशेद् गुरुणा तत्समैः सह || १०६ ||
न  विशेदासने  देवि   देवतागुरुसन्निधौ | 
गुरोः सिंहासनं देयं ज्येष्ठानामुत्तमासनम् | 
देश्यासनं कनिष्ठानामितरेषां  समासनम् || १०७ ||
जाति विद्याधनाढ्यो वा दूरे दृष्ट्वा गुरुं मुदा | 
दण्डप्रणामं  कृत्वैकं  त्रिः  प्रदक्षिणमाचरेत् || १०८ ||
ततस्त्रिः षड् द्वादश वा ज्येष्ठादिष्वेकमेव वा | 
गुरुप्रगुरुयोगेन     वन्देत     प्रगुरु    प्रिये || १०९ ||
ततो नमेद् गुरुं वापि गुर्वाज्ञां  न  विचारयेत् | 
प्रगुरोः सन्निधौ शिष्यः स्वगुरुं मनसा नमेत् || ११० ||
गुरुबुद्ध्या नमेत् सर्व  दैवतं  तृण्मेव  वा | 
न नमेद्देवबुद्ध्या तु प्रतिमां लौहमृण्मयीम् || १११ ||
गुरोः प्रणामत्रितयं ज्येष्ठानामेक एव  च | 
पूज्यानामञ्जलिस्तद्वदन्येषां वाक्यवन्दनम् || ११२ ||
देवान् गुरून् कुलाचार्यान् ज्ञानवृद्धान् तपोधनान् | 
विद्याधिकान् स्वधर्मस्थान् प्रणमेत् कुलनायिके || ११३ ||
स्त्रीद्विष्टं गुरुभिः शप्तं पाषण्डं पण्डितं शठम् | 
विकर्माणं  कृतघ्नञ्चानाश्रमिणञ्च  नो  नमेत् || ११४ ||
अनिवेद्य गुरोर्भुङ्क्ते यस्त्वेकग्रामसंस्थितः | 
अमेध्यं  तद्भवेदन्नं  शूकरो  जायते  मृतः || ११५ ||
एकग्रामस्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद् गुरुम् | 
क्रोशामात्रस्थितः शिष्यो  गुरुं प्रतिदिनं नमेत् || ११६ ||
अर्द्धयोजनगः शिष्यः  प्रणमेत् पञ्चपर्वसु | 
एकयोजनमारम्य      योजनद्वादशावधि || ११७ ||
तत्संख्यादिवसैर्मासैः श्रीगुरुं प्रणमेत् प्रिये | 
दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः || ११८ ||
तत्र   योजनसंख्योक्तमासेन   प्रणमेद्  गुरुम् | 
अतिदूरगतः  शिष्यो  यदिच्छा स्यात्तदा व्रजेत् || ११९ ||
रिक्तहस्तश्च   नोपेयाद्राजानं  देवतां  गुरुम् | 
फलपुष्पाम्बरादीनि यथाशक्त्या समर्पयेत् || १२० ||
एवं  यो  न  चरेद्देवि  ब्रह्मराक्षसतां व्रजेत् | 
गुरुशक्तिश्च तत्पुत्रो ज्येष्ठभ्राता गुरुः स्मृतः || १२१ ||
आत्मविच्च  कनीयांसं  पुत्रवत्  परिपालयेत् | 
कुलाचार्यस्य   देवेशि   गुरुज्येष्ठकनिष्ठयोः | 
गुरुकल्पस्य  कुर्वीत  प्रणामं   स्वरगुरोर्यथा || १२२ ||
यागज्येष्ठः क्रमज्येष्ठः कुलज्येष्ठस्तृतीयकः | 
गुरुज्येष्ठसुतो देवि  इति ज्येष्ठचतुष्टयम् || १२३ ||
यागज्येष्ठाभिवादेन क्रमिकाष्टाङ्गयोगतः | 
गुरुश्च कुलवृक्षश्च  वन्दनीयौ  विधानतः || १२४ ||
पितृमात्रादिसर्वेषु    पूज्यकोटिषु    बन्धुषु | 
अभ्युत्थानप्रणामाद्यैरव्यक्तो   दोषभाग्बहिः || १२५ ||
यदा त्वाचार्यरूपेण चात्मानं सम्प्रकाशयेत् | 
अभ्युत्थानप्रणामाद्यैर्द्दोषभाक्  स  भवेत्तदा || १२६ ||
पतिर्भूत्वा पशुभ्यश्च प्रणामं यः करिष्यति | 
स  महापशुरित्युक्तो  देवताशापमाप्नुयात् || १२७ ||
यो गुरुस्थानकं  प्राप्तः  पादुकापरिसंख्यया | 
गुरुवत् स तु मन्तव्यो ज्येष्ठैर्वन्द्यो न च प्रिये || १२८ ||
इति ते कथितं किञ्चित् पादुकाभक्तिलक्षणम् | 
समासेन कुलेशानि  किं  भूयः श्रोतुमिच्छसि || १२९ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
पादुकाकथनं नाम द्वादशोल्लासः || १२ ||



अथ त्रयोदशोल्लासः 

श्री देव्युवाच
कुलेश श्रोतुमिच्छामि करुणामृतवारिधे | 
वक्तुमर्हसि देवेश  लक्षणं गुरुशिष्ययोः || १ ||
ईश्वर उवाच 
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | 
तस्य   श्रवणमात्रेण   गुरुभावः  प्रजायते || २ ||
दुष्टवंशोद्भवं  दुष्टं  गुणहीनं  विरूपिणम् | 
परशिष्यञ्च पाषण्डं षण्डं पण्डितमानिनम् || ३ ||
हीनाधिकविकाराङ्गं विकलावयवान्वितम् | 
पङ्गुमन्धञ्च बधिरं मलिनं व्याधिपीडितम् || ४ ||
उत्सृष्टं  दुर्मुखञ्चापि  स्वेच्छावेशधरं  प्रिये | 
दुवीकाराङ्गचेष्टादिगतिभाषणवीक्षणम्     || ५ ||
निद्रातन्द्राजडालस्यद्यूतादिव्यसनान्वितम्   | 
कपाटकुड्यस्तम्भादौ  तिरोहिततनुं सदा   | 
अन्तर्भक्तिकरं क्षुद्रं  बाह्यभक्तिविवजीतम् || ६ ||
व्यलीकवादिनं स्तब्धं प्रोषितं प्रेषकं शठम् | 
धनस्त्रीशुद्धिरहितं     निषेधविधिवजीतम् || ७ ||
रहस्यभेदकं   वापि  देवि  कार्यविनाशकम् | 
मार्जारबकवृत्तिञ्च         रन्ध्रान्वेषणतत्परम् || ८ ||
मायाविनं   कृतघ्नञ्च    प्रच्छन्नान्तरदायकम् | 
विश्वासघातकं  स्वामिद्रोहिणं  पापकारिणम् || ९ ||
अविश्वासकरं संशयात्मकं सिद्ध्यकाङ्क्षिणम् | 
आततायिनमादित्सु   कोपितं  कूटसाक्षिणम् || १० ||
सर्वप्रतारकं  देवि  सर्वोत्कृष्टाभिमानिनम् | 
असत्यं  निष्ठुरासक्तं ग्राम्यादिबहुभाषिणम् || ११ ||
दुवीचारकुतर्कादिकारकं    कलहप्रियम् | 
वृथाक्षेपकरं  मूर्खं  चपलं वाग्विडम्बकम् || १२ ||
परोक्षे  दूषणकरं  प्रत्यक्षे   प्रियवादिनम् | 
वाग्ब्रह्मवादिनं  विद्या  चौरमात्मप्रशंसकम् || १३ ||
गुणासहिष्णुमहितमार्त्तक्रोधनमम्बिके      | 
वाचालं  दुर्जनसखं   सर्वलोकविगहीतम् || १४ ||
पिशुनं   परसन्ताप्यं  सम्विदप्रणयं   प्रिये | 
स्वक्लेशवादिनं स्वामिद्रोहिणं स्वात्मवञ्चकम् || १५ ||
जिह्वोपस्थपरं  देवि  तस्करं  पशुचेष्टितम् | 
अकारणद्वेषहासक्लेशक्रोधादिकारिणम्  || १६ ||
अतिहासमकर्माणं     मर्मान्तपरिहासकम् | 
कामुकञ्चातिनिर्लज्जं मिथ्यादुश्चेष्टसूचकम् || १७ ||
असूयामदमात्सर्यदम्भाहङ्कारसंयुतम्       | 
ईर्ष्यापारुष्यपैशुन्यकार्पण्यक्रोधमानसम्    || १८ ||
अधीरं  दुःखिनं   भीरुमशक्तस्तवमातुरम् | 
अप्रबुद्धमतिं  मन्दं  मूढं  चिन्ताकुलं विटम् || १९ ||
तृष्णालोभयुतं   दीनमतुष्टं   सर्वयाचकम् | 
बह्वाशिनं  कपटिनं भ्रामकं  कुटिलं  प्रिये || २० ||
भक्तिश्रद्धादयाशान्तिधर्माचारविवजीतम्   | 
मातापितृगुरुप्राज्ञसद्वचोहास्यकारकम्     || २१ ||
कुलद्रव्यादिबीभत्सं   गुरुसेवाभिमानिनम् | 
स्त्रीद्विष्टं  समयभ्रष्टं  गुरुशप्तं  कुलेश्वरि | 
इत्यादिदुर्गुणोपेतं  गुरुः  शिष्यं विवर्जयेत् || २२ ||
सच्छिष्यन्तु  कुलेशानि   शुभलक्षणसंयुतम् | 
समाधि   साधनोपेतं   गुणशीलसमन्वितम् || २३ ||
स्वच्छदेहाम्बरं  प्राज्ञं  धामीकं शुद्धमानसम् | 
दृढव्रतं   सदाचारं    श्रद्धाभक्तिसमन्वितम् || २४ ||
दक्षमल्पाशिनं   गूढचित्तं  निर्व्याजसेवकम् | 
विमृश्यकारिणं  वीरं  मनोदारिद्र्यवजीतम् || २५ ||
सर्वकार्यातिकुशलं स्वच्छं सर्वोपकारिणम् | 
कृतज्ञं   पापभीतञ्च   साधुसज्जनसम्मतम् || २६ ||
आस्तिकं  दानशीलञ्च  सर्वभूतहिते  रतम् | 
विश्वासविनयोपेतं      धनदेहाद्यवञ्चकम् || २७ ||
असाध्यसाधकं      शूरमुत्साहबलसंयुतम् | 
अनुकूलं   क्रियायुक्तमप्रमत्तं   विचक्षणम् || २८ ||
हितसत्यमितस्मेरभाषणं        मुक्तदूषणम् | 
सकृदुक्तगृहातार्थं    चतुरं   बुद्धिविस्तरम् || २९ ||
स्वस्तुतौ परनिन्दायां विमुखं  सुमुखं  प्रिये | 
जितेन्द्रियं  सुसन्तुष्टं  धीमन्तं  ब्रह्मचारिणम् || ३० ||
त्यक्ताधिव्याधिचापल्यदुःखभ्रान्तिमसंशयम् | 
गुरुध्यानस्तुतिकथादेवार्चावन्दनोत्सुकम्   || ३१ ||
गुरुदैवतसम्भक्तं   कामिनीपूजकं   परम् | 
नित्यं  गुरुसमीपस्थं  गुरुसन्तोषकारकम् || ३२ ||
मनोवाक्तनुभिनीत्यं   परिचर्या  समुद्यतम् | 
गुर्वाज्ञापालकं देवि गुरुकीत्तीप्रकाशकम् || ३३ ||
गुरुवाक्यप्रमाणज्ञं   गुरुशुश्रूषणे    रतम् | 
चित्तानुवत्तीनं  प्रेष्यकारिणं  कुलनायिके || ३४ ||
जातिमानधने   गर्ववजीतं    गुरुसन्निधौ | 
निरपेक्षं गुरुद्रव्ये तत्प्रसादाभिकाङ्क्षिणम् || ३५ ||
कुलधर्मकथायोगियोगिनीकौलिकप्रियम्  | 
कुलार्चनादिनिरतं    कुलद्रव्याजुगुप्सकम् || ३६ ||
जपध्यानादिनिरतं मोक्षमार्गाभिकाङ्क्षिणम् | 
कुलशास्त्रप्रियं देवि पशुशास्त्रपराङ्मुखम् | 
इत्यादिलक्षणोपेतं  गुरुः  शिष्यं  परिग्रहेत् || ३७ ||
श्रीगुरुः  परमेशानि   शुद्धवेशो   मनोहरः | 
सर्वलक्षणसम्पन्नः      सर्वावयवशोभितः || ३८ ||
सर्वागमार्थतत्त्वज्ञः    सर्वमन्त  विधानवित् | 
लोकसम्मोहनकरो   देववत्   प्रियदर्शनः || ३९ ||
सुमुखः सुलभः स्वच्छो भ्रमसंशयनाशकः | 
इङ्गिताकारवित्  प्राज्ञ ऊहापोहविदुज्ज्वलः || ४० ||
अन्तर्लक्ष्यो बहिर्दृष्टिः सर्वज्ञो देशकालवित् |
आज्ञासिद्धिस्त्रिकालज्ञो    निग्रहानुग्रहक्षमः || ४१ ||
वेधको  बोधकः  शान्तः सर्वजीवदयापरः | 
स्वाधीनेन्द्रियसञ्चारषड्वर्गविजयक्षमाः      || ४२ ||
अग्रगण्योऽतिगम्भीरः     पात्रापात्रविशेषवित् | 
शिवविष्णुसमः          साधुर्मन्ददर्शनदूषकः || ४३ ||
निर्मलो  नित्यसन्तुष्टः  स्वतन्त्रो मन्त्रशक्तिमान् | 
सद्भक्तवत्सलो धीरः कृपालुः स्मितपूर्णवाक् || ४४ ||
भक्तप्रियः  सदोदारो  गम्भीरः  शिष्टसाधकः | 
स्वेष्टदेवगुरुज्येष्ठ        वनितापूजनोत्सुकः || ४५ ||
नित्ये नैमित्तिके काम्ये रतः कर्मण्यनिन्दिते | 
रागद्वेषभयक्लेशदम्भाहङ्कारवजीतः        || ४६ ||
स्वविद्यानुष्ठानरतो      धर्मादीनामुपार्जकः | 
यदृच्छालाभसन्तुष्टो       गुणदोषविभेदकः || ४७ ||
स्त्रीधनादिष्वनासक्तो      दुःसङ्गव्यसनादिषु | 
सर्वाहम्भावसंयुक्तो     निर्द्वन्द्वो   नियतव्रतः || ४८ ||
अलोलुपो    ह्यसङ्कल्पपक्षपाती   विचक्षणः | 
वित्तविद्यादिभिर्मन्त्रयन्त्रतन्त्राद्यविक्रयी       || ४९ ||
निःसङ्गो निवीकल्पश्च निर्णीतार्थोऽतिधामीकः | 
तुल्यनिन्दास्तुतिर्मौनो   निरपेक्षो   निरामयः | 
इत्यादिलक्षणोपेतः  श्रीगुरुः  कथितः  प्रिये || ५० ||
यः शिवः सर्वगः सूक्ष्मश्चोन्मना निष्कलोऽव्ययः | 
व्योमाकारो ह्यजोऽनन्तः स कथं  पूज्यते प्रिये || ५१ ||
अत  एव  शिवः  साक्षाद्गुरुरूपं  समाश्रितः | 
भक्त्या सम्पूजितो देवि भुक्तिं मुक्तिं प्रयच्छति || ५२ ||
शिवोऽहं   नाकृतिर्द्देवि   नरदृग्गोचरो   नहि | 
तस्मात् श्रीगुरुरूपेण शिष्यान् रक्षति धामीकान् || ५३ ||
मनुष्यचर्मणा बद्धः साक्षात् परशिवः  स्वयम् | 
सच्छिष्यानुग्रहार्थाय   गूढं   पर्यटति   क्षितौ || ५४ ||
सद्भक्तरक्षणायैव   निराकारोऽपि   साकृतिः | 
शिवः  कृपानिधिर्लोके  संसारीव  हि  चेष्टते || ५५ ||
ललाटलोचनं चान्दीं कलामपि च दोर्द्दयम् | 
अन्तर्धाय   च  वर्त्तेयं  गुरुरूपो   महीतले || ५६ ||
अत्रिनेत्रः    शिवः    साक्षादचतुर्बाहुरच्युतः | 
अचतुर्वदनो   ब्रह्मा  श्रीगुरुः  कथितं   प्रिये || ५७ ||
नरवद्दृश्यते   लोके   श्रीगुरुः  पापकर्मणा | 
शिववद्  दृश्यते लोके  भवानि  पुण्यकर्मणा || ५८ ||
श्रीगुरुं   परमं   तत्त्वं   तिष्ठन्तं   चक्षुरग्रतः | 
मन्दभाग्या न पश्यन्ति ह्यन्धाः सूर्यमिवोदितम् || ५९ ||
गुरुः सदाशिवः साक्षात् सत्यमेव न संशयः | 
शिव एव गुरुर्नो चेद्भुक्ति मुक्ति ददाति कः || ६० ||
सदाशिवस्य   देवस्य  श्रीगुरोरपि  पार्वती | 
उभयोरन्तरं नास्ति यः करोति  स पातकी || ६१ ||
देशिकाकृतिमास्थाय  पशोः पाशानशेषतः | 
छित्त्वा परं  पदं  देवि  नयत्येनमतो  गुरुः || ६२ ||
सर्वानुग्रहकर्त्तृत्वादीश्वरः     करुणानधिः | 
आचार्यरूपमास्थाय दीक्षया मोक्षयेत् पशून् || ६३ ||
यथा घटश्च कलसः कुम्भश्चैकार्थवाचकः | 
तथा  देवश्च  मन्त्रश्च  गुरुश्चैकार्थ  उच्यते || ६४ ||
यथा देवस्तथा मन्त्रो यथा मन्त्रस्तथा गुरुः | 
देवमन्त्रगुरूणाञ्च   पूजया  सदृशं  फलम् || ६५ ||
शिवरूपं समास्थाय पूजां गृह्णामि पार्वती | 
गुरुरूपं   समादाय    भवपाशान्निकृन्तये || ६६ ||
सिद्धान्तशारवेत्ताहं बीजोऽहमिति बोधकृत् | 
अविच्छिन्नः  सदा   हृष्टहृदयो  गुरुरुच्यते || ६७ ||
यो विलंघ्याश्रमान् वर्णानात्मन्येव स्थितः सदा | 
ज्योतिवर्णाश्रमी  योगी  स गुरुः कथितः प्रिये || ६८ ||
षडध्वानं    षडाधारं    षोडशाधारनिर्णयम् | 
यो जानाति विधानेन स गुरुः कथितः प्रिये || ६९ ||
दृश्यं  विना  स्थिरा दृष्टिर्मनश्चालम्बनं  विना | 
विनायासं स्थिरो वायुर्यस्य स्यात् स गुरुः प्रिये || ७० ||
यत्तु      संवित्तिजननं     परानन्दसमुद्भवम् | 
तत्तत्त्वं  विदितं  येन  स  गुरुः  कुलनायिके || ७१ ||
भूतभव्यौ तन्त्रमन्त्रौ वेत्ति यः शाक्तशाम्भवम् | 
वेधञ्च षड्विधं  देवि  स  हि वेधकरो गुरुः || ७२ ||
पदमन्त्रकलायन्त्रसतत्त्वतभुवनाश्रयम्         | 
शोधयेद् यः षडध्वानं स गुरुः कथितः प्रिये || ७३ ||
वेधं  पदं   विरोधञ्च  ग्रहणं   मोक्षणं   तथा | 
यो वा सम्यग्विजानाति स गुरुः कथितः प्रिये || ७४ ||
जाग्रत्  स्वप्नः सुषुप्तिश्च  तुरीयं तदतीतकम् | 
यो वेत्ति पञ्चकं देवि स गुरुः कथितः प्रिये || ७५ ||
पिण्डं   पदं  तथा   रूपं  रूपातीतं   चतुष्टयम् | 
यो वा सम्यग्विजानाति स गुरुः कथितः प्रिये || ७६ ||
यो वा पराञ्च पश्यन्तीं मध्यमां वैखरीमपि | 
चतुष्टयं विजानाति स गुरुः कथितः प्रिये || ७७ ||
आत्मविद्याशिवसर्वमिति      तत्त्वचतुष्टयम् | 
यो  वेत्ति  परमेशानि  स  गुरुर्नापरः  प्रिये || ७८ ||
पाशच्छेदं   वेधदीक्षां   पशुग्रहणमेव   च | 
त्रिविधं यो विजानाति स गुरुः परमो मतः || ७९ ||
पदं  पाशं  पशुनाञ्च  रहस्यार्थं  विधानतः | 
यो जानाति वरारोहे स गुरुः कथितः प्रिये || ८० ||
चक्रसङ्केतकं   मन्त्रं   पूजासङ्केतकं   तथा | 
त्रितयं यो विजानाति स गुरुः कथितः प्रिये || ८१ ||
वाणेतरस्वयम्भ्वाख्यलिङ्गत्रितयसंस्थितिम्    | 
तत्त्वतो यो विजानाति स गुरुः कथितः प्रिये || ८२ ||
आणवं  कार्मणञ्चैव  मायीयञ्च  मलत्रयम् | 
यो विशोधयितुं शक्तः स गुरुः परमो मतः || ८३ ||
आरक्तशुक्लमिश्रा(कृष्णा)ख्यचरणत्रयवासनाम् | 
यो जानाति महादेवि स गुरुः परमो मतः || ८४ ||
महामुद्रां नभोमुद्राम् उङ्डीयानं जलन्धरम् | 
मूलबन्धञ्च  यो वेत्ति स गुरुः परमो मतः || ८५ ||
शिवादिक्षितिपर्यन्तं   षट्त्रिंशत्तत्त्वनिर्णयम् | 
यो विजानाति तत्त्वेन स गुरुः परमो मतः || ८६ ||
अन्तर्यागं बहिर्यागं कलाज्ञानस्थितिं प्रिये | 
चारुयन्त्रविधानञ्च यो वेत्ति स गुरुः प्रिये || ८७ ||
पिण्डब्रह्माण्डयोरैक्यं स्थितिं यो वेत्ति तत्त्वतः | 
शिरास्थिरोमसंख्यादि  स   गुरुर्नापरः   प्रिये || ८८ ||
पद्मादिचतुरशीतिनानासनविचक्षणः     | 
यमाद्यष्टाङ्गयोगज्ञः स गुरुः परमो मतः || ८९ ||
घृणा सङ्का  भयं लज्जा जुगुप्सा  चेति पञ्चमी | 
कुलं शीलं तथा जातिरष्टौ पाशाः प्रकीत्तीताः || ९० ||
पाशबद्धः  पाशुर्ज्ञेयः  पाशमुक्तो  महेश्वरः | 
तस्मात् पाशहरो यस्तु स गुरुः परमो मतः || ९१ ||
बन्धनं   योनिमुद्राया   मन्त्रचैतन्यदर्शनम् | 
यन्त्रमन्त्रस्वरूपञ्च यो वेत्ति स गुरुः प्रिये || ९२ ||
विनिक्षिप्तां गतायातां संक्लिष्टां संविनीतकाम् | 
चतुवीधां  मनोऽवस्थां यो वेत्ति स गुरुः  प्रिये || ९३ ||
मूलादिब्रह्मरन्ध्रान्तसप्ताम्भोजदलेषु      यः | 
जीवाचारफलं  वेत्ति  स  गुरुर्नापरः  प्रिये || ९४ ||
शिवादिगुरुपर्यन्तं    पारम्पर्यक्रमेण    यः | 
अवाप्ततत्त्वसम्भारः  स  गुरुर्नापरः  प्रिये || ९५ ||
येन वा दशीते तत्त्वे तत्क्षणात्तन्मयो भवेत् | 
मन्यते मुक्तमात्मानं स   गुरुर्नापरः  प्रिये || ९६ ||
ये दत्त्वा   सहजानन्दं   दरन्तीन्द्रियजं  सुखम् | 
सेव्यास्ते गुरवः शिष्यैरन्ये त्याज्याः प्रतारकाः || ९७ ||
संसारभयभीतस्य शिष्यस्य गुरुरादरात् | 
व्रतोपवासनियमैनीयन्ता   स  गुरुर्मतः || ९८ ||
यः प्रसन्नः क्षणार्द्धेन मोक्षलक्ष्मीं प्रयच्छति | 
दुर्लभं तं विजानीयाद्  गुरुं संसारतारकम् || ९९ ||
यः क्षणेनात्मसामर्थ्यं स्वशिष्याय ददाति हि | 
क्रियायासादिरहितं     स   गुरुर्द्देवदुर्लभः || १०० ||
य सद्यः प्रत्ययकरं सुलभञ्चात्मसौख्यदम् | 
ज्ञानोपदेशं    कुरुते   स  गुरुर्द्देवदुर्लभः || १०१ ||
द्वीपाद्  द्वीपान्तरं  देवि  सञ्चरेद्यथा  तथा | 
यो दद्यात् स गुरुर्ज्ञानमभ्यासादिविवजीतम् || १०२ ||
क्षुधितस्य यथा तृप्तिराहारादाशु  जायते | 
तथोपदेशमात्रेण ज्ञानदो   दुर्लभो  गुरुः || १०३ ||
गुरवो  बहवः  सन्ति दीपवच्च गृहे गृहे | 
दुर्लभोऽयं गुरुर्देवि सूर्यवत् सर्वदीपकः || १०४ ||
गुरवो  बहवः सन्ति वेदशास्त्रादिपारगाः | 
दुर्लभोऽयं    गुरुर्द्देवि  परतत्त्वार्थपारगः || १०५ ||
गुरवो बहवः सन्ति आत्मनोऽन्यप्रदा भुवि | 
दुर्लभोऽयं गुरुर्द्देवि लोकेष्वात्मप्रकाशकः || १०६ ||
गुरवो  बहवः सन्ति कुमन्त्रौषधिवेदिनः | 
निगमागमशास्त्रोक्तमन्त्रज्ञो दुर्लभो भुवि || १०७ ||
गुरवो बहवः सन्ति शिष्यवित्तापहारकाः | 
दुर्लभोऽयं गुरुर्द्देवि शिष्यदुःखापहारकः || १०८ ||
वर्णाश्रमकुलाचारनिरता  बहवो  भुवि | 
सर्वसङ्कल्पहीनो यः स गुरुर्द्देवि दुर्लभः || १०९ ||
गुरोर्यस्यैव सम्पर्कात् परानन्दोऽभिजायते | 
गुरुं    तमेव  वृणुयान्नापरं  मतिमान्नरः || ११० ||
यस्यानुभवपर्यन्तं    बुद्धिस्तत्र   प्रवर्त्तते | 
यस्यालोकनमात्रेण मुच्यते नात्र संशयः || १११ ||
शङ्कया भक्षितं सर्वं त्रैलोक्यं सचराचरम् | 
सा शङ्का भक्षिता येन स गुरुर्द्देविदुर्लभः || ११२ ||
यथा वह्निसमीपस्थं  नवनीतं  विलीयते | 
तथा पापं विलीयते सदाचार्य समीपतः || ११३ ||
यथा दीप्तानलः काष्ठं शुष्कमार्द्रञ्च निर्दहेत् | 
तथा गुरुकटाक्षस्तु शिष्यपापं दहेत् क्षणात् || ११४ ||
यथा महानिलोद्धूतं तूलं  दशदिशो व्रजेत् | 
तथैव गुरुकारुण्यात् पापराशिः पलायते || ११५ ||
दीपदर्शनमात्रेण  प्रणश्यति  तमो  यथा | 
सद्गुरोर्द्दर्शनाद्देवि तथाऽज्ञानं विनश्यति || ११६ ||
सर्वलक्षणसम्पन्नो  वेदशास्त्रविधानवित् | 
सर्वोपायविधानज्ञस्तत्त्वज्ञानी गुरुः स हि || ११७ ||
पूजाहोमाश्रमाचारतपस्तीर्थव्रतादिकम्     | 
मन्त्रागमादिविज्ञानं तत्त्वहीनस्य निष्फलम् || ११८ ||
स्वयं वेद्ये परे तत्त्वे स्वात्मानं वेत्ति निश्चलः | 
आत्मनोऽनुग्रहो नास्ति परस्यानुग्रहः कथम् || ११९ ||
ब्रह्माकारं  मनोरूपं  प्रप्यक्षं   स्वतनुस्थितम् | 
यो न जानाति चान्यस्य कथं मोक्षं ददात्यसौ || १२० ||
सर्वलक्षणहीनोऽपि तत्त्वज्ञानी गुरुः स्मृतः | 
तस्मात्तत्त्वविदेवेह  मुक्तो  मोचक एव च || १२१ ||
यस्तत्त्वविन्महेशानि स  पशुं  बोधयत्यपि | 
तत्त्वहीनात् कुतोऽध्यात्मतत्त्वज्ञानपरिग्रहः || १२२ ||
तत्त्वज्ञैरुपदिष्टा ये  तत्त्वाज्ञस्ते  न  संशयः | 
पशुभिश्चोपदिष्टा ये देवि ते पशवः स्मृताः || १२३ ||
विद्धस्तु  वेधयेद्देवि   नाविद्धो  वेधको  भवेत् | 
मुक्तस्तु मोचयेद् बद्धं न मुक्तो मोचकः कथम् || १२४ ||
अभिज्ञश्चोद्धरेन्मूर्ख   न   मूर्खो   मूर्खमुद्धरेत् | 
शिलां सन्तारयेन्नौही किं शिला तारयेच्छिलाम् || १२५ ||
तत्त्वहीनं गुरुं  लब्ध्वा  केवलं  भव  तत्परः | 
इहामुत्र फलं किञ्चित् स नरो नाप्नुयात् प्रिये || १२६ ||
शैवे  गुरुत्रयं  प्रोक्तं  वैष्णवे  गुरुपञ्चकम् | 
वेदशास्त्रेषु   शतशो  गुरुरेकः  कुलान्वये || १२७ ||
प्रेरकः सूचकश्चैव  वाचको  दर्शकस्तथा | 
शिक्षको बोधकश्चैव षडेते गुरुवः स्मृताः || १२८ ||
पञ्चैते कार्यभूताः स्युः कारणं बोधको भवेत् | 
पूर्णाभिषेककर्त्ता यो गुरुस्तस्यैव पादुका | 
पूजनीया महेशानि बहुत्वेऽपि न संशयः || १२९ ||
श्रीगुरु लक्षणोपेतं  संशयच्छेदकारकम् | 
लब्ध्वा ज्ञानप्रदं देवि न गुर्वन्तरमाश्रयेत् || १३० ||
अनभिज्ञं गुरुं प्राप्य सदा संशयकारकम् | 
गुर्वन्तरन्तु  गत्वा  स  नैतद्दोषेण लिप्यते || १३१ ||
मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् | 
ज्ञानलुब्धस्तथा  शिष्यः  गुरोगुर्वन्तरं  व्रजेत् || १३२ ||
इति ते कथितं किञ्चिल्लक्षणं गुरुशिष्ययोः | 
समासेन कुलेशानि किम्भूयः श्रोतुमिच्छसि || १३३ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
गुरुशिष्यलक्षणं नाम त्रयोदशोल्लासः || १३ ||


अथ चतुर्दशोल्लासः 
श्री देव्युवाच
कुलेश श्रोतुमिच्छामि परीक्षां गुरुशिष्ययोः | 
उपदेशक्रमं   दीक्षाभेदांश्च  वद  मे  प्रभो || १ ||
ईश्वर उवाच  
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | 
तस्य  श्रवणमात्रेण  चित्तशुद्धिः  प्रजायते || २ ||
विना दीक्षां न मोक्षः स्यात्तदुक्तं शिवशासने | 
सा  च  न  स्याद्विनाचार्यमित्याचार्यपरम्परा || ३ ||
तस्मात् सिद्धान्तं सम्प्राप्य सम्प्रदायादिहेतुभिः | 
अन्तरेणोपदेष्टारं  मन्त्राः  स्युनीष्फला  यतः || ४ ||
देवास्तमेव     शंसन्ति    पारम्पर्यप्रवर्त्तकम् | 
गुरुं    मन्त्रागमाभिज्ञं   समयाचारपालकम् || ५ ||
गुरुः शिष्याधिकारार्थं विरक्तोऽपि शिवाज्ञया | 
किञ्चित्कालं विधायेत्थं स्वशिष्याय समर्पयेत् || ६ ||
तस्यापीताधिकारस्य योगः साक्षात् परे शिवे | 
देहान्ते  शाश्वती  मुक्तिरिति  शङ्करभाषितम् || ७ ||
तस्मात्  सर्वप्रयत्नेन  साक्षात्परशिवोदितम् | 
सम्प्रदायमविच्छिन्नं सदा कुर्यात् गुरुः प्रिये || ८ ||
शक्तिसिद्धिसुसिद्ध्यर्थं परीक्ष्य विधिवद् गुरुः | 
पश्चादुपदिशेन्मन्त्रमन्यथा   निष्फलं    भवेत् || ९ ||
अन्यायेन तु यो दद्याद् गृह्णात्यन्यायतश्च यः | 
ददता  गृह्णता  देवि  कुलशापो  भविष्यति || १० ||
गुरुशिष्यावुभौ   मोहादपरीक्ष्य    परस्परम् | 
उपदेशं ददद् गृह्णन् प्राप्नुयातां पिशाचताम् || ११ ||
अशास्त्रीयोपदेशञ्च यो गृह्णाति ददाति हि | 
भुञ्जाते  तावुभौ  घोरान्नरकानेकविंशतिम् || १२ ||
असंस्कृतोपदेशञ्च  यः करोति  स पातकी | 
विनश्यति च तन्मन्त्रं सैकते शालिबीजवत् || १३ ||
अनर्हे   मन्त्रविज्ञानं   न  तिष्ठति   कदाचन | 
तस्मात् परीक्ष्य कर्त्तव्यमन्यथा निष्फलं भवेत् || १४ ||
कृत्वा  समयदीक्षाञ्च दत्त्वा  समयपादुकाम् | 
सन्निधायात्मनः शिष्यं वदेन्मन्त्रं न चान्यथा || १५ ||
सच्छिष्यायातिभक्ताय   यज्ज्ञानमुपदिश्यते | 
तज्ज्ञानं तत्तुशास्त्रार्थं तद्विदध्यादखण्डितम् || १६ ||
असच्छिष्येष्वभक्तेषु    यज्ज्ञानमुपदिश्यते | 
तत्  प्रयात्यपवित्रत्वं  गोक्षीरं श्वघृतादिव || १७ ||
धनेच्छाभयलोभाद्यैरयोग्यं  यदि  दीक्षयेत् | 
देवताशापमाप्नोति कृतञ्च निष्फलं भवेत् || १८ ||
ज्ञानेन क्रियया वापि गुरु शिष्यं परीक्षयेत् | 
संवत्सरं  तदर्द्धं  वा  तदर्द्धं  वा  प्रयत्नतः || १९ ||
उत्तमांश्चाधमे     कुर्यान्नीचानुत्तमकर्मणि | 
प्राणद्रव्यप्रणामाद्यैरादेशैश्च  स्वयं  समैः || २० ||
तत्कर्मसूचकैर्वाक्यैर्मायाभिः     क्रूरचेष्टितैः | 
पक्षपातैरुदासीनैरनेकैश्च            मुहुर्मुहुः || २१ ||
आकृष्टस्ताडितो वापि यो विषादं न याति च | 
गुरुः कृपां करोतीति मुदा  सञ्चिन्तयेत् सदा || २२ ||
श्रीगुरोः  स्मरणे  चापि कीर्त्तनं दर्शनेऽपि च | 
वन्दने   परिचर्यायामाह्वाने    प्रेषणे   प्रिये || २३ ||
आनन्दकम्परोमाञ्चस्वरनेत्रादिविक्रियाः      | 
येषां स्युस्तेऽत्र योग्याश्च दीक्षासंस्कारकर्मणि || २४ ||
शिष्योऽपि लक्षणैरेतैः कुर्याद् गुरुपरीक्षणम् | 
आनन्दाद्यैर्जपस्तोत्रध्यानहोमार्चनादिषु      || २५ ||
ज्ञानोपदेशसामर्थ्यं     मन्त्रसिद्धिमपीश्वरि | 
वेधकत्वं परिज्ञाय शिष्यो भूयान्न चान्यथा || २६ ||
आदिमध्यावसानेषु   योग्याः   शक्तिनिपातिताः | 
अधमा मध्यमाः श्रेष्ठाः शिष्या देवि प्रकीत्तीताः || २७ ||
आदौ भक्तिर्भवेद्देवि दीक्षार्थं समुदन्ति ये | 
पुनवीपुलहृष्टास्ते  आदियोग्या इतीरिताः || २८ ||
दीक्षासमयसम्प्राप्ता        ज्ञानविज्ञानवजीताः | 
भक्त्या प्रध्वस्तपर्याया मध्ययोग्याश्च ते स्मृताः || २९ ||
आदौ भक्तिविहीना ये मध्यभक्तास्तु ये नराः | 
अन्तप्रवृद्धभक्ताश्च  अन्तयोग्या  भवन्ति   ते | 
उत्तमज्ञानसंज्ञाश्चेत्युपदेशस्त्रिधा      प्रिये || ३० ||
यथा पिपीलिका मन्दमन्दं वृक्षाग्रगं फलम् | 
चिरेणाप्नोति  कर्मोपदेशश्चापि तथा स्मृतः || ३१ ||
यथा कपिश्च शाखायां शाखामुल्लंघ्य यत्नतः | 
फलं  प्राप्नोति   धर्मस्य  चोपदेशस्तथा  प्रिये || ३२ ||
यथा वियद्गमः शीघ्रं फल एव निषीदति | 
तथा ज्ञानोपदेशश्च  कथितः कुलनायिके || ३३ ||
स्पर्शाख्या देवि दृक्संज्ञा मानसाख्या महेश्वरि | 
क्रियायासादिरहिता  देवा  दीक्षा  त्रिधा स्मृता || ३४ ||
यथा पक्षी स्वपक्षाभ्यां शिशून् संवर्द्धयेच्छनैः | 
स्पर्शदीक्षोपदेशच्च   तादृशः  कथितः  प्रिये || ३५ ||
स्वापत्यानि यथा मत्स्यो वीक्षणेनैव पोषयेत् | 
दृग्भ्यां   दीक्षोपदेशश्च  तादृशः  परमेश्वरि || ३६ ||
यथा कूर्मः स्वतनयान् ध्यानमात्रेण पोषयेत् | 
वेधदीक्षोपदेशश्च  मानसः स्यात् तथाविधः || ३७ ||
शक्तिपातानुसारेण        शिष्योऽनुग्रहमर्हति | 
यत्र  शक्तिर्न  पतति  तत्र  सिद्धिर्न  जायते || ३८ ||
क्रियावर्णकलास्पर्शवाग्दृङ्मानससंज्ञया      | 
दीक्षा  मोक्षप्रदा  देवि  सप्तधा  परिकीत्तीता || ३९ ||
समयाख्या  विशेषा च साधिका पुत्रिकाह्वया | 
वेधका  पूर्णसंज्ञा  चाचार्या  निर्वाणसंज्ञिका || ४० ||
क्रियादीक्षाष्टधा प्रोक्ता कुण्डमण्डपपूवीका | 
कलसादिसमायुक्ता  कर्त्तव्या गुरुणा बहिः | 
देवेशि   देहशुद्ध्यर्थं   पूर्वोक्तविधिनाचरेत् || ४१ ||
वर्णदीक्षा त्रिधा  प्रोक्ता  द्विचत्वारिंशदक्षरैः | 
पञ्चाशद्वर्णैर्वा  देवि  द्विषष्टिलिपिभिस्तु  ता || ४२ ||
वर्णान् शिष्यतनौ न्यस्य प्रतिलोमेन संहरेत् | 
परमात्मनि संयोज्य तच्चैतन्यं  गुरुः  प्रिये || ४३ ||
तस्मादुत्पाद्य तान् वर्णान् न्यसेच्छिष्यतनौ पुनः | 
सृष्टिक्रमेण   विधिना  चैतन्यञ्च   प्रयोजयेत् || ४४ ||
जायते देवताभावः परानन्दमयः  शिशोः | 
एषा वर्णमयी प्रोक्ता दीक्षा पाशहरा प्रिये || ४५ ||
कलादीक्षा त्रिधा ज्ञेया कर्त्तव्या विधिवत् प्रिये | 
निवृत्तिर्जानुपर्यन्तं     तलादारभ्य    संस्थिता || ४६ ||
जानुनोर्नाभिपर्यन्तं   प्रतिष्ठा   तिष्ठति   प्रिये | 
नाभेः कण्ठावधि व्याप्ता विद्या शान्तिस्ततः परम् || ४७ ||
कण्ठाल्ललाटपर्यन्तं व्याप्ता तस्माच्छिरोऽवधि | 
शान्त्यतीता कला चैषा  कलाव्याप्तिरितीरिता || ४८ ||
संहारक्रमयोगेन स्थानात् स्थानान्तरं प्रिये | 
संयोज्य विधिवत् सम्यग्विधिवेत्ता शिरोऽवधि || ४९ ||
इयं प्रोक्ता कुलेशानि दिव्यभावप्रदायिनी | 
अष्टत्रिंशत्कलाभिर्वा पञ्चाशद्भिरथापि वा || ५० ||
तत्त्वन्यासक्रमेणैव       सृष्टिसंहारमार्गतः | 
ज्ञात्वा गुरुमुखाद्देविं शिष्ये संयोज्य वेधयेत् || ५१ ||
जायते   देवताभावो   योगिनीवीरमेलनम् | 
कलादीक्षा  समुद्दिष्टा   पशुपाशापहारिणी || ५२ ||
द्दस्ते शिवं गुरुं ध्यात्वा जपेन्मूलाङ्गमालिनीम् | 
गुरुः स्पृशेच्छिष्यतनुं  स्पर्शदीक्षा  भवेदियम् || ५३ ||
चित्तं  तत्त्वे  समाधाय  परतत्त्वोपबृंहितान् | 
उच्चरेत् संहतान्मन्त्रान् वाग्दीक्षेति निगद्यते || ५४ ||
निमील्य नयने ध्यात्वा परतत्त्वप्रसन्नधीः | 
सम्यक् पश्येद्गुरुः शिष्यं दृग्दीक्षा च भवेत् प्रिये || ५५ ||
गुरोरालोकमात्रेण   भाषणात्   स्पर्शनादपि | 
सद्यः सञ्जायते ज्ञानं सा दीक्षा शाम्भवी मता || ५६ ||
मनोदीक्षा  द्विधा  प्रोक्ता तीव्रा तीव्रतरापि  च | 
अध्वानं षड्विधं ज्ञात्वा शिष्यदेहे स्मरन् प्रिये || ५७ ||
कल्पयेद्भुवनं  तत्त्वं  कलां  वर्णं  पदं  मनुम् | 
आजानुनाभिहृत्कण्ठतालुमूर्द्धान्तमम्बिके     || ५८ ||
गुरूपदिष्टमार्गेण     वेधं    कुर्याद्विचक्षणः | 
पाशयुक्तः क्षणाच्छिष्यश्छिन्नपाशस्तदा भवेत् | 
एषा मुक्तिप्रदा  प्रोक्ता  तीव्रदीक्षा  कुलेश्वरि || ५९ ||
देवि   तीव्रतरा   चापि  गुरुणा  स्मृतमात्रतः | 
सम्यक् संवेधिनः शिष्यश्छिन्नपापस्तदा भवेत् || ६० ||
वाह्यव्यापारनिर्मुक्तो   भूमौ   पतति  तत्क्षणात् | 
सञ्जातदिव्यभावोऽसौ  सर्वं  जानाति  शाम्भवि || ६१ ||
यदस्ति    वेधकाले    तत्   स्वयमेवानुभूयते | 
प्रबुद्धः सन् न शक्नोति तत् सुखं वक्तुमीश्वरि || ६२ ||
वेधविद्धः शिवः साक्षान्न पुनर्जन्मभाग् भवेत् | 
एषा   तीव्रतरा   दीक्षा   भवबन्धविमोचनी | 
शिवभावप्रदा साक्षात् त्वां शपे कुलनायिके || ६३ ||
आनन्दश्चैव    कम्पश्चेद्भवो  घूर्णा   कुलेश्वरि | 
निद्रा मूर्च्छा च वेधस्य षडवस्थाः प्रकीत्तीताः || ६४ ||
दृश्यन्ते  षड्गुणा  ह्येते  वेधकाले  कुलेश्वरि | 
वेधितो यत्र  कुत्रापि  तिष्ठेन्मुक्ता  न संशयः || ६५ ||
वेधदीक्षाकरो  लोके  श्रीगुरुर्दुर्लभः   प्रिये | 
शिष्योऽपि दुर्लभस्ताद्दृक् पुण्ययोगेन लभ्यते | 
न दद्याद् यस्य कस्यापि इत्याज्ञा परमेश्वरि || ६६ ||
कुलद्रव्यैः समभ्यर्च्य  कुलचक्रं  विधानतः | 
शिष्याय दर्शयेद्देवि दीक्षैषा कौलिकी स्मृता || ६७ ||
कुलद्रव्यं   मुखे   पूर्व   पञ्चगव्यामृतान्वितम् | 
अभिषिञ्चेद् गुरुः शिष्यं गण्डूषाख्या समीरिता || ६८ ||
सजीवमीनयुक्तेन    सुरया    पूरितेन    च | 
पञ्चामृतैः   सुसम्पूर्णशङ्खेन   कलसेन   वा | 
अभिषेकं ततः कुर्याद्बाह्ये तत् कथितं प्रिये || ६९ ||
मीनस्तु लम्बिका देवि वक्त्रं  कलस उच्यते | 
पञ्चगवयामृतापूर्णं    शिष्यं    तेनाभिषेचयेत् || ७० ||
अयं सिद्धाभिषेकः स्यादाचार्यस्यापि पार्वति | 
त्रिकालं  दन्तकाष्ठञ्च  पुष्पाञ्जलिरपि  प्रिये || ७१ ||
शङ्खे   वेदकलान्यासस्तज्ज्ञानञ्चाष्टधा  भवेत् | 
समयो दन्तकाष्ठेन  साधकः  कुसुमाञ्जलिः || ७२ ||
पुत्रं   शङ्खाभिषेकेण   बोधको   वेधसंज्ञया | 
पूर्णाभिषेकेणाचार्यः पञ्चावस्थाः प्रकीत्तीताः || ७३ ||
कुलाचारैकनिरता     गुरुभक्ता    दृढव्रताः | 
पूर्णाभिषेकपूता  ये  ते   मुक्ताश्चेह  जन्मनि || ७४ ||
पूर्णाभिषेकपूता   ये   मृताश्च  कुलनायिके | 
पुनर्लब्ध्वोत्तमं   जन्म  गुरुणा  शिवरूपिणा || ७५ ||
शुद्धाः  पूर्णाभिषेकेण  शिवसायुज्यदायिना | 
तेन  मुक्तिं  व्रजेयुस्ते शाम्भवी वाचमव्रवीत् || ७६ ||
पूर्णा(दीक्षा)भिषेकहीनो यः कौलिको मिरयते यदि | 
पिशाचत्वमवाप्नोति      यावदाहूतसंप्लवम् || ७७ ||
दीक्षा च  द्विविधा  प्रोक्ता  बाह्याभ्यन्तरभेदतः | 
क्रियादीक्षा भवेद्बाह्या वेधाख्याभ्यन्तरी मता || ७८ ||
अन्तः शुद्धिर्बहिः शुद्धिद्वीविधा परिकीत्तीता | 
अन्तरा च क्रियाशुद्धिर्बहिः शुद्धिश्च दीक्षया || ७९ ||
दीक्षया   मोक्षदीपेन  चण्डालोऽपि  विमुच्यते | 
आभ्यां विना कुलेशानि कौलिको नैव मुच्यते || ८० ||
शरीरस्य न संस्कारो जायते न च कर्मणः | 
आत्मनः  कारयेद्दीक्षामनादिकुलकुण्डलीम् || ८१ ||
दीक्षा ह्येताः कर्मसाम्ये भिन्नार्थप्रतिपादिकाः | 
अभिसन्धानतो  देवि   देशिकोत्तमशिष्ययोः || ८२ ||
मन्त्रौषधेर्यथा    हन्याद्विषशक्तिं    कुलेश्वरि | 
पशुपाशं तथा छिन्द्याद्दीक्षया मन्त्रवित् क्षणात् || ८३ ||
अस्मात् प्रवितताद्वन्धात् परसंस्थानबोधकात् | 
दीक्षैव मोक्षयेत्  पूर्वं  दिव्यं  धाम नयत्यपि || ८४ ||
उपपातकलक्षाणि     महापातककोटिशः | 
क्षणाद्दहति देवेशि दीक्षा हि विधिना कृता || ८५ ||
यया चोन्मीलितात्मानो भवन्ति पशवः शिवाः | 
सा  दीक्षा  ह्युदिता  देवि पशुपाशविमोचिका || ८६ ||
यया   दीक्षितमात्रेण  जायन्ते  प्रत्ययाः  प्रिये | 
सा दीक्षा मोक्षदा ज्ञेया शेषास्तु जनसेविकाः || ८७ ||
उपासनाशतेनापि  यां  विना  नैव  सिध्यति | 
तां दीक्षामाश्रयेद् यत्नात् श्रीगुरोर्मन्त्रसिद्धये || ८८ ||
रसेन्द्रेण  यथा  विद्धमयः  सुवर्णतां  व्रजेत् | 
दीक्षाविद्धस्तथा ह्यात्मा शिवत्वं लभते प्रिये || ८९ ||
दीक्षाग्निदग्धकर्मासौ    मायाविच्छिन्नबन्धनः | 
गतः परां ज्ञानकाष्ठां निर्बीजस्तु शिवो भवेत् || ९० ||
गतं   शूद्रस्य  शूद्रत्वं  विप्रस्यापि  च  विप्रता | 
दीक्षासंस्कारसम्पन्ने   जातिभेदो  न   विद्यते || ९१ ||
शिवलिङ्गे शिला बुद्धिं कुर्वन् यत् पापमश्नुते | 
दीक्षितश्चापि पूर्वत्वस्मृत्या  तत् पापमाप्नुयात् || ९२ ||
दार्वश्मलौहमृद्रत्नजातिलिङ्गप्रतिष्ठितम्       | 
यथोच्यते तथा शुद्धाः सर्ववर्णास्तु दीक्षिताः || ९३ ||
येन  पूजितमात्रेण  चाब्रह्मभुवनान्तिकम् | 
पूजितं तेन सर्वं स्याद्दीक्षितेन न संशयः || ९४ ||
दीक्षितस्य  न  कार्यं  स्यात्तपोभिनीयमव्रतैः | 
न    तीर्थक्षेत्रगमनैर्न   च    शरीरयन्त्रणैः || ९५ ||
अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः | 
न फलन्ति  प्रिये  तेषां  शिलायामुप्तबीजवत् || ९६ ||
देवि दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः | 
तस्मात्  सर्वप्रयत्नेन गुरुणा  दीक्षितो भवेत् || ९७ ||
द्विजो  यो  दीक्षितः  पश्चादन्त्यजः  पूर्वदीक्षितः | 
द्विजः कनिष्ठः स ज्येष्ठ इति शास्त्रार्थनिर्णयः || ९८ ||
गुरुशक्तिसुतानाञ्च यो वा स्यात् पूर्वदीक्षितः | 
गुरुवत्तेन  ते  पूज्या  नावमान्याः  कथञ्चन || ९९ ||
शिष्यो दीक्षितमात्रश्चेद् यदि स्वर्गं गतो गुरुः | 
एकसन्तानकेनैव       पूर्णसंस्कारमाचरेत् || १०० ||
दर्शनेषु  च   सर्वेषु   गुरुणा  ज्ञानशालिना | 
दीक्षितो यस्तु विधिना स युक्तो नापरः प्रिये || १०१ ||
अधिवासनपूर्वन्तु        चक्रपूजापुरःसरम् | 
दीक्षया शोधयेच्छिष्यमन्यथा निष्फलं भवेत् || १०२ ||
शूद्रसङ्करजातीनामादिशुद्धिवीधीयते       | 
पादोदकप्रदानाद्यैः कुर्यात् पापविमोचनम् || १०३ ||
एकाब्देन द्विजो योग्यः क्षत्रियो वत्सरद्वयात् | 
वैश्यो योग्यस्त्रिभिर्वर्षैश्चतुभिः  शूद्र एव च || १०४ ||
विधवायाः सुतादेशात् कन्यायाः पितुराज्ञया | 
नाधिकारः स्वतो नार्या भार्याया भर्त्तुराज्ञया || १०५ ||
स्याद्वेदाध्ययने शूद्रो नाधिकारी यथा प्रिये | 
तथैवादीक्षितश्चापि नाधिकारी कुलेश्वरि || १०६ ||
श्रीगुरुं गुरुपत्नीञ्च तत्पुत्रं शक्ति कौलिकान् | 
दीक्षितस्तोषयेद्देवि      यथाविभवविस्तरम् || १०७ ||
इति ते कथितं किञ्चित् परीक्षा गुरुशिष्ययोः | 
दीक्षाभेदादिकं  देवि  किम्भूयः श्रोतुमिच्छसि || १०८ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
गुरुशिष्यपरीक्षाकथनं नाम चतुर्दशोल्लासः || १४ ||




अथ पञ्चदशोल्लासः 

श्री देव्युवाच 
कुलेश श्रोतुमिच्छामि पुरश्चरणलक्षणम् | 
स्थानाहारादिभेदञ्च  वद  मे  परमेश्वर || १ ||
ईश्वर उवाच  
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | 
तस्य   श्रवणमात्रेण  मन्त्रतत्त्वं  प्रकाशते || २ ||
जपयज्ञात् परो यज्ञो नापरोऽस्तीह कश्चन | 
तस्माज्जपेन धर्मार्थकाममोक्षांश्च साधयेत् || ३ ||
सर्वपादान्  परित्यज्य  मन्त्रपादं   समभ्यसेत् | 
अप्रमादाद् भवेत् सिद्धिः प्रमादादशुभं फलम् || ४ ||
भोगापवर्गसङ्कल्पकल्पव्रतशुभो   जपः | 
जपध्यानमयं योगं तस्माद्देवि समाचरेत् || ५ ||
आब्रह्मबीजदोषाश्च      नियमातिक्रमोद्भवाः | 
ज्ञानाज्ञानकृताः सर्वं प्रणश्यन्ति जपात् प्रिये || ६ ||
संसारे दुःखभूयिष्ठे यदीच्छेत् सिद्धिमात्मनः | 
पञ्चाङ्गोपासनेनैव  मन्त्रजापी  व्रजेत्  सुखम् || ७ ||
पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च | 
होमो   ब्राह्मणभुक्तिश्च   पुरश्चरणमुच्यते || ८ ||
यद् यदङ्गं विहीयेत  तत्संख्याद्विगुणो जपः | 
कुर्याद् द्वित्रिचतुःपञ्च-संख्यां वा साधकः प्रिये || ९ ||
कुर्वीत चाङ्गसिद्ध्यर्थं तदशक्तौ स भक्तितः | 
तच्चेदङ्गं   विहीयेत  मन्त्री  नेष्टमवाप्नुयात् || १० ||
अन्नैश्चतुवीधैर्देवि  पदार्थैः  षड्रसान्वितैः | 
सुभोजितेषु विप्रेषु सर्वं हि सफलं भवेत् || ११ ||
सम्यक्सिद्धैकमन्त्रस्य   पञ्चाङ्गोपासनेन   च | 
सर्वमन्त्राश्च सिध्यन्ति त्वत्प्रसादात् कुलेश्वरि || १२ ||
उपदेशस्य  सामर्थ्यात्  श्रीगुरोश्च  प्रसादतः | 
मन्त्रप्रभावाद्भक्त्या च मन्त्रसिद्धिः प्रजायते || १३ ||
सिद्धमन्त्राद् गुरोर्लब्धो मन्त्रो यः सिद्धिभाग्भवेत् | 
पूर्वजन्मकृताभ्यासान्मन्त्रो    वा   शीघ्रसिद्धिदः || १४ ||
दीक्षापूर्वं      कुलेशानि   पारम्पर्यक्रमागतम् | 
न्यायलब्धश्च यो मन्त्रः स च सिद्धो न संशयः || १५ ||
सहस्रं     प्रजपेन्मन्त्रं   मातृकाक्षरसंपुटम् | 
अनुलोमविलोमेन   मन्त्रसिद्धिः   प्रजायते || १६ ||
त्रिषष्ट्यक्षरसंयुक्तमातृकाक्षरसंपुटम्        | 
क्रमोत्क्रमात्सहस्रन्तु तस्य सिद्धो भवेन्मनुः || १७ ||
मातृकाजपमात्रेण  मन्त्राणां कोटिकोटयः | 
जषिताः स्युर्न सन्देहो यतः सर्वं तदुद्भवम् || १८ ||
अनेककोटिमन्त्राणि  चित्ताकुलकराणि  च | 
मन्त्रं गुरुकृपाप्राप्तमेकं स्यात् सर्वसिद्धिदम् || १९ ||
यदृच्छया   श्रुतं   मन्त्रं   दृष्टेनापि  छलेन  च | 
पत्रे स्थितं वा चाध्याप्य तज्जपः स्यादनर्थकृत् || २० ||
पुस्तके लिखितान्मन्त्रान् विलोक्य प्रजपन्ति ये | 
ब्रह्महत्यासमं   तेषां   पातकं  व्याधिदुःखदम् || २१ ||
पुण्यक्षेत्रं   नदीतीरं   गुहा  पर्वतमस्तकम् | 
तीर्थप्रदेशाः सिन्धूनां  सङ्गमः पावनं वनम् || २२ ||
उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः | 
देवतायतनं  कूलं  समुद्रस्य  निजं  गृहम् || २३ ||
साधनेषु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् | 
अथवा   निवसेत्तत्र   यत्र  चित्तं  प्रसीदति || २४ ||
सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च  जलस्य च | 
गोविप्रकुलवृक्षाणां सन्निधौ शस्यते जपः || २५ ||
गृहे शतगुणं विद्याद् गोष्ठे लक्षगुणं भवेत् | 
कोटिर्देवालये   पुण्यमनन्तं  शिवसन्निधौ || २६ ||
म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवजीतः     | 
एकान्तपावने   निन्दारहिते   भक्तिसंयुते || २७ ||
स्वदेशे धामीके  देशे  सुभिक्षे  निरुपद्रवे | 
राजभक्तजनस्थाने      निवसेत्तापसाश्रये || २८ ||
राजानः सचिवा राज्ञां पुरुषाः प्रभवो जनाः | 
चरन्ति  येन  मार्गेण न  वसेत्तत्र  मन्त्रवित् || २९ ||
जीर्णदेवालयोद्यानगृहवृक्षतलेषु        च | 
नदीतडागकूपेषु  भूच्छिद्रादिषु  नो  वसेत् || ३० ||
दीपनाथमयष्ट्वा  यो  जपपूजादिकं  चरेत् | 
तत्फलं गृह्यते तेन तस्यायासः  फलं भवेत् || ३१ ||
वंशाश्मधरणीदारुतृणपल्लवनिमीतम्      | 
वर्जयेदासनं धीमान् दारिद्र्यव्याधिदुःखदम् || ३२ ||
तूलकम्बलवस्त्राणां   सिंहव्याघ्रमृगाजिनम् | 
कल्पयेदासनं धीमान् सौभाग्यज्ञानवृद्धिदम् || ३३ ||
पद्मस्वस्तिकवीरादिष्वासनेषूपविश्य     च | 
जपार्च्चनादिकं कुर्यादन्यथा निष्फलं भवेत् || ३४ ||
द्वादशावर्त्तयन्  बुद्ध्या  प्रणवन्तु  त्रिमात्रकम् | 
मुञ्चेत् पिङ्गलया वायुमन्तःस्थं रेचको भवेत् || ३५ ||
षोडशावर्त्तयन् तारं  पूरयेद्  बाह्यमारुतम् | 
शनकैरिडया बद्ध्वा पूरकं परिकीत्तीतम् || ३६ ||
द्वादशावर्त्तयन् तारं वायुं मध्ये च कुम्भयेत् | 
शोषयेद्वायुबीजेन        देहशोषणमीरितम् || ३७ ||
पुनश्च   पूर्ववद्वायुं   विरेच्यापूर्य  कुम्भयेत् | 
दहेत्      दहनबीजेन     देहदाहनमीरितम् || ३८ ||
पुनश्च  पूर्ववद्वायुं   विरेच्यापूर्य   कुम्भयेत् | 
शिवकुण्डलिनीयोगस्यन्दनामृतधारया       | 
आपादमस्तकं देवि प्लावयेत् प्लावनं भवेत् || ३९ ||
जपध्यानं   विनाऽगर्भः  सगर्भस्तद्विपर्ययात् | 
अगर्भाद् गर्भसंयुक्तः प्राणायामः शताधिकः || ४० ||
तपांसि    तीर्थयात्राद्या    मखदानव्रतादयः | 
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् || ४१ ||
मानसं वाचिकं पापं कायिकं वापि यत् कृतम् | 
तत्  सर्वं   निर्द्दहेच्छीघ्रं  प्राणायामत्रयं   शिवे || ४२ ||
दह्यते  ध्मार्यमानानां  धातूनाञ्च  यथा मलम् | 
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य संयमात् || ४३ ||
प्राणायामैवीशुद्धात्मा यद् यत् कर्म करोति हि | 
तत्तत्   फलत्यसन्देहस्त्वप्रयत्नेन   वा  कृतम् || ४४ ||
आगमोक्तेन मार्गेणाभ्यासं नित्यं करोति यः | 
देवताभावमाप्नोति   मन्त्रसिद्धिः   प्रजायते || ४५ ||
यो  न्यासकवचच्छन्दो  मन्त्रं  जपति  तं  प्रिये | 
विघ्ना दृष्ट्वा पलायन्ते सिंहं दृष्टवा यथा गजाः || ४६ ||
अकृत्वा न्यासजालं यो मूढात्मा प्रजपेन्मनुम् | 
वाध्यते   सर्वविघ्नैश्च   व्याघ्रैर्मृगशिशुर्यथा || ४७ ||
अक्षमाला  द्विधा  प्रोक्ता  कल्पिताऽकल्पितेति  च | 
कल्पिता मणिभिः कॢप्ता मातृका स्यादकल्पिता || ४८ ||
आदिक्षान्ताक्षवर्णत्वादक्षमालेति    कीत्तीता | 
अनुलोमविलोमाभ्यां     गणयेन्मन्त्रवित्तमः || ४९ ||
एकैकमङ्गुलीभिः  स्याद्रेखाभिर्द्दशधा  फलम् | 
मणिभिः   शतसाहस्रं   माणिक्याऽनन्तमुच्यते || ५० ||
त्रिंशद्भिः स्याद्धनं पुष्टिः सप्तविंशतिभिर्भवेत् | 
पञ्चविंशतिभिर्मोक्षं       पञ्चदश्याभिचारके |
पञ्चाशद्भिः    कुलेशानि  सर्वसिद्धिरुदीरिता || ५१ ||
अङ्गुष्ठेन  च  मोक्षः स्यात्तर्जनी  शत्रुनाशिनी | 
मध्यमां धनदां विद्यात्  शान्तिकर्मण्यनामिका | 
कनिष्ठा स्तम्भन्याकर्षण्यङ्गुली सुप्रकीत्तीता || ५२ ||
एतज्जपिष्यामीत्यादौ  सङ्कल्प्य  मन्त्रवित्तमः | 
स्थिरासनो जपित्वाऽथ देव्यै सोदकमर्पयेत् || ५३ ||
उच्चैर्जपोऽधमः प्रोक्त उपांशुमध्यमः स्मृतः | 
उत्तमो मानसो देवि त्रिविधः कथितो जपः || ५४ ||
अतिह्रस्वो     व्याधिहेतुरतिदीर्घस्तपःक्षयः | 
अक्षराक्षरसंयुक्तो यो  मन्त्रः स न सिध्यति || ५५ ||
मनसा यः स्मरेत् स्तोत्रं वचसा वा मनुं जपेत् | 
उभयं निष्फलं देवि  भिन्नभाण्डोदकं यथा || ५६ ||
जातसूतकमादौ   स्यात्तदन्ते   मृतसूतकम् | 
सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति || ५७ ||
आद्यन्तरहितं   कृत्वा  मन्त्रमावर्त्तयेद्धिया | 
सूतकद्वयनिर्मुक्तो यो मन्त्रः सर्वसिद्धिदः || ५८ ||
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः | 
शतकोटिजपेनापि तस्य सिद्धिर्न  जायते || ५९ ||
सुप्तबीजाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये | 
मन्त्रा चैतन्यसहिताः सर्वसिद्धिकराः स्मृताः || ६० ||
चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् | 
फलं   नैव  प्रयच्छन्ति  लक्षकोटिजपादपि || ६१ ||
मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् | 
शतैः सहस्रैर्लक्षैर्वा कोटिजापेन् तत् फलम् || ६२ ||
हृत्कण्ठग्रन्थिभेदश्च     सर्वावयववर्द्धनम् | 
आनन्दाश्रु च पुलको देहावेशः कुलेश्वरि | 
गद्गदोक्तिश्च सहसा जायते  नात्र संशयः || ६३ ||
सकृदुच्चरितेऽप्येवं    मन्त्रे   चैतन्यसंयुते | 
दृश्यन्ते  प्रत्यया  यत्र  पारम्पर्य   तदुच्यते || ६४ ||
रुद्धः कूटाक्षरो मुग्धो  बद्धः  क्रुद्धश्च  भेदितः | 
बालः  कुमारो  युवकः प्रौढो  वृद्धश्च गवीतः || ६५ ||
स्तम्भितो र्मूच्छितो मत्तः कीलितः खण्डितः शठः | 
मन्दः पराङ्मुखश्छिन्नो  बधिरोऽन्धस्त्वचेतनः || ६६ ||
किङ्करः क्षुधितः स्तब्धः स्थानभ्रष्टञ्च पीडितः | 
निःस्नेहो विकलो ध्वस्तो निर्जीवः खण्डितारिकः || ६७ ||
सुप्तस्तिरस्कृतो   नीचो   मलिनश्च  दुरासदः | 
निःसत्त्वो   निजीतो  दग्धचपलश्च  भयङ्करः || ६८ ||
निस्त्रिंशो निन्दितः क्रूरः फलहीनो निकृन्तनः | 
निर्वीर्यो भ्रमितो शप्त रुग्णः कष्टोऽङ्गहीनकः | 
जडो रिपुरुदासीनो  लज्जितो  मोहितोऽलसः || ६९ ||
षष्ट्येतान् मन्त्रदोषांश्च योऽज्ञात्वा प्रजपेन्मनुम् | 
सिद्धिर्न   जायते   तस्य  लक्षकोटिजपादपि || ७० ||
कथ्यन्ते  दश  संस्कारा  मन्त्रदोषहराः  प्रिये | 
जननं   जीवनं   पश्चात्ताडनं   बोधनं   ततः || ७१ ||
अभिषेकोऽथ   विमलीकरणाप्यायने   तथा | 
तर्पणं दीपनं  गुप्तिः  संस्काराः कुलनायिके || ७२ ||
शाणोल्लोढानि शस्त्राणि यथा स्युनीशितानि वै | 
मन्त्राश्च   स्फूत्तीमायान्ति  संस्कारैर्द्दशभिस्तथा || ७३ ||
भक्ष्यं हविष्यं शाकादि विहितानि फलान्यपि | 
मूलं शक्तु यवानाञ्च शस्तान्येतानि मन्त्रिणाम् || ७४ ||
यस्यान्नपानपुष्टाङ्गः   कुरुते   धर्मसञ्चयम् | 
अन्नदातुः फलं चार्द्धं कर्त्तुश्चार्द्धं न संशयः || ७५ ||
तस्मात् सर्वप्रयत्नेन परान्नं वर्जयेत् सुधीः | 
पुरश्चरणकाले  च काम्यकर्मस्वपीश्वरि || ७६ ||
जिह्वा  दग्धा  परान्नेन  करौ  दग्धौ  प्रतिग्रहात् | 
मनो दग्धं परस्त्रीभिः कार्यसिद्धिः कथं भवेत् || ७७ ||
इन्द्राग्निरुद्रग्रहदृग्वेदार्कदिक्षडष्टसु           | 
षोडशमनुबाणाब्धितिथित्रयोदशस्वपि         || ७८ ||
लिखेत् षोडशकोष्ठेषु मातृकार्णान् विचक्षणः | 
स्वनामाद्यक्षराद्       यावन्मन्त्राद्यक्षरदर्शनम् || ७९ ||
सिद्धादीन् कल्पयेन्मन्त्री कुर्यात् साध्यादिभिः पुनः | 
चतुश्चतुवीभागेन   सिद्धादीन्  गणयेत्  पुनः || ८० ||
सिद्धसिद्धो जपात् सिद्धो द्विगुणात् सिद्धसाध्यकः | 
सिद्धसुसिद्धोऽर्द्धजपात्   सिद्धारिर्हन्ति  बान्धवान् || ८१ ||
साध्यसिद्धोऽतिसंक्लेशात् साध्यसाध्यो निरर्थकः | 
साध्यसुसिद्धो  भजनात्  साध्यारिहन्ति  गोत्रजान् || ८२ ||
सुसिद्धसिद्धोऽर्द्धजपात्तत्साध्यस्तु यथोक्ततः | 
तत्सुसिद्धो ग्रहादेव  सुसिद्धारिः स्वगोत्रहा || ८३ ||
अरिसिद्धः  सुतं  हन्यादरिसाध्यस्तु  योषितम् | 
तत्सुसिद्धः कुलं हन्ति स्वात्मानं हन्ति तद्रिपुः || ८४ ||
सिद्धार्णा बान्धवाः प्रोक्ताः साध्यास्ते सेवकाः स्मृताः | 
सुसिद्धाः पोषका ज्ञेयाः शत्रवो घातकाः स्मृताः || ८५ ||
बान्धवा नवबार्णकाः स्युद्विषड्दश सेवकाः | 
वह्निरुद्रमुनयस्तु(पोषका) द्वादशाष्टकचतुरस्तु(घातकाः) |८६
प्राप लोभा  पटु  प्राह्यं  रुद्रस्याद्रिरुरुः करम् | 
लोक लोप पटुः प्रायः खलोघोभेदिताः प्रिये | 
वर्णाः क्रमात् स्वरान्तौ  तु रेवत्यंशगतौ तदा || ८७ ||
जन्म सम्पद् विपत् क्षेम प्रत्यरिः साधको वधः | 
मित्रं   परममित्रञ्च  जन्मादीनि   पुनः   पुनः || ८८ ||
वालं गौरं  खुरं  शोणं  शमीशोभेति  राशिषु | 
क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृता || ८९ ||
लग्नो   धनं   भ्रातृबन्धुपुत्रशत्रुकलत्रकाः | 
मरणं  धर्मकर्माय  व्यया  द्वादश  राशयः || ९० ||
स्वराशेर्मन्त्रशश्यन्तं गणनीयं विचक्षणैः | 
अज्ञाते  राशिनक्षत्रे  नामाद्यक्षरराशितः || ९१ ||
नामाद्यक्षरमारभ्य     यावन्मन्त्रादिमाक्षरम् | 
त्रिधा कृत्वा स्वरैभिन्द्यात्तदन्यद्विपरीतकम् || ९२ ||
कृत्वाधिकमृणं ज्ञेयं  ऋणी चेन्मन्त्रवित्तमः | 
स्वयमृणी   चेत्तन्मन्त्रं  जपेत्पूर्वमृणी  यतः || ९३ ||
वायवग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् | 
पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धिसम्भवाः | 
कादयः   पञ्चशः   षक्षसहान्ताश्च  प्रकीत्तीताः || ९४ ||
महीसलिलयोमीत्रमनिलानलयोरपि       | 
शात्रवं  वैपरीत्येन  मैत्रं  सर्वत्र  चापरम् || ९५ ||
परस्परविरुद्धानां  वर्णानां  यत्र  सङ्गतिः | 
वर्जयेत्तादृशं  मन्त्रं नाशकृत्तत्  कुलेश्वरि || ९६ ||
एकाक्षरे   तथा   कूटे  त्रैपुरे  मन्त्रनायिके | 
स्त्रीदत्ते स्वप्नलब्धे च सिद्धादीन्नैव शोधयेत् || ९७ ||
मन्त्रसिद्धोपदिष्टेषु   चतुराम्नायजेषु    च | 
मालामन्त्रेषु देवेशि सिद्धादीन्नैव शोधयेत् || ९८ ||
नृसिंहार्कवराहाणां   प्रासादप्रणवस्य   च | 
सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् || ९९ ||
मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः | 
न   सिध्यति  वरारोहे  लक्षकोटिजपादपि || १०० ||
वादार्थं पठ्यते विद्या परार्थं क्रियते जपः | 
ख्यात्यर्थं दीयते दानं  कथं सिद्धिर्वरानने || १०१ ||
धनार्थं गम्यते तीर्थं दम्भार्थं क्रियते तपः | 
कार्यार्थे देवतापूजा कथं सिद्धिर्नु जायते || १०२ ||
अमेध्येन  तु   देहेन  न्यासं  देवार्चनं  जपम् | 
होमं कुवन्ति चेन्मूढास्तत् सर्वं निष्फलं भवेत् || १०३ ||
विण्मूत्रत्यागशेषादियुक्तः कर्म करोति यः | 
जपार्चनादिकं  सर्वमपवित्रं  भवेत्   प्रिये || १०४ ||
मलिनाम्बरकेशादिमुखदौर्गन्धसंयुतः       | 
यो  जपेत्तं  दहत्याशु  देवता  सुजुगुप्सिता || १०५ ||
आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् | 
नीचाङ्गस्पर्शनं  कोपं  जपकाले  विवर्जयेत् || १०६ ||
अत्याहारः   प्रलापश्च   प्रजल्पो  नियमाग्रहः | 
अन्यासङ्गश्च लौल्यञ्च षड्भिर्मन्त्रो न सिध्यति || १०७ ||
उष्णीशी कञ्चुकी नग्नो मुक्तकेशो गणावृतः | 
अपवित्रोत्तरीयश्चाशुचिर्गच्छंश्च     नो   जपेत् || १०८ ||
जाड्यं दुःखं तृणच्छेदं विवादं वा मनोरथम् | 
बहिस्तु   देहवायुञ्च  जपकाले  विवर्जयेत् || १०९ ||
शान्तः शुचिमिताहारो भूशायी भक्तिमान् वशी | 
निर्द्वन्द्वः  स्थिरधीमौनी  संयतात्मा  जपेत्  प्रिये || ११० ||
विश्वासास्तिक्यकरुणाश्रद्धानियमनिश्चयैः | 
सन्तोषौत्सुक्यधर्मादिगुणैर्युक्तो   जपेन्नरः || १११ ||
सुगन्धिपुष्पाभरणवस्त्रादिभिरलङ्कृतः    | 
तस्य हस्तगता सिद्धिर्नान्यस्य जपकोटितः || ११२ ||
तन्निष्ठस्तद्गतप्राणस्तच्चित्तस्तत्परायणः   | 
तत्पदार्थानुसन्धानं कुर्वन् मन्त्रं जपेत् प्रिये || ११३ ||
जपात् श्रान्तः पुनर्ध्यायेद्ध्यानात् श्रान्तः पुनर्जपेत् | 
जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिध्यति || ११४ ||
इति ते कथितं  किञ्चित्  पुरश्चरणलक्षणम् | 
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि || ११५ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
पुरश्चरणादिकथनं नाम पञ्चदशोल्लासः || १५ ||




अथ षोडशोल्लासः

श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि करुणामृतवारिधे | 
काम्यकर्मविधानञ्च  वद  मे परमेश्वर || १ ||
ईश्वर उवाच  
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि | 
तस्य  श्रवणामात्रेण  प्रयोगनिपुणो  भवेत् || २ ||
मन्त्री विशुद्धहृदयः पूर्वोक्तनियमान्वितः | 
श्रीप्रासादपरामन्त्रं  तत्त्वलक्षं जपेत् प्रिये || ३ ||
दशांशं   जुहुयाद्देवि   संस्कृते  हव्यवाहने | 
दशांशं तर्पयेद्दुग्धैः सलिलैः शालितण्डुलैः || ४ ||
गन्धपुष्पाक्षताकल्पधनवस्त्रादिभिः  प्रिये | 
भक्ष्याथोन्यान्नपानाद्यैर्हव्यद्रव्यैर्मनोहरैः    || ५ ||
तोषयेद् योगिनीचक्रं यथाविभवविस्तरम् | 
एवं       न्यासजपध्यानसहोमार्च्चनतर्पणः || ६ ||
मन्त्री सिद्धिमनुर्द्देवि साक्षात् परशिवो भवेत् | 
ततः स्वमनसोऽभीष्टान् प्रयोगान्  कुलनायिके || ७ ||
मन्त्रेणानेन   मतिमान्  साधयेद्   भुक्तिमुक्तये | 
सिद्धमन्त्रस्य सिध्यन्ति षट् कर्माणि न संशयः | 
नैव   सिध्यन्त्यसिद्धस्य   देवताशापमाप्नुयात् || ८ ||
काम्यप्रयोगकर्त्तॄणां  परलोको  न  विद्यते | 
प्रयोगसिद्धिरेवैषां   फलमन्यन्न  तु   प्रिये || ९ ||
एकस्यापि विधानस्य न कुत्रापि फलद्वयम् | 
देवेशि दृश्यते तस्मान्निष्कामो देवतां यजेत् || १० ||
होमतर्पणमन्त्राद्यैर्न्यासध्यानविशेषकैः       | 
आत्मनश्च परस्यापि षट् कर्माणि समाचरेत् || ११ ||
प्रयोगान्ते  चक्रपूजां   विधिनैव   समाचरेत् | 
लक्षमेकं   जपेन्मन्त्रं   न्यासध्यानसमन्वितः || १२ ||
प्रयोगदोषशान्त्यर्थमात्मरक्षार्थमेव         च | 
न चेत् फलं न चाप्नोति देवताशापमाप्नुयात् || १३ ||
तिथिवारञ्च    नक्षत्रं   योगमासर्त्तु   पक्षकम् | 
दीपेशं कुलचक्राणि ज्ञात्वा कर्माणि साधयेत् || १४ ||
ऋषिष्छन्दोदेवताङ्गन्यासध्यानार्च्चनादिकम्       | 
बीजं शक्तिं कीलकञ्च ज्ञात्वा मन्त्राणि साधयेत् || १५ ||
पुत्रबान्धवदाराश्च       राशिवर्णानुकूलता | 
भूतमैत्रीं तथोद्यन्तं ज्ञात्वा मन्त्राणि साधयेत् || १६ ||
मन्त्रविद्याऽभेदरूपं   निद्राञ्च   बोधरूपकम् | 
स्त्रीपुंनपुंसकादींश्च ज्ञात्वा कर्माणि साधयेत् || १७ ||
स्वरवर्णपदद्वित्वं        विदुश्चैतन्यसूतकम् | 
हृस्वदीर्घप्लुतादींश्च ज्ञात्वा मन्त्राणि साधयेत् || १८ ||
पञ्चशुद्ध्यासनप्राणायामन्यासाक्षमालिकाः    | 
दोषसंस्कारमुद्रादीन् ज्ञात्वा कर्माणि साधयेत् || १९ ||
तथैवासनदिग्बन्धनाडीबन्धादिसङ्गतिम्      | 
देवताकालमुद्रादि ज्ञात्वा कर्माणि साधयेत् || २० ||
साध्यसाधककर्माणि     लेखनीद्रव्यपञ्चकम् | 
स्थानं यन्त्रं प्रमाणञ्च ज्ञात्वा कर्माणि साधयेत् || २१ ||
उत्पत्तिवासनावर्णमूत्तीसंस्कारसंस्थितम्      | 
कुण्डद्रव्यप्रमाणादीन् ज्ञात्वा होमं समाचरेत् || २२ ||
अग्निप्रभां   धूम्रवर्णध्वनिगन्धशिखाकृतीः | 
शुभचेष्टादिकं ज्ञात्वा कल्पयेत्तु शुभाशुभम् || २३ ||
मन्त्रतत्त्वानुसन्धानदेहावेशादिलक्षणम्       | 
मन्त्रोच्चारणभेदञ्च ज्ञात्वा कर्माणि साधयेत् || २४ ||
मण्डलं कलसद्रव्यशुद्धि गन्धाष्टकादिकम् | 
दीक्षानामप्रदानादि  ज्ञात्वा दीक्षां समाचरेत् || २५ ||
नित्यं नैमित्तिकं काम्यं नियमं नाम वासनाम् | 
पूजाधारणयन्त्रादि ज्ञात्वा  कर्माणि साधयेत् || २६ ||
पूजागृहप्रवेशादिकुलपूजकलक्षणम्          | 
कुलद्रव्यादिशुद्धिञ्च  ज्ञात्वा  पूजां समाचरेत् || २७ ||
अन्तर्यागं   बहिर्यागं   घटार्घ्यस्थापनादिकम् | 
पञ्चपुष्पाञ्जलिं देवि ज्ञात्वा कर्माणि साधयेत् || २८ ||
पात्राधारालिपिशितं     कलामुद्राध्वमेलनम् | 
बटुकादिबलिं देवि ज्ञात्वा कर्माणि साधयेत् || २९ ||
कुलाकुलाख्यसहजशक्तिभेदञ्च    लक्षणम् | 
शुभलक्षणसंयुक्तं   स्त्रीसंस्कारार्चनादिकम् | 
देवि सम्भोगकालञ्च ज्ञात्वा शक्तिं परिग्रहेत् || ३० ||
पानभेदं   फलोल्लासप्रमाणं  स्थितिलक्षणम् | 
तत्त्वत्रयस्य स्वीकारं ज्ञात्वा कुलसुधां पिबेत् || ३१ ||
चक्रप्रवेशं   प्रणति   स्थिति  निर्गमनं  प्रिये | 
योगिनीभोगचेष्टादि ज्ञात्वा भवति कौलिकः || ३२ ||
रत्युल्लासनकालञ्च         कुलदीपनिवेदनम् | 
शान्तस्तवादिपठनं ज्ञात्वा स्यात् कुलदेशिकाः || ३३ ||
मिथुनानुग्रहाष्टाष्टपुष्पिणीकन्यकार्च्चनाम्    | 
विशेषतिथिपूजाञ्च ज्ञात्वा कर्माणि साधयेत् || ३४ ||
आम्नायभेदं   सङ्केतं  पुष्पसङ्कोचमेव   च | 
गुरुत्रयं सम्प्रदाय ज्ञात्वा कर्माणि साधयेत् || ३५ ||
श्रौतविद्याकुलाचारं   मनुभेदञ्च  पादुकाम् | 
चरणत्रितयं देवि ज्ञात्वा कर्माणि साधयेत् || ३६ ||
स्वाधिकस्य  समन्यूनकौलिकाराधनक्रमम् | 
सिद्धमुद्राधरार्चादि ज्ञात्वा कर्माणि साधयेत् || ३७ ||
गुर्वग्निप्रेतसंस्कारमन्त्येष्टिं    दिग्बलिक्रमम् | 
मोक्षदीपविधानादि ज्ञात्वा कर्माणि साधयेत् || ३८ ||
इत्याद्याः कथिताः किञ्चिद्विशेषाः कुलनायिके | 
सर्वेषामेव   मन्त्राणां   विधिः  साधारणक्रमः || ३९ ||
मन्त्राः  पुरुषदेवाः  स्युवीद्याः  स्त्रीदेवताः  प्रिये | 
मन्त्राः  पुंसो  हुंफडन्ताः  प्राणे  चरति  दक्षिणे | 
प्रबुध्यन्तेऽग्निजायान्ता  विद्याः स्त्रीदेवताः प्रिये || ४० ||
वामे  प्राणे  प्रबुध्यन्ते  नमोऽन्ताः स्युर्नपुंसकाः | 
नाडीद्वयगते   प्राणे  सर्वे  बोधं  प्रयान्ति   च || ४१ ||
शान्तिके   मनवः  सौम्या  भूयिष्ठेन्द्वमृताक्षराः | 
स्वाहान्ताः  स्युवीयत्प्रायाश्चाग्नेयाः  क्रूरकर्मसु || ४२ ||
फट् च पुष्टौ वषट् वश्ये हुंफट् चैव  तु मारणे | 
स्तम्भने च नमः प्रोक्तं स्वाहा शान्तिकपौष्टिके || ४३ ||
होमतर्पणयोः    स्वाहा   न्यासपूजनयोर्नमः | 
मन्त्रान्ते योजयेन्मन्त्री जपकाले यथास्थितम् || ४४ ||
शान्तिके राजतं ताम्रं  भूर्जपत्रन्तु  वश्यके | 
सर्वकार्येषु सौवर्णे क्रूरे स्यात् प्रेतकर्पटम् || ४५ ||
त्रिगन्धं शान्तिके प्रोक्तं पञ्चगन्धञ्च वश्यके | 
सर्वकार्यंष्वष्टगन्धं   क्रूरे  चाष्टविषाणि  च || ४६ ||
शान्तके लेखनी दूर्वा वश्यादौ शिखिपुच्छिका | 
हेम्ना तु सर्वकार्याणि क्रूरे स्यात् काकपुच्छिका || ४७ ||
स्वगृहे शान्तिकर्मं स्याद्वश्याद्यं चण्डिकालये | 
सर्वकार्यं   देवगृहे  श्मशाने  क्रूरकर्म  च || ४८ ||
लक्षणान्येवमादीनि ज्ञात्वा गुरुमुखात् प्रिये | 
सर्वकर्माणि कुर्वीत  मन्त्री  तत्तत्फलाप्तये || ४९ ||
मूले प्रासादबीजञ्च तरुणादित्यसन्निभम् | 
उत्तमाङ्गे   पराबीजं   चन्द्रायुतसमप्रभम् || ५० ||
परस्परजनस्पर्शजनितानन्दनिर्भरः      | 
मूलादिब्रह्मरन्ध्रान्तं अनवच्छिन्नरूपिभिः || ५१ ||
परामृतरसासेकैः सिक्तमापादमस्तकम् | 
आत्मानं भावयेन्नित्यं स भवेदजरामरः || ५२ ||
एवं ध्यात्वा कुलेशानि सर्वकर्माणि साधयेत् | 
सिध्यन्ति  तरसा देवि नात्र कार्या विचारणा || ५३ ||
ध्यानभेदं प्रवक्ष्यामि सर्वसिद्धिकरं प्रिये | 
ईप्सितं लभते येन पूजाहोमादिकं विना || ५४ ||
स्थाने मनोहरे देवि साधकः स्थिरमानसः | 
स्थितो  मृद्वासने ध्यायेद् गुरुवन्दनपूर्वकम् || ५५ ||
मस्तकस्थितसम्पूर्णचन्द्रमण्डलमध्यगम्    | 
श्रीप्रासादपराबीजं      षोडशस्वरसंयुतम् || ५६ ||
शुद्धस्फटिककर्पूरकुन्देन्दुधवलं      प्रिये | 
सच्चन्द्रबिम्बसञ्जातसुधाप्लावितविग्रहम्  || ५७ ||
आत्मानं भावयेन्नित्यं निश्चलेनान्तरात्मना | 
सर्वारिष्टं विलीयेत शुभश्रीपुष्टिकारकम् || ५८ ||
श्रीप्रासादपरामन्त्रमष्टोत्तरसहस्रकम्       | 
तरुणोल्लाससहितो मण्डलं पूजयेत् प्रिये || ५९ ||
अपमृत्युमहारोगजरामरणजं      भयम् | 
ग्रहापस्मारवेतालभूतोन्मादादिजं   भयम् || ६० ||
जित्वाधिव्याधिरहितः  पुत्रपौत्रसमन्वितः | 
जीवेद्वर्षशतं  साग्रं  पूजितः  सर्वमानवः || ६१ ||
अश्रुतं बुध्यते शास्त्रं  कविता निर्मला भवेत् | 
चिन्मयो जायते साक्षान्नात्र कार्या विचारणा || ६२ ||
ज्वरोन्मादादिरोगेषु    जपेच्छिरसि   चिन्तयन् | 
शूलवातव्रणग्रन्थिमूत्रकृच्छ्रादिसम्भवे         | 
तत्तत्स्थानेषु  देवेशि   पूर्ववच्चिन्तयन्   जपेत् || ६३ ||
महारोगेषु   जातेषु    सर्वाङ्गेषु   विचिन्तयेत् | 
तत्क्षणाच्छान्तिमायान्ति रोगाः सर्वे न संशयः || ६४ ||
दशेन्द्रियेषु यो ध्यायेल्लभेदिन्द्रियसौष्ठवम् | 
यत्र बीजं  स्मरेत्तत्र  तत्फलं भवति ध्रुवम् || ६५ ||
सदा   यश्चिन्तयेन्मूध्नी   स  भवेदजरामरः | 
सर्वरोगप्रहरणं     विद्यारोग्यप्रदं     प्रिये || ६६ ||
अस्मात् परतरध्यानं नास्ति सत्यं न संशयः | 
सात्त्विकध्यानजं   देवि   फलमेतदुदीरितम् || ६७ ||
शान्तिकर्माणि सर्वाणि विधिनानेन कारयेत् | 
विधिनानेन  देवेशि  सौभाग्यमतुलं   भवेत् || ६८ ||
द्वादशाधारपद्मेषु      द्वादशस्वरसंयुतम् | 
बीजं सञ्चिन्तयेद् यस्तु स भवेदजरामरः || ६९ ||
षडाधारेषु षड्दीर्घयुक्तं बीजं विचिन्तयेत् | 
षडाधारस्थदेवीभिः पूज्यते कुलनायिके || ७० ||
हृत्पद्मकणीकामध्ये  सूर्यमण्डलसंस्थितम् | 
पराप्रासादबीजन्तु     तरुणारुणसन्निभम् || ७१ ||
जवाबन्धूकसिन्दूरपद्मरागप्रभोज्ज्वलम्    | 
पञ्चविशतिभिः स्पर्शाक्षरैः संवीतमम्बिके || ७२ ||
तत्प्रभापटलच्छायाव्यक्तीकृतजगत्त्रयम्    | 
आत्मानञ्च   स्मरेद्देवि  निश्चलेनान्तरात्मना || ७३ ||
पराप्रासादबीजन्तु   तरुणोल्लाससंयुतः | 
अष्टोत्तरसहस्रन्तु मण्डलं प्रजपेत् सुधीः || ७४ ||
देवदानवगन्धर्वसिद्धकिन्नरगुह्यकान्           | 
विद्याधरान्मुनीन् यक्षान्  नागानप्सरसः स्त्रियः || ७५ ||
सिंहव्याघ्रोरगेन्द्रादीनन्यान्         दुष्टमृगानपि | 
वश्यान् करोत्यसन्देहं  किं  पुनर्मानवादिकान् || ७६ ||
महदैश्वर्यमाप्नोति स्वर्गभोगादिकं प्रिये | 
यस्य मूध्नी स्मरन् जप्यात् स वश्यो जायते हठात् || ७७ ||
राजसध्यानजं    देवि   फलमेतदुदीरितम् | 
वश्यकर्माणि सर्वाणि विधिनानेन कारयेत् || ७८ ||
सर्ववश्यकरं     देवि    सर्वैश्वर्यफलप्रदम् | 
अस्मात् परतरं ध्यानं नास्ति सत्यं न संशयः || ७९ ||
लिखेत्त्रिकोणं षट्कोणं अष्टारञ्च महीपुरम् | 
मूलमन्त्रं  लिखेन्मध्ये  साध्यनामसमन्वितम् || ८० ||
षट्कोणेषु षडङ्गानि विलिखेत् परमेश्वरि | 
केशरेषु स्वरानष्टौ  वर्गान्  पत्रेषु  पार्वति || ८१ ||
भूगृहस्य  चतुष्कोणे  विलिखेन्मूलमम्बिके | 
पञ्चवर्णरजोभिश्च    शुभं    दृष्टिमनोहरम् || ८२ ||
एवं यन्त्रं  समालिख्य  विधिवन्मन्त्रवित्तमः | 
एकत्रिषड्वसुचतुःकलसान् स्थापयेत् प्रिये || ८३ ||
मध्यादिचतुरस्रान्तं द्वात्रिंशत् कलसान् प्रिये | 
अथवाष्टादशेशानि सप्त  वा  दश वा प्रिये || ८४ ||
चतुरो वाप्यथैकं वा कुर्यात् साधकसत्तमः | 
अस्थिरक्तशिरातन्तुमृण्मांसं रुधिरं जलम् || ८५ ||
चर्मवस्त्रशिलाकूर्मनारिकेलफलं   शिरः | 
मन्त्रप्राणसमायुक्तां यजेत्  कलसदेवताम् || ८६ ||
सावित्रीनापराङ्गानि मातरोज् भैरवान्विताः | 
विदिक्षु   गुरुविघ्नेशदुर्गाक्षेत्रपतीन्  प्रिये || ८७ ||
कलसेषु  समभ्यर्च्य  विधिवन्मन्त्रवित्तमः | 
अभिषिञ्चेत् प्रियं शिष्यं सर्वपापप्रशान्तये || ८८ ||
आयुः श्रीकान्तिसौभाग्यविद्यारोग्यादिकं भवेत् | 
राजाभिषिक्तो   लभते  चतुःसागरगां   महीम् || ८९ ||
अकिञ्चनोऽभिषिक्तश्च  महदैश्वर्यमाप्नुयात् | 
वन्ध्याभिषिक्ता लभते पुत्रं सर्वगुणान्वितम् || ९० ||
भूतापमृत्युरोगाद्या  विनश्यन्ति   न   संशयः | 
त्रिलौहे वापि भूर्जे वा  लिखित्वा यन्त्रमुत्तमम् || ९१ ||
विधृतं  बाहुना   देवि   सर्वरक्षाकरं   भवेत् | 
आयुरारोग्यमैश्वर्यं  विद्यालाभं  यशो  जयम् || ९२ ||
यद् यत्  स्वमनसोऽभीष्टं  तत्तदाप्नोत्यसंशयः | 
खड्गवश्यं वयःस्तम्भं यक्षिण्यञ्जनपादुकाम् || ९३ ||
अणिमाद्यष्टसिद्ध्यादि      महारसरसायनम् | 
सञ्जीवयोगगुटिकाप्रमुखाखिलसिद्धयः      || ९४ ||
पराप्रासादमन्त्रज्ञैर्दृश्यन्ते     नात्र    संशयः | 
षट्  कर्माणि  प्रयुञ्जीत नान्यथा भवति प्रिये || ९५ ||
पीतद्रव्यैर्हरिद्राद्यैः     समित्पत्रफलादिभिः | 
जुहुयात्   पूर्ववन्मन्त्री   देवताध्यानतत्परः || ९६ ||
वाक्श्रोत्रगतिदृक्सेनानदीग्रहरिपून्     प्रिये | 
नानादुष्टमृगान्  देवि  स्तम्भयेन्नात्र  संशयः || ९७ ||
ग्रहवेगादिदुष्टानां      विनाशनकरं     प्रिये | 
अस्मात् परतरं ध्यानं नास्ति सत्यं न संशयः || ९८ ||
तामसध्यानजं    देवि   फलमेतदुदीरितम् | 
दुष्टमारणकर्माणि  विधिनानेन   साधयेत् || ९९ ||
इत्यादि ध्यानभेदेन ज्ञात्वा गुरुमुखात् प्रिये | 
षट् कर्माणि प्रयुञ्जीत नान्यथा वीरवन्दिते || १०० ||
खदिरश्वेतमन्दारसितभानुसमिद्वरैः      | 
पलाशोदुम्बराश्वत्थप्लक्षापामार्गसत्वचैः || १०१ ||
नन्द्यावर्त्तसिताम्भोजहयारिकुसुमादिभिः  | 
सितैरन्यैः शुभैर्द्र्रव्यैः समित्पत्रफलान्तरः || १०२ ||
भक्ष्यैश्च   पायसैर्दूर्वासहितैस्तिलतण्डुलैः | 
मधुरत्रयसंयुक्तैर्मन्त्रवित्    कुलनायिके || १०३ ||
एकेन  वाथ   सर्वैर्वा   तत्कार्यगुरुलाघवम् | 
ज्ञात्वा  देवि  सहस्रन्तु  जुहुयादथ  पञ्च  वा || १०४ ||
अयुतं  नियुतं  वापि  प्रयुतं  वा  कुलेश्वरि | 
तत्तत्कर्मोदिते   कुण्डे  संस्कृते   हव्यवाहने || १०५ ||
आवाह्य देवतामस्मिन् ध्यात्वा सावरणां प्रिये | 
विधिवज्जुहुयाद्देवि       तद्गतेनान्तरात्मना || १०६ ||
सर्वरोगव्रणोन्मादापस्मारोत्पातयक्ष्मजम्     | 
सर्वदुःखप्रशमनं    तत्क्षणान्नात्र   संशयः || १०७ ||
अनेन सर्वशान्तिञ्च ज्ञानं  विद्यां लभेत् प्रिये | 
कदम्बाशोकवकुलपुन्नागाम्रमधूकजैः    || १०८ ||
चम्पकद्वयपालाशपाटलश्रीकपित्थकैः   | 
मालतीमल्लिकाजातिबन्धूकारुणपङ्कजैः || १०९ ||
कल्हारारुणमन्दारयूथिकुन्दजवादिभिः   | 
सनारिकेलकदलीद्राक्षेक्षुपृथुकैरपि      || ११० ||
चन्दनागुरुकर्पूररोचनाकुंकुमादिभिः     | 
रक्तैरन्यैः  शुभद्रव्यैः समिधृतफलोद्भवैः || १११ ||
पूर्ववज्जुहुयाद्देवि विधिवन्मन्त्रवित्तमः    | 
महीपतींश्च पुरुषान् कान्ता यौवनगवीताः || ११२ ||
सिंहान् मत्तान् तथा व्याघ्रान् मृगान् दुष्टान् गजानपि | 
सिद्धदेवाप्सरोयक्षगन्धर्ववनितास्तथा    | 
देवानपि कुलेशानि वशयेन्नात्र संशयः || ११३ ||
वाजीलवणहोमेन स्त्रियमाकर्षयेद् ध्रुवम् | 
विधिनानेन देवेशि सौभाग्यमुत्तमं लभेत् || ११४ ||
बहुनात्र किमुक्तेन त्रिषु लोकेषु मन्त्रिणाम् | 
अनेन मन्त्रराजेन नासाध्यं विद्यते क्वचित् || ११५ ||
ऊर्ध्वाम्नायैकनिष्णातः पराप्रासादमन्त्रवित् | 
कुलार्णवार्थतत्त्वज्ञो जीवन्मुक्तः कुलेश्वरि || ११६ ||
सुतीर्थे वाप्यतीर्थे वा जलमध्येऽपि वा वसन् | 
पराप्रासादमन्त्रज्ञो   मुक्त  एव   न  संशयः || ११७ ||
दिक्पीठक्षेत्रमुद्रादिवृक्षवल्लीमठादिकाः  | 
ज्ञेया भैरवदेव्यश्च ऊर्ध्वाम्नायस्य पार्वति || ११८ ||
निम्बकारस्करोन्मत्तकण्टकीविप्रदन्तिभिः     | 
अस्थिकण्टकवृक्षाद्यैर्द्रव्यैरशुभसाधनैः       || ११९ ||
वटुकैः    कृष्णवर्णैश्च   समित्पत्रफलान्तरैः | 
गृहधूमचिताङ्गारत्रिकट्वम्लचिताञ्जनैः        || १२० ||
उन्मत्तरससंसिक्तै  पिष्ट्वा  सम्यक्  प्रसेचितैः | 
साध्यपादरजोभिश्च      चिताभस्मसमन्वितैः || १२१ ||
साध्यप्रतिकृतिं       कुर्यादेकनक्षत्रवृक्षजाम् | 
सम्यक्प्रतिष्ठितप्राणां कुण्डस्योपरि लम्बयेत् || १२२ ||
खनेत्तत्प्रतिमां  मन्त्री  कुण्डस्याधो  यथाविधि | 
मलीमसेन       मनसा     चोग्रदृष्टिरमर्षणः || १२३ ||
चितानले  विषतरु  सप्तकाष्ठसमेधिते | 
तद्द्रव्यैर्जुहुयाद्देवि  विधिवन्मन्त्रवित्तमः || १२४ ||
कुर्याद्विद्वेषणोच्चाटमारणानि न संशयः | 
शान्तिके सात्त्विकं देवि श्वेतवर्णं विचिन्तयेत् || १२५ ||
वश्ये  तु  राजसं  देवि  रक्तवर्णं  विचिन्तयेत् | 
तामसं   क्रूरकार्येषु  कृष्णवर्णं   विचिन्तयेत् || १२६ ||
आत्मरक्षां पुरा कृत्वा पश्चात् कर्माणि साधयेत् | 
योऽन्यथा  कुरुते  मोहात्   स  भवेद्देवतापशुः || १२७ ||
तस्माद्देवि  महाषोढान्यासं पूजां बलिं सुधीः | 
कृत्वा कर्माणि कुर्वीत नान्यथा वीरवन्दिते || १२८ ||
मूलाधारसरोजान्तर्वह्निमध्यगतं       प्रिये | 
पराप्रासादबीजं तत् कल्पान्ताग्निसमप्रभम् || १२९ ||
प्रतिलोमसु   संवीतं   दशभिर्व्यापकाक्षरैः | 
स्वयं   कालानलसमः  सर्वभूतभयङ्करः || १३० ||
दक्षिणाशामुखो  भूत्वात्युग्रदृष्टिमलीमसः | 
यौवनोल्लाससहितः  पराप्रासादसंज्ञकम् || १३१ ||
मन्त्रं  मण्डलकं  जप्यादष्टोत्तरसहस्रकम् | 
अनिष्टकारिणः सत्त्वान् कलहायासकारिणः || १३२ ||
वृथा द्वेषकरान्  क्रूरान्  सपर्याविघ्नकारिणः | 
भूतोपग्रहवेतालान्  पिशाचान्   यक्षराक्षसान् || १३३ ||
इत्यादिदुष्टजन्तूंश्च  सदा  क्लेशकरान्  परान् | 
तद्वह्निमध्यपतितान्निर्दग्धांश्च         चिन्तयेत् | 
क्षणेन  नाशमायान्ति   शलभा  इव   पावके || १३४ ||
यस्यमूध्नी स्मरेद्बीजं स मृत्युमधिगच्छति | 
ध्यानेनानेन देवेशि कालादीनपि नाशयेत् || १३५ ||
इति ते कथितः किञ्चित् काम्यकर्मविधिः प्रिये | 
समासेन  कुलेशानि  कि  भूयः  श्रोतुमिच्छसि || १३६ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
काम्यकर्मकथनं नाम षोडशोल्लासः || १६ ||


अथ सप्तदशोल्लासः 

श्री देव्युवाच
कुलेश श्रोतुमिच्छामि गुरुनामादिवासनाम् |
तत्त्वं  कुलपदार्थानां  वद  मे  परमेश्वर || १ ||
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि |
तस्य   श्रवणमात्रेण  कुलज्ञानं  प्रकाशते || २ ||
नमस्ते  नाथ  भगवन्  शिवाय  गुरुरूपिणे |
विद्यावतारसंसिद्ध्यै     स्वीकृतानेकविग्रह || ३ ||
नारायणस्वरूपाय       परमात्मस्वरूपिणे |
सर्वाज्ञानतमोभेदभानवे     चैतन्याय    च || ४ ||
सर्वज्ञाय दयाकॢप्तविग्रहाय     शिवात्मने |
परत्रेह  च  भक्तानां  भव्यानां  भावदायिने || ५ ||
पुरस्तात् पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः |
सदा  सच्चित्तरूपेण  विधेहि  तव दासताम् || ६ ||
गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः |
अन्धकारनिरोधत्वात्       गुरुरित्यभिधीयते || ७ ||
गकारः सिद्धदः प्रोक्तो रेफः पापस्य दाहकः |
उकारो  विष्णुरित्युक्तस्त्रितयात्मा  गुरुः  परः || ८ ||
गकारो ज्ञानसम्पत्ती रेफस्तत्र प्रकाशकः |
उकारः शिवतादात्म्यं  गुरुरित्यभिधीयते || ९ ||
गुह्यागमात्मतत्त्वान्धनद्धानां    बोधनादपि |
रुद्रादिदेवरूपत्वाद्      गुरुरित्यभिधीयते || १० ||
स्वयमाचरते   शिष्यानाचारे  स्थापयत्यपि |
आचिनोतीह शास्त्रार्थानाचार्यस्तेन कथ्यते || ११ ||
चराचरसमासन्नमध्यापयति   यः  स्वयम् |
यमादियोगसिद्धत्वादाचार्य   इति  कथ्यते || १२ ||
आत्मभावप्रदानात्तु     रागद्वेषादिवर्ज्जनात् |
ध्यानैकनिष्ठाचित्तत्वादाराध्य इति कथ्यते || १३ ||
देवतारूपधारित्वाच्छिष्यानुग्रहकारणात्   |
करुणामयमूत्तीत्वाद्देशिकः कथितः प्रिये || १४ ||
स्वान्तःशान्तिसमुन्मीलत्परतत्त्वार्थचिन्तनात्    |
मिथ्याज्ञानविहीनत्वात् स्वामीति कथितः प्रिये || १५ ||
मनोदोषादिदूरत्वाद्धेतुवादादिवर्ज्जनात्         |
श्वादिप्राणिषु सादृश्याद् रम्यत्वाच्च महेश्वरः || १६ ||
श्रीमोक्षज्ञानदातृत्वान्नादब्रह्मात्मबोधनात्       |
स्थगिताज्ञानचिह्नत्वात् श्रीनाथः कथितः प्रिये || १७ ||
देशकालाविरोधेन वर्त्तमानात् कुलागमे |
वशीकृतजगज्जीवाद्देव   इत्यभिधीयते || १८ ||
भवपाशप्रशमनात्     टङ्कारेन्दुकशेखरात् |
रक्षणात् कमनीयत्वात् भट्टारक इतीरितः || १९ ||
प्रगुप्तागमवेदान्तरहस्यार्थविभावनात्   |
भुक्तिमुक्तिप्रदानाच्च प्रभुरित्यभिधीयते || २० ||
योनिमुद्रानुसन्धानात्    प्रस्फुरन्मन्त्रवैभवात् |
गीर्वाणगणपूज्यत्वाद् योगीति कथितः प्रिये || २१ ||
सङ्गदुःखपरित्यागात् यत्र कुत्राश्रमाश्रयात् |
मिथ आत्मनिबन्धत्वात् संयमीत्यभिधीयते || २२ ||
तत्त्वस्वरूपमननात्      परिवादादिवजीतात् |
स्वीकारात् शुभकार्याणां तपस्वीत्यभिधीयते || २३ ||
अक्षरत्वाद्वरेण्यत्वाद्धूतसंसारबन्धनात्    |
तत्त्वमस्यर्थसिद्धत्वात् अवधूतोऽभिधीयते || २४ ||
वीतरागमदक्लेशकोपमात्सर्यमोहतः |
रजस्तमोविदूरत्वाद्वीर  इत्यभिधीयते || २५ ||
कुलं गोत्रं समाख्यातं तच्च शक्तिशिवोद्भवम् |
येन मोक्ष इति ज्ञानं कौलिकः सोऽभिधीयते || २६ ||
अकुलं शिव इत्युक्तं कुलं शक्तिः प्रकीत्तीता |
कुलाकुलानुसन्धानान्निपुणाः कौलिकाः प्रिये || २७ ||
सारसंग्रहणाच्चैव        धर्ममार्गप्रवर्त्तनात् |
करणग्रामनियमात् साधकः सोऽभिधीयते || २८ ||
भजनात् परया भक्त्या मनोवाक्कायकर्मभिः |
तरत्यखिलदुःखानि    तस्माद्भक्त   इतीरितः || २९ ||
शरीरमर्थं प्राणांश्च सद्गुरुभ्यो निवेद्य यः |
गुरुभ्यः शिक्षते योगं शिष्य इत्यभिधीयते || ३० ||
योनिमुद्रानुसन्धानात्   गिरिजापादसेवनात् |
निर्लीनोपाधिविभवाद् योगिनीत्यभिधीयते || ३१ ||
शतकोटिमहादिव्ययोगिनीप्रीतिकारणात् |
तीव्रमुक्तिप्रदानाच्च शक्तिरित्यभिधीयते || ३२ ||
पालनाद्दुरितच्छेदात् कामितार्थस्य वर्द्धनात् |
पादुकेति समाख्याता मम तत्त्वं  तव  प्रिये || ३३ ||
जन्मान्तरसहस्रेषु कृतपापप्रणाशनात् |
परदेवप्रकाशाच्च जप इत्यभिधीयते || ३४ ||
स्तोकस्तोकेन मनसः परमप्रीतिकारणात् |
स्तोतृसन्तारणाद्देवि   स्तोत्रमित्यभिधीयते || ३५ ||
यावदिन्द्रियसन्तापं  मनसा  संनियम्य च |
स्वान्तेनाभीष्टदेवस्य चिन्तनं ध्यानमुच्यते || ३६ ||
चरितार्थविकाशाच्च रक्षणादपि पार्वति |
नरनारीस्वरूपाच्च चरणं कथितं प्रिये || ३७ ||
वेदिताऽखिलशास्त्रार्थसद्धर्मार्थनिरूपणात् |
दर्शनानां    प्रमाणत्वाद्वेद  इत्यभिधीयते || ३८ ||
पुण्यपापादिकथनाद्राक्षसादिनिवारणात्   |
नवभक्त्यादिजननात् पुराण इति कथ्यते || ३९ ||
शासनादनिशं देवि वर्णाश्रमनिवासिनाम् |
तारणात् सर्वपापेभ्यः शास्त्रमित्यभिधीयते || ४० ||
स्मरणोत्सुकनिष्ठानां धर्माधर्मनिरूपणात् |
तिमिरोत्पाटनाद्देवि स्मृतिरित्यभिधीयते || ४१ ||
इष्टधर्मादिकथनात्तिमिराज्ञानभञ्जनात् |
हरणात् सर्वदुःखानां इतिहास इति स्मृतः || ४२ ||
आचारकथनाद्दिव्यगतिप्राप्तिनिदानतः |
महात्मतत्त्वकथनादागमः कथितः प्रिये || ४३ ||
शाकिनीगणपूज्यत्वात्तारणाद्भववारिधे |
परादिशक्तिसान्निध्याच्छाक्त इत्यभिधीयते || ४४ ||
कौमारादिनिरोधत्वात् लयजन्मादिभञ्जनात् |
अशेषकुलसम्बन्धात् कौल इत्यभिधीयते || ४५ ||
पाशच्छेदकराद्देवि   रञ्जनात्   परतेजसः |
यतिभिश्चिन्त्यमानत्वात् परम्पर्यमितीरितम् || ४६ ||
संसारसारभूतत्वात्      प्रकाशानन्ददानतः |
यशः सौभाग्यकरणात् सम्प्रदाय इतीरितः || ४७ ||
आदित्वात् सर्वमार्गाणां मनोल्लासप्रवर्द्धनात् |
यज्ञादिधर्महेतुत्वादाम्नाय   इति   कीतीतः || ४८ ||
श्रुतानेकमहामन्त्रयन्त्रतन्त्रादिदैवतात्     |
श्रुतौ यदनविच्छिन्नाच्छ्रौत इत्यभिधीयते || ४९ ||
आम्नायतत्त्वरूपत्वाच्चातुर्यार्थनिरूपणात् |
रागद्वेषादिशमनादाचार  इति   कीर्त्त्यते || ५० ||
दिव्यभावप्रदानाच्च क्षालनात् कल्मषस्य च |
दीक्षेति   कथिता सद्भिर्भवबन्धविमोचनात् || ५१ ||
अहम्भावहराद्भीतिमथनात्   सेचनादपि |
कम्पानन्दादिजननादभिषेक इति स्मृतः || ५२ ||
उल्बणत्वात् परत्वाच्च देवताप्रीतिदानतः |
शक्तिपातनिमित्तादप्युपदेश  इति  स्मृतः || ५३ ||
मननात्तत्त्वरूपस्य   देवस्यामिततेजसः |
त्रायते सर्वभयतस्तस्मान्मन्त्र इतीरितः || ५४ ||
देहमास्थाय भक्तानां वरदानाच्च पार्वति |
तापत्रयादिशमनाद्देवता     परिकीत्तीता || ५५ ||
न्यायोपाजीतवित्तानामङ्गेषु विनिवेशनात् |
सर्वरक्षाकराद्देवि न्यास इत्यभिधीयते || ५६ ||
मुदं कुर्वन्ति  देवानां  मनांसि  द्रावयन्ति   च |
तस्मान्मुद्रा इति ख्याता दशीतव्याः कुलेश्वरि || ५७ ||
अनन्तफलदानाच्च क्षपिताशेषकल्मषात् |
मातृकात्मतया लाभकरणादक्षमालिका || ५८ ||
मङ्गलत्वाच्च डाकिन्या योगिनीगणसंश्रयात् |
ललितत्वाच्च देवेशि मण्डलं परिकीत्तीतम् || ५९ ||
कमलासनरूपत्वाल्लघुतत्त्वादिनाशनात्    |
शमितापारपापाच्च कलशः परिकीत्तीतः || ६० ||
यमभूतादिसर्वेभ्यो भयेभ्योऽपि कुलेश्वरि |
त्रायते सततञ्चैव तस्माद्  यन्त्रमितीरितम् || ६१ ||
आत्मसिद्धिप्रदानाच्च सर्वरोगनिवारणात् |
नवसिद्धिप्रदानाच्च आसनं कथितं प्रिये || ६२ ||
मायाजालादिशमनान्मोक्षमार्गनिरूपणात् |
अष्टदुःखादिविरहान्  मद्यमित्यभिधीयते || ६३ ||
महादानार्थरूपत्वाद् यागभूम्येककारणात् |
मद्भावजननाद्देवि   मद्यमित्यभिधीयते || ६४ ||
सुमनसः सेवितत्वाद् राज्यदत्वात् सदा प्रिये |
सुराकारप्रदानत्वात्   सुरेति   परिकीत्तीता || ६५ ||
अमृतांशुस्वरूपत्वान्मृत्युभीतिनिवारणात् |
तत्त्वप्रकाशहेतुत्वादमृतं  कथितं   प्रिये || ६६ ||
पानाङ्गविश्वरूपत्वात्त्रिचतुष्ककलाश्रयात् |
पतितत्राणनाद्देवि     पात्रमित्यभिधीयते || ६७ ||
आशुशुक्षणिरूपत्वाद्धातृदेवप्रियादपि    |
रक्षणादपि चाधेयस्याधारं तु विदुर्बुधाः || ६८ ||
माङ्गल्यजननाद्देवि  संविवदानन्ददानतः |
सर्वदेवप्रियत्वाच्च मांस इत्यभिधीयते || ६९ ||
पूर्वजन्मानुशमनाज्जन्ममृत्युनिवारणात्    |
सम्पूर्णफलदानाच्च पूजेति कथिता प्रिये || ७० ||
अभीष्टफलदानाच्च चतुर्वर्गफलाश्रयात् |
नन्दनात् सर्वदेवानामर्चनं   समुदाहृतम् || ७१ ||
तत्त्वात्मकस्य देवस्य परिवारवृतस्य च |
नवानन्दप्रजननात्तर्पणं     समुदाहृतम् || ७२ ||
गम्भीरापारदौर्भाग्यक्लेशनाशनकारणात् |
धर्मज्ञानप्रदानाच्च  गन्ध  इत्यभिधीयते || ७३ ||
आघ्राणनप्रजननान् मोक्षमार्गप्रदर्शनात् |
दग्धदुःखादिदमनादामोद इति कथ्यते || ७४ ||
अन्नदानात् कुलेशानि क्षपिताशेषकल्मषात् |
तादात्म्यकरणाद्देवि अक्षताः परिकीत्तीताः || ७५ ||
पुण्यसंवर्द्धनाच्चापि   पापौघपरिहारतः |
पुष्कलार्थप्रदानाच्च पुष्पमित्यभिधीयते || ७६ ||
धूताशेषमहादोषपूतिगन्धप्रभावतः   |
परमानन्दजननाद्धूप इत्यभिधीयते || ७७ ||
दीर्घाज्ञानमहाध्वान्ताहङ्कारपरिवर्जनात्  |
परतत्त्वप्रकाशाच्च दीप इत्यभिधीयते || ७८ ||
मोहध्वान्तप्रशमनात्   क्षयातीविनिवारणात् |
दिव्यरूपप्रदानाच्च      परतत्त्वप्रकाशनात् |
ख्यातो मोक्षो दीप इति मोक्षमार्गैकसाधनः || ७९ ||
चतुवीधं कुलेशानि द्रव्यञ्च षड्रसान्वितम् |
निवेदनाद्भवेत्तृप्तिर्नैवेद्यं      समुदाहृतम् || ८० ||
बहुप्रकारविचरद् भूतौघप्रीतिकारणात् |
लिप्तपापप्रशमनाद् बलिरित्यभिधीयते || ८१ ||
तत्त्वत्रयविशुद्धिः स्यात्त्वत्सेवामात्रतः प्रिये |
तत्त्वप्रकाशहेतुत्वात्तत्त्वत्रयमितीरितम्     || ८२ ||
चतुर्वर्गफलावापात् लुण्ठिताज्ञानबन्धनात् |
कल्याणधर्ममूलत्वाच्चलुकं कथितं प्रिये || ८३ ||
प्रकाशानन्दजननात्   सामरस्यप्रदानतः |
दर्शनात् परतत्त्वस्य प्रसाद इति कथ्यते || ८४ ||
पाशसञ्छेदनाद्देवि नरकस्य निवारणात् |
पाबनात् परमेशानि पानमित्यभिधीयते || ८५ ||
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा |
समीपसेवा विधिवत् उपास्तिरिति कथ्यते || ८६ ||
पञ्चाङ्गोपासनेनेष्टदेवता    प्रीतिदानतः |
पुरश्चरति भक्तस्य तत् पुरश्चरणं प्रिये || ८७ ||
आवाहनादिकर्माणि षोडश द्वादशावधि |
विधिनाचरणं प्रोक्तं उपहारमिति स्मृतम् || ८८ ||
सम्पूज्य सावृतिं देवं षोडशैरुपचारकैः |
स्वस्थानप्रेषणं प्रोक्तं मृद्वासनमिति प्रिये || ८९ ||
देवं     पूजार्थमाह्वानमावाहनमिति    स्मृतम् |
आसने सन्निवेशः स्यात् स्थापनं कुलनायिके || ९० ||
अन्योन्यसम्मुखाकारः सन्निधापनमीरितम् |
यत्र कुत्राप्यचलनं    सन्निरोधनमीरितम् || ९१ ||
देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः |
आच्छादनं         समुद्दिष्टमवगुण्ठनमीरितम् || ९२ ||
दर्शनं धेनुमुद्राया अमृतीकरणं  प्रिये |
क्षमस्वेत्यञ्जलिर्द्देवि परमीकरणं प्रिये |
स्वागतं कुशलप्रश्नं निगदेद्देवताग्रतः || ९३ ||
पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते |
जातालवङ्गकक्कोलैरुक्तमाचमनीयकम्   || ९४ ||
अखिलाघप्रशमनार्द्धनपुत्रविवर्द्धनात्    |
अनर्घफलदानाच्च अर्घ्यमित्यभिधीयते || ९५ ||
सिद्धार्थमक्षतञ्चैव कुशाग्रं तिलमेव च |
यवं गन्धः फलं पुष्पमष्टाङ्गार्घ्यं प्रकीत्तीतम् || ९६ ||
मध्वाज्यदधिभिः प्रोक्तो मधुपर्कः कुलेश्वरि |
देहप्रक्षालनं  स्नानं    सुगन्धिसलिलैः  सह || ९७ ||
चन्द्राचन्दनकस्तूरीकालागुरुभिरुच्यते       |
अष्टाङ्गप्रणिपातन्तु   कथितं   वन्दनं प्रिये || ९८ ||
एतच्चराचरं    सर्वं    क्षेत्रमित्यभिधीयते |
तत् क्षेत्रं पालितं येन क्षेत्रपालः स उच्यते || ९९ ||
इति ते कथिता किञ्चिद् गुरुनामादिवासना |
समासेन महेशानि यो जानाति स पूजकः || १०० ||
रहस्यातिरहस्यानां रहस्योऽयं    महेश्वरि |
ऊर्ध्वाम्नायोऽयमाख्यातः समासेन सविस्तरात् || १०१ ||
कुलार्णवमिदं शास्त्रं योगिनीनां हृदि स्थितम् |
प्रकाशितं  मया  चाद्य  गोपनीयं  प्रयत्नतः || १०२ ||
पुस्तकञ्च महेशानि  पशुगेहे  न   निक्षिपेत् |
न दद्यात् पशुहस्ते  च न पठेत् पशुसन्निधौ |
न पठेदासवोल्लासं ग्रन्थं भूमौ न निक्षिपेत् || १०३ ||
नित्यं  सम्पूजयेद्भक्त्या  जानीयाद्  गुरुवक्त्रतः |
नापुत्राय   प्रवक्तव्यं    नाशिष्याय    कदाचन || १०४ ||
स्नेहाल्लोभाद्भयादुक्त्वा सोऽचिरान्नश्यति ध्रुवम् |
देवि यद्विद्यते प्राज्ञे  तत्तत्  किञ्चिन्मयोदितम् || १०५ ||
साधकानां हितार्थाय भुक्तिमुक्तिफलेषिणाम् |
यश्चोर्ध्वाम्नायमाहात्म्यं पठेत् श्रीचक्रसन्निधौ || १०६ ||
भक्त्या परमया देवि यः शृणोति स कौलिकः |
व्रतं   स्नानं    तपस्तीर्थं   यज्ञदेवार्चनादिषु || १०७ ||
तत्  फलं कोटिगुणितं  लभते नात्र संशयः |
त्वत्सन्निधौ  सन्निवसेन्नात्र कार्या  विचारणा || १०८ ||
|| इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे 
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे 
काम्यकर्मकथनं नाम सप्तदशोल्लासः || १७ ||





No comments:

Post a Comment